शिवः

सनातनधर्मस्य प्रमुखः देवः


शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः, शंङ्कर: इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।

शिवः

व्युत्पत्तिः

सम्पादयतु

'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)
विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवराममूर्तिः,१९७६)
शं करोती इति शंङ्कर: म्हणजे जो आपले कल्याण करतो तो शंकर होय.

स्वरूपम्

सम्पादयतु

तृतीयनयनम्

सम्पादयतु

शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् ।(फ्लाड् ,१९९६,पृ: १५१.) शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।(चक्रवर्तिः,पृ।-३७-३९)

अर्धचन्द्रः

सम्पादयतु

शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः।(चक्रवर्तिः,पृ : ५८) सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।

विभूतिः

सम्पादयतु
विभूतिः वा भस्मः शिवस्य सर्वाङ्गे भवति। भैरवेत्यदि शिवस्य केचन् स्वरूपाः प्राचीन्भारतीय-श्मशानवैराग्य-दर्शनैस्साकं युक्ताः। अस्य मतानुयायीनः भवन्ति रक्षणशीलब्राह्मण्यवादतः भिन्ना काचन् गष्ठयः । विभूतिभूषणोऽपि शिवस्य अपराख्या।

जटाजुटः

सम्पादयतु

शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते। (चिद्भवनन्दः,पृ : २२, म्याक्डोनेल्, पृ: ६२.)

नीलकण्ठः

सम्पादयतु

समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः।(फ़्लाड् ,१९९६.पृ: ९८| चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणे अस्ति विष्णुः एकदा शिवस्य कण्ठाऽवरोधं कृतवान्। शिवः पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठः नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (८६९)।

पवित्रगङ्गा

सम्पादयतु

हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।(शिवराममूर्तिः,१९७६ ,पृ: ८)

ज्योतिर्लिङ्गमन्दिरानि

सम्पादयतु

शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-

ज्योतिर्लिङ्गम् अवस्थानम्
सोमनाथः   प्रभासपाटनम् , वेरावलस्य समीपे, गुजरातराज्यम्
मल्लिकार्जुनः   श्री शैलम्, आन्ध्रप्रदेशराज्यम्
महाकालेश्वरः   उज्जयिनी, मध्यप्रदेशः
ओङ्कारेश्वरः   इन्दौरनगरस्य समीपे, मध्यप्रदेशः
केदारनाथः   केदारनाथः, उत्तराखण्डराज्यम्
भीमशङ्करः   वितर्कितम्
काशीविश्वनाथः वाराणसीनगरम्, उत्तरप्रदेशराज्यम्
त्र्यम्बकेश्वर:   त्र्यम्बकम्, नासिकनगरम्, महाराष्ट्रराज्यम्
रामनाथस्वामी   रामेश्वरम्, तमिऴनाडुराज्यम्
घृष्णेश्वरः   इलोरा, महाराष्ट्रराज्यम्
वैद्यनाथः वितर्कितम्
नागेश्वर:   वितर्कितम्

.

  1. For the name Kailāsagirivāsī (Sanskrit कैलासिगिरवासी), "With his abode on Mount Kailāsa", as a name appearing in the Shiva Sahasranama, see: Sharma 1996, पृष्ठम् 281.
"https://sa.wikipedia.org/w/index.php?title=शिवः&oldid=485617" इत्यस्माद् प्रतिप्राप्तम्