पौडीगढवालमण्डलम्

(पौरीगढवालमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

पौडीगढवालमण्डलम् ( /ˈpɔːdɪɡədhəvɑːləməndələm/) (हिन्दी: पौडीगढवाल जिला, आङ्ग्ल: Pauri Gadwal District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पौरी इति नगरम् । पौडीगढवालमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।

पौडीगढवालमण्डलम्

Paurigadwal District
पौडीगढवाल जिला
पौडीगढवालमण्डलम्
पौडीगढवालमण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि पौडी, श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार
विस्तारः ५,३९९ च.कि.मी.
जनसङ्ख्या(२०११) ६,८७,२७१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८२.०२%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://pauri.nic.in/

भौगोलिकम् सम्पादयतु

पौडीगढवालमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि टिहरीगढवालमण्डलं, रुद्रप्रयागमण्डलं च, दक्षिणदिशि नैनितालमण्डलम्, उत्तरप्रदेशराज्यं च, पूर्वदिशि चमोलीमण्डलम्, अल्मोडामण्डलं च, पश्चिमदिशि हरिद्वारमण्डलं, देहरादूनमण्डलं च अस्ति ।

जनसङ्ख्या सम्पादयतु

 

पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६८६ ५२७[१] अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति [उद्धरणं वाञ्छितम्]। अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- पौरी, श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार

वीक्षणीयस्थलानि सम्पादयतु

खिर्सु सम्पादयतु

खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । हिमालयस्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । पौरी-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति ।

दूधतोरी सम्पादयतु

चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमीयन्ते । परन्तु तदनुमानं दूधतोरी इतीदमं स्थलं सम्प्राप्य पूर्णं भवति । ३१,००० पादं यावति शिखरे स्थितः अस्ति दूधतोरी । पौरी-नगरात् शतम् (१००) कि.मी. दूरे स्थितं थालीसैन् इतीदं स्थलं बस-यानेन गत्वा ततः चतुर्विंशतिः (२४) कि.मी. चलित्वा गन्तव्यं भवति ।

कण्वाश्रमः सम्पादयतु

मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं विश्वामित्रर्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः इन्द्रः विश्वामित्रस्य घोरतपसा भितो जातः । विश्वामित्रर्षेः तपः भग्नाय इन्द्रः मेनकानामिकां अप्सरसं प्रैषयत् । विश्वामित्रर्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति इन्द्रः शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या शकुन्‍तला नाम्ना विख्यातास्ति । सा शकुन्‍तला हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः भरतः जातः । तस्य भरतस्य नाम्नैवास्माकं देशस्य नाम भारतवर्षमिति

टिप्पणी सम्पादयतु

  1. "District Census 2011". Census2011.co.in. 2011. आह्रियत 2011-09-30. 

बाह्यानुबन्धः सम्पादयतु

http://dcteh.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://tehri.nic.in/

http://www.euttaranchal.com/uttaranchal/pauri.php

http://villagemap.in/uttarakhand/tehri-garhwal.html

http://www.census2011.co.in/census/district/579-pauri-garhwal.html

"https://sa.wikipedia.org/w/index.php?title=पौडीगढवालमण्डलम्&oldid=481661" इत्यस्माद् प्रतिप्राप्तम्