अमरनाथयात्रायाम् आतङ्कीयाक्रमणम्

अमरनाथयात्रायाम् आतङ्कीयाक्रमणं १० जुलै २०१७ दिनाङ्के अभवत्।[२] उत्तरभारतस्य जम्मूकाश्मीरराज्यस्य अनन्तनागमण्डले एतद् आक्रमणम् अभवत्। इस्लामिकातङ्कवादिना सङ्घटनेन लश्कर-ए-तैयबा इति समूहेन  कृते तस्मिन् आक्रमणे ७ श्रद्धालवः मृताः।[३] भारतस्य आरोपः अस्ति यत्, आक्रमणे 'लश्कर ए तैयबा'-संस्थाया इस्माइल इत्याख्यः आतङ्कवादी मुख्यः आरोपी अस्ति। परन्तु पाकिस्तानदेशे स्थितं[४] इस्लामिकातङ्कवादि संगटनं 'लश्कर ए तैयबा' आक्रमणस्य दायित्वं नास्व्यकरोत्।[१]

अमरनाथयात्रायाम् आतङ्कीयाक्रमणम्
अनन्तनाग-मण्डले आक्रमणम् अभवत्।
स्थानम् अनन्तनागमण्डलम्
निर्देशाङ्कः ३३°४४′उत्तरदिक् ७५°०९′पूर्वदिक् / 33.73°उत्तरदिक् 75.15°पूर्वदिक् / ३३.७३; ७५.१५निर्देशाङ्कः : ३३°४४′उत्तरदिक् ७५°०९′पूर्वदिक् / 33.73°उत्तरदिक् 75.15°पूर्वदिक् / ३३.७३; ७५.१५
तिथिः  10, 2017 (2017-07-10)
रात्रौ ८:२० (भारतीयकालवलयः)
लक्ष्यम् अमरनाथयात्रणः गुजरातराज्यस्य बस-यानम्
मृत्युः
आहतः ३२
पीडितः अमरनाथयात्रिणः
आक्रमणकारी लश्कर-ए-तैयबा इत्यस्याः ३ आतङ्कवादिनः (दायित्वं न स्वीकृतं[१])

अमरनाथः भारत-नेपाल-श्रीलङ्कादिषु देशेषु निवसतां हिन्दूधर्मानुसारिणां प्रमुखं यात्रास्थलम् अस्ति।[५] हिन्दूधर्मे श्रावणमासस्य दिने, विशेषतः च श्रावणस्य सोमवासरे भगवतः शिवस्य दर्शनस्य विशेषः महत्त्वं भवति। २०१७ इसवीये सोमवासरे एव श्रावणमासस्य आरम्भः जातः आसीत्, प्रथमदिने एव यात्रिषु एतत् आक्रमणम् अभवत्।

उद्देशः सम्पादयतु

८ जुलै २०१६  को बुरहान वानी-नामक आतंकवादी भारतीयसेनया हतः। तस्य वार्षिकमृत्युतिथौ एव आतङ्कीयाक्रमणम् अभवत्, येन जम्मूकाश्मीरस्य जनेषु सः हुतात्मत्वेन जीवितः भवेत्, अतः आक्रमणम् अभवत्।[६] एतस्य पूर्वसज्जतात्वेन सुरक्षायाः सशक्ता व्यवस्था कृता आसीत्।[७] [८] परन्तु एतत् आक्रमणम् अभवत्, यस्मिन् भारते विपक्षीयदलैः सर्वकारस्यो परि सुरक्षात्रुटेः आरोपः कृत्वा अन्वेषणस्य याचना कृता।[९]

