अलङ्कारशास्त्रस्य सम्प्रदायाः
अलङ्कारशास्त्रस्य सम्प्रदायाः विभिन्नानाम् आचार्याणां मतेषु आधारिताः सन्ति। अलङ्कारशास्त्रग्रन्थानाम् अनुशीलनेन अयम् अवगतो भवति यत्, यत्र अनेके सम्प्रदायाः आसन् । काव्यस्यात्मा कः ? इत्यस्मिन् विषये एवालङ्कारिकाणां समक्षे प्रधानतया विवेचनीयं कर्त्तव्यमासीत् । किमिदं तादृशं वस्तु विद्यते यद्विद्यमाने काव्ये काव्यत्वं तिष्ठति तद्रहिते च तदपसरतीति जिज्ञासाम् अवलम्ब्य स्वस्वबुद्ध्यनुसारेणोत्तरदानम् एव नानाविधसम्प्रदायानाम् उत्पत्तिरभूदिति पर्यालोचयन्त्येतिहासिककुशलाः।
उक्तजिज्ञासानिवृत्तये एव केचिद् अलङ्कारं केचिद्रीतिं केचिच्च ध्वनिं काव्यत्वेन प्रमाणयन्ति । भरतमुनितः आरभ्य कालक्रमेण समीक्षाभेदे विभिन्नशताब्दीषु नवीननवीनतरसम्प्रदायानाम् उत्पत्तिर्जाता। अलङ्कारसर्वस्वटीकाकर्त्रा समुद्रबन्धनेन अप्युक्तरूपेणैव सम्प्रदायोदयः प्रदर्शितः । तथा चोक तेन -
‘इह विशिष्टौ शब्दार्थौ काव्यम् । तयोश्च वैशिष्ट्यं धर्ममुखेन व्यापारमुखेन व्यङ्ग्यमुखेन वेति त्रयः पक्षाः । आद्येऽप्यलङ्कारतो गुणतो वेति द्वैविध्यम् । द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैविध्यम् । इति पञ्चसुपक्षेष्वाद्य उद्भटादिभिरङ्गीकृतः, द्वितीयो वामनेन, तृतीयो वक्रोक्तिजीवितकारेण, चतुर्थो भट्टनायकेन, पञ्चम आनन्दवर्धनेन ।'
अत्रेदं विचार्यते -
रमणीयौ शब्दार्थौ काव्यनाम्ना व्यपदिश्यते, शब्दार्थयोः रमणीयता च धर्ममुखेन यद्युच्यते, तदा गुणा अलङ्कारश्चेति द्वौ तादृशौ धर्मौ सम्भवतः, तत्र गुणकृतवैशिष्ट्यवादिनौ दण्डिवामनौ काव्यस्य जीवनाधायकं गुणमाहतुः अलङ्कृतं वैशिष्ट्यमाद्रियमाणा उद्भटादयश्चालङ्कारान् काव्यजीवनाधायकान् स्वीकुर्वन्ति । यदि च शब्दार्थयोः रमणीयता तद्व्यापारद्वारा मन्यते, तर्हि अपि व्यापारो द्विविधः सम्भवति - भणितिवैचित्र्यमूलो भोगकृत्वमूलश्च। तत्र भणितिवैचित्र्यकृतं वैशिष्ट्यम् अभ्युपगच्छन्तः कुन्तकादयो ‘वक्रोक्तिः काव्यजीवितमिति मन्यन्ते; भोगकृत्वमूलकं वैशिष्ट्यं मन्यमानश्च भट्टनायकादयो भोजकत्वरूपं व्यापारान्तरं मन्यन्ते, तदेव तत्र वैशिष्टयमभ्युपगच्छन्ति । भट्टनायको रससम्प्रदायान्तर्गत एव । केवलं भोजकत्वव्यापारमात्रमस्य नूतनम् ये पुनर्व्यङ्गयमुखेन शब्दार्थयोर्वैशिष्टयमाहुस्ते ध्वनिप्रस्थानं स्वीकुर्वन्ति; यथाऽनन्दवर्धनादयः।
षष्ठसम्प्रदायाविष्कर्ता क्षेमेन्द्रः खल्वेतत्परवर्त्यतस्तन्मतमेतेन न प्रदर्शितम् । वस्तुतस्तु ध्वनिमतं रसस्यैव विकसितं स्वरूपमस्ति इति मन्यते। आचार्यभरतः प्राधान्येन रूपकमेव दृष्ट्यां निधाय तदीयां मीमांसाञ्चक्रे । आचार्यानन्दवर्धनादियः ध्वनिसम्प्रदायस्य आचार्याः किञ्च ध्वनिपरिपोषकाः पण्डितपूज्यास्तद्-विचारं हि व्यापक-दृष्ट्या कृतवन्तः । रसो न वाच्यो भवितुमर्हति, स व्यङ्ग्य एव भूत्वा स्थातुं शक्यः । इमां विचारधारामुपसारयितुम् आनन्दवर्धनो ध्वन्यालोकमवतारयामास । काव्ये व्यङ्गयमेव प्रधानं तत्त्वमित्येतत् तदीयं मतमाचार्यमम्मटोऽभिनवगुप्तश्चान्वमन्येताम् । मम्मटस्तु व्यङ्गयस्य विशिष्टतां साधयितुं यं प्रयत्नञ्चकार स तु न केवलं ध्वनिमतं सुदृढतया प्रतिस्थापयामास अपि तु अलङ्कारशास्त्रमपि शास्त्राणां श्रेण्याम् आसयामास । तत्रासीनञ्चालङ्कारशास्त्रं पण्डितराज जगन्नाथस्ततोऽभिषिषेच । एवमस्मिन् शास्त्रे बहवः सम्प्रदायाः प्रचलिताः ।
