अभ्यासेऽप्यसमर्थोऽसि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
- मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः
सम्पादयतुअभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १० ॥
अन्वयः
सम्पादयतुअभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि ।
शब्दार्थः
सम्पादयतु- अभ्यासे अपि = अभ्यासयोगे अपि
- असमर्थः असि = अशक्तः भवसि
- मत्कर्मपरमः = मदर्थकर्माचरणप्रधानः
- भव = भवतु
- मदर्थम् = मामुद्दिश्य
- कर्माणि = क्रियाः
- कुर्वन् अपि = आचरन् अपि
- सिद्धिम् अवाप्स्यसि = सिद्धिं प्राप्नोषि ।
अर्थः
सम्पादयतुअभ्यासयोगे अपि अशक्तः भवसि चेत् सर्वदा मामुद्दिश्य कर्माणि आचर । मदर्थं कर्माणि आचरन् अपि चित्तशुद्धिं लप्स्यसे ।