घटनाक्रमः सम्पादयतु

रात्रौ ८:१५ वादने, प्रप्रथनं त्रयः आतङ्कवादिनः अर्ध-सैनिकबलस्य शिविरे आक्रमणम् अकुर्वन्। ततः रात्रौ ८:२० वादने खानाबल-स्थानकस्य समीपे यात्रिणां बस्-याने अविरतम् भुषुण्ड्या आक्रमणम् अकुर्वन्।[१०] तत् बस्-यानं गुजरातराज्यस्य बनासकाण्ठामण्डलस्य आसीत्। तस्य यानस्य अमरनाथ-श्राइन-बॉर्ड-संस्थायां पञ्जीकरणं न जातम् आसीत्, अतः यानं सुरक्षां विना एव अमरनाथात् जम्मू-प्रदेशं प्रति प्रस्थानं कुर्वत् आसीत्। भुषुण्ड्याः निर्गम्यमानाभिः गुलिकाभिः ७ शिवभक्ताः मृताः, ३२ च आहताः। तस्मिन् याने ५६ यात्रिणः आसन्, येषु गुजरात-दमन-दीव-महाराष्ट्रादिषु निवसन्ति स्म। ७ मृतकेषु ५ स्त्रियः आसन्।[११] ७ मृतकेषु पञ्च (५) मृतकाः गुजरातराजस्य आसन्, द्वौ (२) च महाराष्ट्रराज्यस्य आस्ताम्।।

आक्रमणस्य आरम्भः त्रिषु एकेन आतङ्किना कृता, यस्य नाम इस्माइल आसीत्, यः बाइक-याने आरूढः आसीत्। आक्रमणस्य पश्तात् आक्रमणकारिणः अरवानी-स्थलं प्रति गतवन्तः।[१२]

प्रतिक्रिया, परिणामश्च सम्पादयतु

जम्मू-काश्मीर-आरक्षकाणाम् अनुसारं आक्रमणमिदं पाकिस्तानस्थितस्य लश्कर-ए-तैयबा-नामकस्य इस्लामी-आतंकवादी-सङ्घटनस्य कार्यम् अस्ति।[१३] परन्तु इस्माइल इत्येनं स्वस्य आतङ्कवादित्वेन अस्वीकृत्य लश्कर-ए-तैयबा-सङ्घटनेन  एतस्यां घटनायां स्वस्य कारकत्वं निराकृत्य उक्तवत् यत्, भारतीयसर्वकारः लश्कर-संस्थाया मुक्तकश्मीर-आन्दोलने बाधां जनयितुम् एवं करोति।[१४] एतस्मात् पूर्वं 26/11 आक्रमणे[१५], पठान-चौक-आक्रमणे[१६] [१७] [१८] उरी-आक्रमणे[१९] च स्वस्य श्रेयं स्वीकृतवतः इस्लामि-आतङ्कि-सङ्घटनं लश्कर-ए-तोयबा इति घटनाम् 'अनिस्लामिक' इत्युक्त्वा भारतसर्वकार एव एतस्मिन् आक्रमणे दोषी इति प्रत्यारोपम् अकरोत्।[२०] [२१] इस्माइल इत्यस्य पाकिस्थानि-नागरिकतयाः एतावता किमपि प्रमाणं न प्राप्तम् अस्ति।

भारतस्य प्रधानमन्त्री नरेन्द्र मोदी आक्रणस्य निन्दां कुर्वन् उक्तवान् यत्, "भारतम् एतादृशैः भीरुतापुर्णैः आक्रमणेभ्यः, घृणायाः उद्देशेभ्यः भीत।"[२२] अनैः अपि राजनीतिज्ञैः राजनाथ सिंह, मेहबूबा मुफ़्ती, राम नाथ कोविन्द, ओमर अब्दुल्ला इत्यादिभिः घटनायाः निन्दा कृता।

अमेरिका-देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्प इत्येषः निन्दां कुर्वन् उक्तवान् यत्, अमरनाथयात्रायां जातम् आतङ्कीयाक्रमणं निन्दनीयम् अस्ति। अमेरिक-देशीयस्य कांग्रेस-दलस्य सदस्यः विल हर्ड अवदत्, ‘‘मम संवेदनाः अमरनाथयात्रायाः आतन्कवादिनि आक्रमणे पीडितानां, तेषां परिजनानां च सह सन्ति। एतत् आक्रमणं निन्दनीयम् अस्ति, एतस्य यावन्त्यः निन्दाः भवेयुः न्यूनाः भविष्यन्ति’’ इति। कांग्रेस-दलसय् सदस्या शीला जैक्सन ली इति ट्वीट कृतवती यत्, ‘‘अमरनाथयात्रिषु आक्रमणं स्तब्धकर्तृ अस्ति, धर्मः कश्चन मौलिकः मानवाधिकारः वर्तते।’’