रससम्प्रदायः
सम्पादयतुवैदिकसाहित्ये रसशब्दस्योल्लेखः कृतो वर्तते सोमरसस्यार्थे – 'दधानः कलशे रसम्'[१] आनन्दार्थेऽपि - ‘रसो वै सः' 'रसं ह्येवायं लब्धानन्दी भवति'।[२] यद्यपि वैदिकसाहित्ये रसादिशब्दानामुल्लेखोऽवश्यं वर्तते, किन्तु आलङ्कारिकसम्प्रदायरूपे चैतत्स्वरूपनिश्चयकरणे सर्वप्रथमं श्रेयोभागिनं नाट्यशास्त्रकर्तारं भरतमुनिमेव वक्तुं शक्यतेऽस्माभिः। राजशेखरेण तु सर्वप्रथमं रसस्योपदेशो ब्रह्मणा नन्दिकेश्वराय प्रदत्तः इति प्रतिपादितः, परन्तु तत्प्रतिपादितः रससिद्धान्तः इदानीं पर्यन्तमभ्युपलब्धो न वर्तते।
अलङ्कारसम्प्रदायः
सम्पादयतुअलङ्कारसम्प्रदायो भामहेन प्रवर्त्तितोऽपि तद्ग्रन्थव्याख्यातृभिः रूद्रटोद्भटादिभिरेव स्थिरता प्रापितः । काव्येऽलङ्कारस्य प्राधान्यमपि येन केनापि रूपेण दण्डिनोऽपि स्वीकृतमासीदेव । एतत्सम्प्रदायानुसारिणां मते अलङ्कारा एव काव्यजीवातवः । अलङ्कारहीनं काव्यस्वीकरणं तथैवोपहास्पदं यथोष्णतारहितमग्निस्वीकरणम् । एतदेवोक्तं पीयूषवर्षिजयदेवेन -
अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती।
असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥[३]
रीतिसम्प्रदायः
सम्पादयतुरीतिमतस्य प्रतिपादकः प्रधानाचार्यो वामनः अस्ति । अस्य काव्यालङ्कारसूत्रनाम्ना ग्रन्थः स्वोपज्ञवृत्तिसहितः प्रसिद्धः । अस्मिन् ग्रन्थे काव्यात्मरूपेण रीतिरेवायं स्वीकृतः । एतन्मते - ‘रीतिरात्मा काव्यस्य'[४] इति लक्षणं प्रतिपादितम् । इयमेव रीतिः शैलीत्युच्यते । रचनायां चेयं विशिष्टता, गुणानामवस्थित्या उत्पन्ना भवति । अत एव गुणोपरि रीतिरवलम्बिता तिष्ठति । इदं च रीतिमतं गुणसम्प्रदायनाम्ना व्यवहृतं भवति । "ओजः कान्तिमतीगौडीयाः”[५] “समग्रगुणाः वैदर्भी''[६] “माधुर्यसौकुमार्योपपन्ना पाञ्चाली"[७] वैदर्भीगौडीरीत्योः स्वरूपेण, विभेदप्रतिपादनस्य श्रेयः आचार्यदण्डिन एवोपरि वर्त्तते । आरम्भकाले रीतीनां सम्बन्धो देशविशेषेणैवासीत् । यत्प्रान्तिनो यादृश्यां शैल्यां विशिष्टतां प्राप्तवन्तस्तत्प्रान्तनाम्ना तादृशशैल्याः प्रसिद्धिरभूत् । तत्र वैदभ्यॊ वैदर्भदेशेन वराराभिधेन गौड्या वङ्गप्रदेशेन, पाञ्चाल्योः पाञ्चाल(पञ्जाब)प्रदेशेन, लाट्या लाट(गुजरात)प्रदेशेनाभिधेयेन सम्बन्धः आसीत् । गुणालङ्कारयोः परस्परं स्फुटं भेद इत्यस्य सर्वप्राथम्येन प्रतिपादनं वामनेनैव कृतम् ।
वक्रोक्तिसम्प्रदायः
