विष्णुः
विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञायते। विष्णोः नाभेः कमलः जातः यत्र ब्रह्मा स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। पद्मपुराणस्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः द्रौपदी गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।
विष्णुः | |
---|---|
सञ्चिका:Bhagavan Vishnu.jpg | |
देवनागरी | विष्णु |
![]() |
परम्पराः
|
![]() |
महाकविः कालिदासः रघुवंशमहाकाव्ये विष्णोः स्वरूपवर्णनं करोति यत्, सुतकामेष्टिप्रवृत्तिसमये निर्ज्जराः रावणेन पीडिताः सन्तः ग्रीष्मातुराः पान्थाः छायातरुमिव भगवन्तं विष्णुम् अभिजगग्मुः। ते देवाः सागरं प्रापुः विष्णुश्च बुबुधे, तथा हि गम्यस्याव्यासङ्गः भविष्यन्त्याः कार्यसिद्धेः चिह्नं हि। देवाः शेषस्य शरीरे समुपविष्टं तस्य शेषस्य फणामण्डलस्य उद्रश्मिभिः मणिभिः द्योतितदेहं तं हरिं ददृशुः। उत्पले समुपविष्टायाः श्रियाः दुकूलव्यवहितमेखले आस्तीर्णपाणिपल्लवे अङ्के निक्षिप्तपदं विष्णुं ददृशुः। विकसितकमलनेत्रं प्रातःकालिकसूर्यतुल्यपीताम्बरधरं योगिगम्यं शरत्सम्बन्धिदिवसमिव स्थितिम्। कान्त्यानुरञ्जितश्रीवत्सलाञ्छनं लक्ष्म्या विलासदर्पणं सागराणां सारं कौस्तुभाख्यं मणिं विशालवक्षसा धारयन्तं वृक्षाकारैः दिव्यालङ्कारभूषितैः भुजैः उपलक्षितमत एव पयोमध्यादाविर्भूतं द्वितीयं कल्पद्रुममिव स्थितम्। दैत्याङ्गनाकपोलभित्तीनां मदरागहार्रभिः सविग्रहैः सुदर्शनादिभिः शस्त्रैः उदीरितजयशब्दम्। त्यक्तहीशअवरवैरेण वज्रप्रहारचिह्नधारिणाञ्जलियुक्तेन अनुद्धतेन तार्क्ष्येण उपासितम्। योगनिद्रावसाने प्रसनैः पावनैः अवलोकनैः सुखशयनपृच्छकान्भ-ग्वादीनृपीननुकम्पयन्तम्। अथ दर्शनावसाने देवाः दैत्यानां नाशकाय तस्मै परमेश्वराय प्रणिपत्य स्तुतियोग्यं वाङ्गमनसपरमेनं परमेश्वरम् अस्तुवन्।
आदौ वइश्वस्रष्टे तदनु जगत्पालकाय तदनन्तरं संसारस्य विनाशकाय एव त्रेधा स-ष्टिपालनविनाशकर्तृत्वेन स्थितात्मने परमेश्वराय तुभ्यं नमः। यथा मधुरैकरसं दिव्यं वर्षाजलं देशे देशेलवणादीनि रसान्तराणि प्राप्नोति, तथा विकाररहितोऽपि त्वं सत्त्वादिषु गुणेषु स्रष्टुत्वादिरूपा अश्नुषे। हे परमेश्वर! त्वं जनैः इयत्तया न परिच्छेद्यः परिच्छिन्नलोकः स्पृहाशून्यः कामदाता अजेयः जयशीलोत्यन्तसूक्ष्मरूपः स्थूलरूपस्य कारणम् असि। हे भगवन्! त्वामन्तर्यामितया हृदयस्थं तथापि दर्गमरूपत्वादि्वप्रकृष्टं च विदुः तथा कामरहितं प्रशस्ततपोयुक्तं विदुः। परदुःखनाशकरं तथापि परमानन्दरूपत्वात् अदुःखिं विदुः। अनादिमजरं विदुः। त्वं सर्वज्ञातः त्वां कोऽपि न जानाति, त्वं सर्वस्योत्पत्तिकारणं त्वं स्वयंभूः त्वं सर्वस्य प्रभुः त्वमनशः त्वमेक एव सर्वात्मना वर्तसे। हे भगवन्! त्वां रथन्तरादिसप्तसामभिः उपगीयमानं सप्तसागरसलिलेशयमग्निमुखं भूर्भुवःस्वरादीनां सप्तलोकानाम् एकमाश्रम् आचख्युः। धर्मार्थकाममोक्षाणां फलानां ज्ञानं कृतत्रेताद्वापरकलियुगादीनां कालपरमाणं ब्राह्मणक्षत्रियवैश्यशूद्रमयो लोकः इत्येवरूपं स्रवं चतुर्मुखरूपिणस्त्वत्तः प्रादुर्भूतम्। अभ्यासेन विपयान्तरेभ्यो निगृहीतेन चेतसा हृत्कमलस्थं ज्योतिःस्वरूपं त्वां मोक्षायान्विष्यन्ति। जन्मशून्यस्य अपि मत्स्यादिरूपेण जायमानस्य निश्चेष्टस्य अपि अरिघातिनः सर्वसाक्षितया नित्यप्रबुद्धस्य तव याथार्थ्यं को वेत्ति? किं च अनादिसिद्धकृष्णादिरूपेण विषयान्भोक्तुं नरनारायणादिरूपेण दुस्सहं तपश्चरितुं तथाऽसुरमर्दनेन प्रजा रक्षितुं ताटस्थ्येन वर्तितुं च समर्थोऽसि। त्रयीसाङ्ख्यादिभिः शास्त्रैः बहुधा भिन्ना अपि पुरुषार्थसाधकाः उपायाः गङ्गाप्रवाहाः सागर इव