अभ्यासयोगयुक्तेन...
श्लोकः
सम्पादयतु- अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
- परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अषटमः(८) श्लोकः ।
पदच्छेदः
सम्पादयतुअभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्था अनुचिन्तयन् ॥ ८ ॥
अन्वयः
सम्पादयतुपार्थ ! अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् दिव्यं परमं पुरुषं याति ।
शब्दार्थः
सम्पादयतु- पार्थ = अर्जुन !
- अभ्यासयोगयुक्तेन = आवर्तनरूपेण उपायेन सहितः
- नान्यगामिना = अनन्यगतेन
- चेतसा = मनसा
- अनुचिन्तयन् = अनुध्यायन्
- दिव्यम् = दिवि वर्तमानम्
- परमं पुरुषम् = निरतिशयं पुरुषम्
- याति = गच्छति ।
अर्थः
सम्पादयतुअर्जुन ! यः अभ्यासरूपम् उपायम् अवलम्ब्य एकाग्रेण चित्तेन ध्यायति सः दिव्यं पुरुषं प्राप्नोति ।