सम्पादयतुवक्रोक्तेर्महनीयभावुनाया बीजरूपेण सूचनकरणस्य श्रेयोभागी आचार्यभामहः अस्ति । तमेव बीजमादाय पूर्णरूपेणाङ्कुरित-पल्लवितकरणस्य सम्मानमाचार्यकुन्तकस्यैव वर्तते । यद्यपि भामहग्रन्थपर्यालोचनयाऽलङ्काराणामेव भामहेन प्राधान्यं दत्तम् तथापि रसवक्रोक्तिरीतिसम्प्रदायानां बीजमपि प्रदर्शितं मिलति । अनेन महात्मना हि वक्रोक्तेर्व्यापकत्वं प्रदर्श्य काव्यार्थमावश्यकत्वमेतस्याः इति प्रदर्शितम् । तथाहि - “युक्तं स्वभावोक्त्या सर्वमेतदिष्यते।"[८] एनामेवाधारशिलामादाय कुन्तकेन ‘वक्रोक्तिजीवित-नामको ग्रन्थो विनिर्मितः । अयमेवातिशयोक्तिं च वक्रोक्तिनाम्ना व्यवहरति, ताञ्च सर्वालङ्काराणां जीवनाधायकत्वं व्यवस्थापितवान् ।
ध्वनिसम्प्रदायः
सम्पादयतु‘रसो न वाच्यः' इति साधयितुं प्रवर्त्तमान आचार्य आनन्दवर्धनो ध्वनेरावश्यकतामनुभूय ध्वनिसम्प्रदायं. प्रवत्ततवान् । आनन्दवर्धनात्पूर्वं वनेरभाववादः, लेक्षणाः-स्वरूपतावादः, अनिर्वाच्यतावादश्च प्रथते स्म । ध्वनिवादः सर्वांधिकव्यवस्थितरूपेण प्रचरितः । अस्य सम्प्रदायस्य सुविस्तृतचर्चा अव्यवहितोंत्तरकाले एव भविष्यति ।
औचित्यसम्प्रदायः
सम्पादयतुऔचित्यस्य भावना ध्वन्यादिसमस्तकाव्यतत्त्वानां मूलभावना। अयं सर्वसम्प्रदायादृतः कस्यापि मतस्याविरोधी च सम्प्रदायः क्षेमेन्द्रेण प्रवत्ततः । काव्यस्य सर्वेष्वप्यङ्गेषु औचित्यं नितान्तमपेक्षितम् । समस्तप्राचीनालङ्कारिका हि स्वस्वग्रन्थै औचित्यरक्षायै सङ्केतं निदिष्टवन्तः । तानेव पूर्वग्रन्थानाल काव्यतत्त्वस्य व्यापकरूपमादातुं क्षेमेन्द्रेण 'औचित्यविचारचर्चा' नामको ग्रन्थों ग्रथितः । रसस्य जीवनभूतः प्राणः ‘औचित्यमेव' इति स्पष्टमुद्घोषितं तेन । तथाहिं।
औचित्यस्य चमत्कारकारिणश्चारुचर्वणे । ___ रसजीवितृभूतस्य . विचारं कुरुतेऽधुना ।। ( का० ३ )
किमिदमौचित्यमिति जिज्ञासायां ‘यों यत्सदृशः, येन परस्परं सम्मिलने भवेत् तदेयोचितम् । अथ चोधितस्य अब औचित्यम् । तथा घोक्तमनेनैव -
उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । ।
उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥[९]
अस्यौचित्यस्य पद-वाक्यार्थ-रस-कारक-लिङ्गवचनाद्यनेकस्थलेषुदाहरणानि प्रदर्य साहित्यरसिकानां महानुपकारः कृतः क्षेमेन्द्रेण । औचित्यस्य मूलतत्त्वमानन्दवर्धनेनैवोद्घाटितम् ध्वन्यालोके -
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ।।
काव्यस्येदं मूलतत्त्वमिति ध्वन्यालोककारात् पूर्वमेव सिद्धान्तरूपेणाड़ीकृतमासीत् भरतेन नाटये पात्रेभ्यः देशस्यावस्थायाश्चानुरूपेण वेशविन्यासस्मो 'पदेशं दत्त्वैतत्तत्त्वोपर्येव विशेषाग्रहः प्रदशितः । तथाहि -
आदेशजो हि वेशस्तु न शोभा जनयिष्यति ।
मेखलोरसिबन्धे च हास्यायैवोपजायते ॥[१०]
एतत्कारिकाया भाष्यरूपमेव क्षेमेन्द्रस्याधोलिखितपद्यं दृश्यते -
कण्ठे मेखलया नितम्बफलके तारेण हारेण वा,
पाणौ नूपुरबन्धनेन चरणयोः केयूरपाशेन वा ।
शौर्येण प्रणते रिपौ करुणया नायान्तिके हास्यता
मौचित्येन विना रुचि प्रतनुते नालङ्कृतिर्नो गुणः ॥
इतः पूर्ववत्तभिरालङ्कारिकैः तत्त्वमेनमादायैव स्वस्वग्रन्थप्रणयनं कृतम् । अतः क्षेमेन्द्रस्यैव नैवेयमुद्भावना किन्तु पूर्वपूर्वाचार्यैः सूचिता या भावना तामेव स्वग्रन्थे स्पष्टरूपेण प्रदर्शयामास तत्रभवानाचार्यः क्षेमेन्द्रः । अयं च महानुभावः कश्मीरस्थो धनाढयब्राह्मणकुले समुत्पन्न आसीत् ।