अव्यक्ताद्व्यक्तयः सर्वाः...


श्लोकः सम्पादयतु

 
गीतोपदेशः
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अष्टादशः (१८) श्लोकः ।

पदच्छेदः सम्पादयतु

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्ति अहरागमे रात्र्यागमे प्रलीयन्ते तत्र एव अव्यक्तसंज्ञके ॥ १८ ॥

अन्वयः सम्पादयतु

अहरागमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति । रात्र्यागमे अव्यक्तसंज्ञके तत्र एव प्रलीयन्ते ।

शब्दार्थः सम्पादयतु

अहरागमे = दिनारम्भे
अव्यक्तात् = कारणीभूतात्
प्रजापतेः सर्वाः = सकलाः
व्यक्तयः = स्थावरजमाः भावाः
प्रभवन्ति = उत्पद्यन्ते
रात्र्यागमे = निशारम्भे
अव्यक्तसञ्ज्ञके = अव्यक्तनामके
तत्र एव = तस्मिन् एव प्रजापतौ
प्रलीयन्ते = विलीनाः भवन्ति ।

अर्थः सम्पादयतु

यदा दिनस्य आरम्भः भवति तदा कारणीभूतात् प्रजापतेः सर्वे स्थावरजमात्मकाः प्राणिनः सम्भवन्ति । यदा पुनः रात्रेः आरम्भः तदा कारणीभूते अव्यक्ते तस्मिन् एव प्रजापतौ सर्वेऽपि एते प्रलीनाः भवन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु