ब्रह्मा And विष्णुः

ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः।संस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः। अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः। सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः। ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति। विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञ‌ायते। विष्णोः नाभेः कमलः जातः यत्र ब्रह्मा स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। पद्मपुराणस्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः द्रौपदी गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।

पार्वती and  काली

लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि चअनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति ।एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।केनोपनिषदि (३.१२) साउमा हैमवती इति नामभ्यां कथ्यते । देवराजं महेन्द्रं सा परतत्त्वविषये अबोधयत ।प्रथमे जन्मनि सा दक्षप्रजापतेः पुत्री सती यदा आसीत्, तदा पितुर्यज्ञे जातां स्वपत्युः अवज्ञाम् असहमाना आत्मानम् अग्नेराहुतिं कृतवती । तदनन्तरजन्मनि सा पर्वतराजस्य हिमवतः मेनायाश्चपुत्री पार्वती जाता । कठिनं तपः कृत्वा सा पुनरपि परमशिवमेव पतिं लब्धवती । तपसि स्थितया निराहारया तया पर्णान्यपि न आह्रियन्तइति कारणात् सा अपर्णा इति नाम अलभत । देवी, शक्तिः इति नामनी यद्यपि सर्वाः स्त्रीदेवताः व्यपदिशतः, तथापि ताभ्यां सामान्यतयापार्वतीदेवी एव व्यपदिश्यते ।देव्याः शक्त्याः सौम्यासौम्ये द्वे रूपे भवतः । पार्वती उमा चेति शिवस्य पत्नीरुपेण सा सौम्यं रूपं वहति । तदातस्याः द्वौ हस्तौ एव । दक्षिणहस्तेन कुमुदं धरन्ती सर्वालङ्कारभूषिता पत्युः पार्श्वे दृश्यते सा । यदा एकाकिनी तदा चतुर्भिः हस्तैः भूषितादृश्यते । द्वाभ्यां हस्ताभ्यां कमलं कुमुदञ्च धरन्ती अपराभ्यां वरदाभयमुद्रे प्रदर्शयति । शिवस्य अर्धाङ्गिनी सा अर्धनारीश्वरस्य तस्यदेवस्य वामभागम् अलङ्करोति ।काली, दुर्गा, चामुण्डा, महिषासुरमर्दिनी इति तस्याः असौम्यानि अर्थात् उग्ररूपाणि सन्ति । एषु रूपेषु साबहूनि आयुधानि,रुण्डमालां च धरति । अनेन रूपेण जनानां पापानि विनाशयति ।

अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्यभावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषुशाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषुभक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, पार्वती, चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्याअस्ति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली शिवेन शैवैः चदृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । संस्कृतस्य प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालःशिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकांनिर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि पार्वती स्वीकर्त्री तन्त्ररूपेण शिवस्यपाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती । डि.किन्ल्से १२२पुटानिब्रह्मा, विष्णुः, शिवः इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् ।निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः ।

https://www.shareyouressays.com/essays/essay-on-goddess-parvati/111935

https://www.shareyouressays.com/essays/1302-words-essay-on-vishnu/111939

[१]

[२]


अलङ्कारराघवम् सम्पादयतु

यज्ञेश्वरदीक्षितेन निर्मितः अयम् अलङ्कारग्रन्थः अस्ति । स्वप्ने प्रभुरामचन्द्रेण कृताज्ञया इमं ग्रन्थं लेखकः निर्मितवान् । रामाज्ञया स्वप्ननिरूढया मे विनिर्मितेऽलङ्कृतिराघवेऽस्मिन् । न युक्तिदौर्बल्यमुदाहृतीनां न मान्द्यमित्यादरयन्तु सन्तः॥[१] अत एव ग्रन्थस्यास्य नामकरणं लेखकः अलङ्कारराघवम् इति कृतवान् । अन्यन्यरामभक्तः अयं ग्रन्थे सर्वत्र रामसम्बद्धोदाहरणानि लिखित्वा स्वभक्तिं प्रकटितवान् ।यथा उपमालङ्कारप्रकरणे- दौर्दण्डौ विटपाविवोपचयकौ मुक्ता विभूषोज्ज्वलाः सम्फुल्लाः कलिका इवाङ्गकिरणा संसर्गिभृङ्गा इव । भक्तेभ्यो ननु धर्मकाममुखराभीष्टानि दत्तान्यहो दिव्यानीव फलानि कल्पविटपीवाभाति सीतापतिः॥[२] स्वकीयग्रन्थे दण्डिरुद्रटादिभ्यः आरभ्य वीरनारयणपर्यन्तादीनां नामोल्लेखं करोति अयं ग्रन्थकारः। अतः विद्वद्भिः एतस्य समयः सप्तमशताब्द्याः प्रारम्भे ऊहितः । अत एव ग्रन्थस्यास्य समयः अपि सप्तमशताब्द्याः प्रारम्भः इति ज्ञातुं शक्यते । ग्रन्थेस्मिन् नायकनायिकानिरूपणं, वृत्तिनिरूपणं, रीतिस्वरूपवर्णनं, काव्यविशेषनिरूपणं, नाट्यप्रकरणं, रसस्वरूपनिरूपणं, दोषसामान्यलक्षणं, गुणसामान्यलक्षणं, शब्दालङ्कारनिरूपणम्, अर्थालङ्कारनिरूपणम् इत्यादयः विषयाः सन्ति । तत्र तत्र ग्रन्थकारः प्राचीनालङ्कारिकाणाम् अभिप्रायान् अनुवदति । ग्रन्थेस्मिन् स्वरचितानि उदाहरणानि एव ग्रन्थकारः समुपस्थापितवान्। रामपरतया रचितानि एतानि उदाहरणानि ग्रन्थस्य नाम अन्वर्थकतां नयन्ति । ग्रन्थस्यास्य शैली यद्यपि सुलभा अस्ति तथापि लक्षणनिरूपणे ग्रन्थकारः तर्कशास्त्रसरणिम् अनुसरति । वेदान्तादिशास्त्रविचारान् अपि सन्दर्भानुगुणं ग्रन्थकारः विचारयति। अयं ग्रन्थः मैसुरुनगरे विद्यमानेन प्राच्यविद्यासंशोधनालयेन १९९७ तमे वर्षे प्रकाशितः ।

  1. मङ्गलाचरणविचारः,अलङ्कारराघवम्, प्राच्यविद्यासंशोधनालयः, मैसुरु १९९७
  2. उपमाप्रकरणम्,अलङ्कारराघवम्, प्राच्यविद्यासंशोधनालयः, मैसुरु १९९७
"https://sa.wikipedia.org/w/index.php?title=अलङ्कारराघवम्&oldid=467569" इत्यस्माद् प्रतिप्राप्तम्