अल्मोडामण्डलम्

(अल्मोरामण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

अल्मोडामण्डलम् ( /ˈəlmdɑːməndələm/) (हिन्दी: अल्मोडा जिला, आङ्ग्ल: Almora District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अल्मोडा इति नगरम् । अल्मोडामण्डलं हस्तकला-भोजन-वन्यजीवनादिभ्यः प्रख्यातमस्ति ।

अल्मोडामण्डलम्

Almora District
अल्मोडा जिला
अल्मोडामण्डलम्
अल्मोडामण्डलस्य धारानौलास्थलस्य दृश्यम्
देशः  भारतम्
राज्यम् उत्तराखण्डः
उपमण्डलानि अल्मोडा, भिंक्यासैण, चौखुटिया, द्वाराहाट, जैन्ति, रानीखेत, सोमेश्वर, सल्ट, भनौलि
विस्तारः ३,६८७ च. कि.मी.
जनसङ्ख्या(२०११) १७,४४,०००
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८०.४७%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website almora.nic.in

भौगोलिकम् सम्पादयतु

अल्मोडामण्डलस्य विस्तारः ३,६८७ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तराखण्डराज्यस्य द्वे मण्डले स्तः । ते क्रमेण बागेश्वर-चमोलीमण्डले । अस्य दक्षिणदिशि नैनितालमण्डलं, पूर्वदिशि चम्पावतमण्डलं, पश्चिमदिशि पौरीगढवालमण्डलम् अस्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा - कोची, सुयाल, रामगङ्गा, चौखुतिया

जनसङ्ख्या सम्पादयतु

 

अल्मोडामण्डलस्य जनसङ्ख्या(२०११) १७,४४,००० अस्ति । अत्र २,९१,०८१ पुरुषाः, ३,३१,४२५ स्त्रियः, ८०,०८२ बालकाः (४१,६७२ बालकाः, ३८,४१० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.१७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ८०.४७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- १ अल्मोडा २ भिकियासैण ३ चौखुटिया ४ द्वाराहाट ५ जैन्ती ६ रानीखेत ७ सोमेश्वर ८ सल्ट ९ भनोली ।

वीक्षणीयस्थलानि सम्पादयतु

कैञ्ची-गरमपानी-मानिलादेवीमन्दिर-कसारदेवीमन्दिर-कालीमठ-'अल्मोडा के किले'-सिमतोला-मोहनजाशीपार्क-कोसिमन्दिर-जूलादेवीमन्दिर-तरिखेत-चिलैनौला-चौखुटिया-बिसारमहादेवमनदिरेत्यादीनि स्थानानि वीक्षणीयानि सन्ति ।

कैञ्ची सम्पादयतु

अत्र हनुमतः भव्यमन्दिरमस्ति । ‘जून’-मासस्य पञ्चदशे दिनाङ्केऽत्र उत्सवः भवति । नवरात्रदिनेष्वत्र विशेषपूजा भवति । एतत् ऐतिहासिकं स्थलमपि अस्ति ।

मानिलादेवीमन्दिरम् सम्पादयतु

१४८८ तमे वर्षे कत्यूरीवंशीयस्य सारङ्गनामकराज्ञः लखनपुरे शासनमासीत् । सः दुर्गे स्वकुलदेव्याः मन्दिरं निर्मापितवान् । तत् मानिलादेवीमन्दिरम् इति नाम्ना प्रसिद्धमस्ति ।

अल्मोडा के किले सम्पादयतु

अल्मोडा-नगरस्य पूर्वदिशि खगमरा-नामकः दुर्गः अस्ति । कत्यूरीवंशीयराज्ञः शासनकाले निर्मित एषः दुर्गः वीक्षणीयः अस्ति ।

नन्दादेवीमन्दिरम् सम्पादयतु

नन्दादेवी पार्वत्याः स्वरूपमस्ति । गढवालवंशस्य कुलदेवी एषा । भाद्रपदमासेऽत्र उत्सवः भवति । मन्दिरस्य शान्तवातावरणं मुख्याकर्षणमस्ति ।

बाह्यानुबन्धः सम्पादयतु

http://almora.nic.in/

http://www.euttaranchal.com/uttaranchal/almora.php

http://dcalm.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://villagemap.in/uttarakhand/almora.html

"https://sa.wikipedia.org/w/index.php?title=अल्मोडामण्डलम्&oldid=481423" इत्यस्माद् प्रतिप्राप्तम्