अम्बिकादत्तव्यासः
कविपरिचयः
सम्पादयतुअम्बिकादत्तव्यासः( Ambikadattavyasa) सामवतनाटके स्वपरिचयं प्रस्तुवन्नाह-
- जातो जयपुरनगरे वाराणस्यां तथा कलितविद्यः।
- सत्वरकवितासविता गौडः कोऽप्यम्बिकादत्तः॥
जनकोऽस्य दुर्गादत्तः। अयं बिहारप्रदेशे संस्कृताध्यापनं कृतवान्। अस्य स्थितिकलः ई १८५८ तः १९०० पर्यण्तम्।
कृतिपरिचयः
सम्पादयतुशिवराजविजयं, कथाकुसुमं, धर्माधमकलकलं, मित्रालापः, सामवतं चास्य संकृतकाव्यकृतयः।
शिवराजविजयम्
सम्पादयतुअयम् ऐतिहासिक उपन्यासः। अस्य कथावस्तु विरामत्रये विभक्तमस्ति। प्रतिविरामं चत्वारो निश्वासाः। नायकः शिवराजो वीरश्च मुख्योरसः। अन्ये रसा अङ्गत्वेन यथावसरं व्यक्ताः।
काव्यकला
सम्पादयतुशिवराजविजये परम्परागतशैलीम् आश्रित्य रसयोजना प्रकृतिवर्णनं, मानवीयसौन्दर्यवर्णनं, अलङ्कारयोजना, अन्यानि च काव्यतत्त्वानि समाविष्टानि, अर्वाचीनशैलीम् आश्रित्य च चरित्रचित्रण-कथोपकथन-कथानकयोजनादीनि प्रयुक्तानि। एवम् अयमुपन्यासः प्राचीनार्वाचीनशैल्यौः सङ्गमस्थलम्।
अत्र वर्णेषु वाक्ययोजनायां च बाणभट्टस्य प्रभावः। क्वचिद् वाक्येषु दीर्घता क्वचिच्च लघुता। भाषा प्राञ्जला प्रसादगुणोपेता प्रवाहमयी च। तद्यथा-
इत इतो गौरसिंह! उपविश, उपविश चिराय दृष्टोऽसि, अपि कुशलं कलयसि? अपि कुशलिनः तव सहवासिनः। अभ्यंगीकृतमहाव्रतं निर्वहत यूयम्। अपि कश्चन नूतनो वृत्तान्तः।
कविः चरित्रचित्रणे सफलः। शिवराजे नायकोचिताः सर्वे गुणाः सन्ति। स धीरोदात्तो नायकः। स वीरो नम्रो दयावान् मर्यादायाः स्वतन्त्रतायाश्च रक्षकः। तमेव परिवृत्य उपन्यासस्य कथावस्तु प्रसृतम्। ऐतिहासिके कथानके कल्पनाया अपि मिश्रणं वर्तते।
संवादा स्वाभाविकाः सरलाः प्रकरणानुकूलाः पात्राणां विविध-मनोवृत्तीनां परिचायकाश्च सन्ति। तद्यथा-
- रसनारी- कतमोऽसौ भ्राता?
- महाराजः- कुमारो मायाजिम्हः।
- रसनारी- कथमत्रायातः?
- महाराजः- सोऽस्माभिर्योद्धुमायात आसीत्।
प्रकृतिचित्रणे तु व्यासः अभिनवो बाणः। तेन प्रकृते विविधरूपाणां शब्दचित्राणि प्रस्तुतानि। प्रकृतेः सौन्दर्यम् आलम्बनत्वेन उद्दीपनत्वेन् च वर्णितम्। अलङ्कारप्रयोगस्तु चमत्कारजनकः। शब्दार्थालङ्काराः यथावसरं नैपुण्येन प्रयुक्ताः। उपमायां यमकालङ्कारस्य रमणीयः प्रयोगो यथा- "यदीयचित्रपूरदुर्ग परसहस्रा: क्षत्रियकुलांगनाः, शारदा इव विशारदाः, अनसूया इवानसूया, यशोदा इव यशोदाः, सत्या इव सत्याः, रूक्मिण्य इव रूक्मिण्यः, सुवर्णा इव सुवर्णाः।”