अव्ययीभावसमासः
अव्ययीभावसमासः
सम्पादयतुप्रायेण पूर्वपदार्थप्रधानः अव्ययीभावसमासः ।
कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति। यथा उन्मत्तगङ्गम्, लोहितगङ्गम् इति। अत्र उभयत्रपि “उन्मत्ता गङ्गा यस्मिन् देशे उन्मत्तगङ्गम्” तथैव “लोहिता गङ्गा यस्मिन् देशे लोहितगङ्गम्” इति अन्यपदार्थस्य प्राधान्यं वर्तते। तथैव शाकप्रति इत्यादिषु उत्तरपदस्य प्राधान्यं वर्तते। परं समासस्तु अव्ययीभावः एव। अतः लक्षणे प्रायेण इति उक्तम्। एवमेव अन्येशु त्रिषु लक्षणेषु अपि अवधेयम्।
अव्ययीभावसमासः प्रायः त्रयस्त्रिंशद्धा (३३) । तेषु प्रसिद्धाः द्वादशधा (१२) । ते च सर्वे अव्ययपूर्वपदरूपेण, अव्ययोत्तरपदरूपेण, अव्ययपदरहितरूपेण च त्रिधा विभज्यन्ते। तेषां क्रमेण उदाहरणानि यथा -
- १) उपकृष्णम् - कृष्णस्य समीपम् इति उपकृष्णम्।
- २) शाकप्रति - शाकस्य लेशः इति शाकप्रति।
- ३) पारेगङ्गम् - गङ्गायाः पारे इति पारेगङ्गम्।