त्वय्येव प्रविशन्ति, येन केनापि रूपेण त्वामेवोपयान्ति। त्वयि निवेशितमनसां तुभ्यं समर्पितकर्मणां विरक्तानां मोक्षाय त्वमेव साधनमसि। प्रत्यक्षप्रमाणगम्यमपि तव पृथिव्याद्यैश्वर्यमियत्तया नावधार्यं वेदवागनुमानाभ्यां गम्यं त्वां प्रति का कथा? स्मरणेन केवलं स्मर्तारं पुरुषं पुनासि यदनेन स्मृतिकार्येणैव त्वद्विषये अवशिष्टा दर्शनस्पर्शनादयो व्यापाराः विज्ञापितकार्याः। जलनिधे रत्नानि इव रवेः तेजांसीव अवाङ्गमनसगोचराणि ते चरितानि निश्शेषं स्तोतुं न शक्यन्ते। अप्राप्तम् अप्राप्तव्यं ते किञ्चिदपि न विद्यते किन्तु लोकानुग्रह एव ते जन्मकर्मणोः कारणम् अस्ति। तव कीर्तिम् उत्कीर्त्य वचः संह्रियते इति यत् तद्वचः वाग्व्यापारश्रान्त्या कार्त्स्येन वक्तुम् अशक्यतया गुणानाम् इयत्तया न। [१]
दशावताराःसंपादित करें
स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच
- परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
- धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
तेन दश अवताराः गृहीताः । ते
- मत्स्यः - प्रलयसमये नारायणः सोमकनामकं राक्षसं हत्वा जीविनः अपालयत्।
- कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
- वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
- नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत्।
- वामनः - दानशूरस्य बले: गर्वहरणं कृत्वा तम् पातालं प्रति प्रेषितवान्।
- परशुरामः - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
- रामः - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
- कृष्णः - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
- बौद्धः - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
- कल्किः - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।
नामसंपादित करें
निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।
लक्षणानिसंपादित करें
विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।
सहस्रनामानिसंपादित करें
भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।
श्रीहरेः सर्वैः वर्णैः आरभ्यमाणानि नामानिसंपादित करें
<poem> अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्भरः ॠघलृशौल्लृजीरेकात्मैर ओजोभृदौरसः । अन्तोऽर्धगर्भः कपिलः खपतिर्गरुडासनः घर्मो ङ्सारश्छार्वङ्गश्छन्दोगम्यो जनार्दनः । झाटतारिर्ञमष्टङ्की ठलको डरको ढरी णात्मा तारस्तभो दण्डी धन्वी नम्यः परः फली । बली भगो मनुर्यज्ञो रामो लक्ष्मीपरिर्वरः शान्तसंवित्षड्गुणश्च सारात्मा हंसळाळुकौ । पञ्चाशन्मूर्तयस्त्वेताः ममाकारादिलक्षकाः ।
- अजः, आनन्दः, इन्द्रः, ईशानः, उग्रः, ऊर्जः, ऋतम्बरः, ॠघः, लृशः, लॄजिः, एकात्मा, ऐरः, ओजोभृत्, औरसः, अन्तः, अर्धगर्भः - एतानि ओङ्कारस्य अकारात् प्रकटिताः भगवद्रूपाः ।
- कपिलः, खपतिः, गरुडासनः, घर्मः, ङसारः - एतानि पञ्च ओङ्कारस्य उकारतः प्रकटिताः भगवद्रूपाः ।
- चार्वाङ्गः, छन्दोगम्यः, जनार्दनः, झटतारिः, ञमः - एतानि पञ्च मकारतः प्रकटिताः भगवद्रूपाः ।
- टङ्की, ठलकः, डरकः, ढरी, णात्मा - एतानि पञ्च नादतः
- तारः, थभः, दण्डी, धन्वी, नम्यः - एतानि पञ्च बिन्दुतः
- परः, फली, बली, भगः, मनुः - एतानि पञ्च घोषतः
- यज्ञः, रामः, लक्ष्मीपतिः, वरः - एतानि चत्वारि शान्ततः
- शान्तसंवित्, षड्गुणः, सारात्मा, हंसः, ळाळुकः - एतानि पञ्च अतिशान्ततः
- क्षकारतः नृसिंहरूपः ।
आङ्कोरवतमन्दिरम्संपादित करें
आङ्कोरवतमन्दिरं सूर्यवर्मन: नाम्ना कम्बोजस्य राज्ञा कृतम्। एतन्मन्दिरं विष्णो: एव।
- ↑ रघुवंशमाहकाव्यम्, सर्गः १०, श्लो. ५-३३