उधमपुर-मण्डले जम्मू-श्रीनगर-राष्ट्रीय-राजमार्गे उच्च-सुरक्षा कृता, राज्ये अन्तर्जालसेवा अपि स्थगिता आसीत्।[२३]

मृतकानां परिवाराय जम्मू-कश्मीर-सर्वकारः ₹६ लक्षं रुप्यकाणि, अमरनाथ-श्राइन-बॉर्ड इत्यषः ₹५ लक्षं रुप्यकाणि हानिपूर्त्यै अघोषयत्। गम्भीररूपेण आहतानां यात्रिणां सुश्रुषायै जम्मू-कश्मीर-सर्वकारः  ₹२ लक्षं रुप्यकाणि, अमरनाथ-श्राइन-बॉर्ड इत्येषः ₹१॰५ लक्षं रुप्यकाणि हानिपूर्तिरूपेण घोषितवान्; तेन सह सामान्याहतेभ्यः यात्रिभ्यः ₹१ लक्षं रुप्यकाणि हानिपूर्तित्वेन घोषितवान् जम्मू-कश्मीर-सर्वकारः। अमरनाथ-श्राइन-बॉर्ड इत्येषः तेषां कृते ₹७५ सहस्रं रुप्यकाणि अघोषयत्।[२४] केन्द्रीयसर्वकारः मृतकानां परिवाराय ₹७ लक्षं रुप्यकाणां, आहतेभ्यः ₹१ लक्षं रुप्यकाणां हानिपूर्तिधनस्य घोषणां कृतवान्।[२५] आक्रमणात् यात्रिणां रक्षणकाले यानचालकस्य शेख सलीम गफ़ूर इत्यस्य साहसाय जम्मू-कश्मीर-सर्वकारः ₹३ लक्षं रुप्यकाणि, अमरनाथ-श्राइन-बॉर्ड ₹२ लक्षं रूप्यकाणि पुरस्कारत्वेन अघोषषयत्।

चित्रदीर्घा सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कन्तुः सम्पादयतु

