अयम् अरग्वदवृक्षः अपि भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारते तु सर्वेषु प्रदेशेषु वर्धते । तदतिरिच्य सिलोन्, मलया, चीना इत्यादिषु देशेषु अपि वर्धते । अयम् अरग्वदः ६ – ९ मीटर् यावत् उन्नतः भवति । तस्य काण्डः ऋजु भवति । काण्डं परितः मृदु त्वक् भवति । अस्य अरग्वदस्य पर्णानि ६.८ – ९.५ से.मी. यावत् दीर्घाणि, गाढहरिद्वर्णीयानि च भवन्ति। अस्य पुष्पाणि पीतवर्णीयानि । अस्य अरग्वदस्य अपक्वानि फलानि ३० – ६० से.मी. यावत् व्यासयुक्तानि, कान्तियुक्त – कपिलवर्णीयानि च भवन्ति । तेषाम् अपक्वानां फलानाम् अन्तः नाणकसदृशानि बहूनि बीजानि भवन्ति । तानि बीजानि कागदसदृशेन कृशेण आवरणेन पृथक् भूतानि भवन्ति ।

अरग्वदवृक्षः
अरग्वदवृक्षः
अरग्वदवृक्षः
संरक्षणस्थितिः
अनाकलित (IUCN)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Cassia
जातिः C. fistula
द्विपदनाम
Cassia fistula
L.
पर्यायपदानि
  • Bactyrilobium fistula Willd.
  • Cassia bonplandiana DC.
  • Cassia excelsa Kunth
  • Cassia fistuloides Collad.
  • Cassia rhombifolia Roxb.
  • Cathartocarpus excelsus G.Don
  • Cathartocarpus fistula Pers.
  • Cathartocarpus fistuloides (Collad.) G.Don
  • Cathartocarpus rhombifolius G.Don
अरग्वदवृक्षः, पुष्पाणि च

इतरभाषाभिः अस्य अरग्वदस्य नामानिसंपादित करें

अयम् अरग्वदवृक्षः आङ्ग्लभाषया "cassia fistula" इति उच्यते । हिन्दीभाषया “अमलतास” इति, तेलुगुभाषया“कोण्ड्रकायि” अथवा “रेलाचिट्टु” इति वा वदन्ति । तमिळ्भाषया “कोन्या” इति, मलयाळभाषया“कणिकोन्न” इति, कन्नडभाषया“केक्के मर” इति, मराठीभाषया "बहावा" इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अरग्वदस्य प्रयोजनानिसंपादित करें

 

अस्मिन् “ब्यूटरिक् आसिड्”, “शर्करा – निर्यासः”, “ब्यूतिन्” तथा “वोलटैले आयिल्” इत्यादयः अंशाः च भवन्ति । अयं गुरुगुणयुक्तः, उष्णवीर्यः च । अस्य रसः तिक्तः, विपाके मधुरः भवति ।
१. अस्य अरग्वदस्य बीजेभ्यः उत्पादितं तैलं सर्वविधान् चर्मरोगान् निवारयति ।
२. “सोरियसिस्” बाधायाम् अस्य अरग्वदस्य पर्णानां निर्यासः हितकरः भवति ।
३. गर्भवतीनाम् उदरस्य उपरि श्वेतवर्णस्य कालकाः जाताः चेत्, कालकानां कण्डूतिः भवति चेत् च अस्य अरग्वदस्य पर्णानि दुग्धेन सह उद्घर्षणेन प्राप्यमणम् उपसेचनसदृशं निर्यासयुक्तं द्रवं लेपनीयम् । तेन कण्डूतिः अपि अपगच्छति, कालाकाः अपि अपगच्छन्ति ।
४. अस्य अरग्वस्य अपक्वेभ्यः फलेभ्यः तथा पर्णेभ्यः च उत्पादितानि औषधानि चर्मरोगान्, मलबद्धतां, कीलवेदनां च अपगमयन्ति ।
५. अरग्वदः वातम् अपि निवारयति, कामलां, कासं, मूत्रविकारान् च अपगमयति ।
६. अरग्वदस्य उत्पन्नानि क्षयरोगे अपि हितकराणि ।
७. अस्य अरग्वदस्य प्रमुखाणि उत्पन्नानि “अरग्वदादि तैलम्”, “अरग्वदादि लेह्यम्”, “अरग्वदारिष्टम्” इत्यादीनि आयुर्वेदस्य आपणेषु लभ्यन्ते ।
८. अस्य अरग्वस्य मूलस्य कषायं चेत् २५ – ३० मी.लि यावत्, चूर्णं चेत् ५ – १० मि. ग्रां. यावत् सेवनीयम् ।

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=अरग्वदवृक्षः&oldid=461996" इत्यस्माद् प्रतिप्राप्तम्