सन्दर्भः सम्पादयतु

  1. १.० १.१ "LeT denies Amarnath attack charge; blames Indian intel". 
  2. "Amarnath Yatra terror attack: Five women among seven killed; Ramnath Kovind condemns the attack" [अमरनाथ यात्रा पर आतंकवादी हमले: सात महिला मारे गए; रामनाथ कोविंद ने हमले की निंदा की]. दी इंडियन एक्सप्रेस (in अंग्रेज़ी). ११ जुलाई २०१७. आह्रियत ११ जुलाई २०१७. 
  3. "7 Dead in the Biggest Terror Attack on Amarnath Yatra in Years" [अमरनाथ यात्रा के समय ७ श्रद्धालुओँ की आंतंकवादी आक्रमण में मृत्यु हुई]. press release (in अंग्रेज़ी). thequint.com. ११ जुलाई २०१७. आह्रियत ११ जुलाई २०१७. 
  4. http://news.bbc.co.uk/2/hi/south_asia/3181925.stm
  5. http://www.jagranyatra.com/2010/07/amarnath-yatra-india/
  6. http://www.livehindustan.com/news/national/article1-kashmir-worsening-situation-burhan-wani-amarnath-yatra-terrorist-incidents-544620.html
  7. http://navbharattimes.indiatimes.com/india/burhan-wanis-death-anniversary-to-clash-with-amarnath-yatra-protests-feared/articleshow/58895572.cms
  8. http://hindi.webdunia.com/national-hindi-news/amarnath-yatra-amarnath-pilgrim-terrorism-117070600090_1.html
  9. http://aajtak.intoday.in/story/amarnath-yatra-mehbooba-mufti-nda-jammu-kashmir-terror-1-940531.html
  10. "Terrorists attack bus in Jammu and Kashmir's Anantnag district, kill seven Amarnath pilgrims" [जम्मू एवं कश्मीर के अनंतनाग जिले में बस पर हमला कर आतंकियों ने सात अमरनाथ तीर्थयात्रियों को मार दिया]. zee news (in अंग्रेज़ी). ११ जुलाई २०१७. आह्रियत ११ जुलाई २०१७. 
  11. "J & K: અમરનાથ યાત્રામાં આતંકી હુમલો: 7 ગુજરાતીઓના મોત: PM મોદીએ હુમલાની ટીકા કરી" [J & K:अमरनाथ यात्रा में आतंकी हमला: ७ गुजरातीयों की मोत: मुख्यप्रधान नरेन्द्र मोदी ने की टीका] (in गुजराती). गुजरात: विश्व गुजरात. ११ जुलाई २०१७. Archived from the original on 2019-02-15. आह्रियत ११ जुलाई २०१७. 
  12. "Terror attack on Amarnath yatra pilgrims: How it unfolded" [अमरनाथ यात्रा पर तीर्थयात्रियों पर आतंकवादी हमला: यह कैसे हुआ]. news18 (in अंग्रेज़ी). १० जुलाई २०१७. आह्रियत ११ जुलाई २०१७. 
  13. "Lashkar-e-Toiba behind attack on Amarnath Yatris; Pakistani terrorist Ismail mastermind: J&K IGP Muneer Khan" [अमरनाथ यात्रा पर हमले के पीछे लश्कर-ए-तैयबा; पाकिस्तानी आतंकवादी इस्माइल मास्टरमाइंड: जम्मू और कश्मीर आईजीपी मुनीर खान]. zee news (in अंग्रेज़ी). ११ जुलाई २०१७. आह्रियत ११ जुलाई २०१७. 
  14. "Amarnath yatra - Live: Opposition asks govt to introspect on security failure" [अमरनाथ यात्रा]. the hindu (in अंग्रेज़ी). ११ जुलाई २०१७. आह्रियत ११ जुलाई २०१७.  Text " लाइव: विपक्ष ने सरकार से सुरक्षा की विफलता पर आत्मज्ञान की जांच की " ignored (help)
  15. "350 rounded up in Maharashtra". The Tribune. Archived from the original on 17 July 2006. आह्रियत 17 December 2011. 
  16. http://www.greaterkashmir.com/news/kashmir/kashmir-lashkar-e-toiba-claims-pantha-chowk-attack/253136.html
  17. "संग्रह प्रतिलिपि". Archived from the original on 2018-03-24. आह्रियत 2017-07-19. 
  18. "संग्रह प्रतिलिपि". Archived from the original on 2018-03-24. आह्रियत 2017-07-19. 
  19. http://timesofindia.indiatimes.com/india/Lashkar-claims-responsibility-for-Uri-terror-attack/articleshow/55047490.cms
  20. "संग्रह प्रतिलिपि". Archived from the original on 2017-08-24. आह्रियत 2017-07-19. 
  21. "संग्रह प्रतिलिपि". Archived from the original on 2017-08-24. आह्रियत 2017-07-19. 
  22. "अमरनाथ हमला: पीएम मोदी बोले- दर्द बयां करने के लिए शब्द नहीं". news18 (in हिन्दी). १० जुलाई २०१७. आह्रियत ११ जुलाई २०१७. 
  23. Empty citation‎ (help) 
  24. "J&K announces compensation for victims of Amarnath yatra terror attack" [जम्मू-कश्मीर अमरनाथ यात्रा के आतंकवादी हमले के पीड़ित लोगों के लिए मुआवजे की घोषणा]. deccan chronicle (in अंग्रेज़ी). ११ जुलाई २०१७. आह्रियत १२ जुलाई २०१७. 
  25. Empty citation‎ (help)