प्रमुखा विकल्पसूचिः उद्घाट्यताम्

व्याकरणं नाम वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सर-पदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः


शब्दार्थःसम्पाद्यताम्

व्याकरणस्य व्युत्पत्तिलभ्योऽर्थोऽस्ति पदमीमांसाकरं शास्त्रम्।

व्याकरण > वि + आङ् + कृ + ल्युट्

> व्याक्रियन्ते व्युत्पाद्यन्ते विशोध्यन्ते शब्दाः अनेनेति व्याकरणम्।

> वि + आङ् + कृ + ल्युट्


महत्त्वम्सम्पाद्यताम्

एतद्वेदस्य मुखत्वेन स्मृतम् - 'मुखं व्याकरणं स्मृतम्।' भाषा लोकव्यवहारं प्रवर्तयति। यदि भाषा न स्यात्, तर्हि जगदिदमन्धेतमसि मज्जेत्। यथोक्तं दण्डिना -

'इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम्।

यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते॥' [१]

भाषायाः शुद्धये व्याकरणस्य अपेक्षा भवत्येव। न हि व्याकरणज्ञानशून्यो जनः साधून् शब्दान् प्रयोक्तुं शक्नोति। स्वयम् ऋक्संहितायाम् अस्य व्याकरणशास्त्रस्य प्रशंसायाम् अनेके मन्त्राः भिन्न-भिन्नस्थानेषूपलब्धा भवन्ति। ऋग्वेदस्यैकस्मिन् सुप्रसिद्धमन्त्रे व्याकरणं वृषभस्य रूपकत्वेन प्रतिपादितमस्ति -

'चत्वारि शृङ्गाः त्रयोऽस्य पादा द्वे शीर्षे सप्तहस्ता सोऽस्य।

त्रिधाबद्धो वृषभो रोरवीति महोदेवो मर्त्याम् आविवेश।।'[२]

अस्य वृषभरूपी व्याकरणस्य चत्वारि शृंङ्गाणि सन्ति - नाम-आख्यात-उपसर्ग-निपात-रूपाणि। त्रिपादोऽस्य भूत-भविष्य-वर्तमानाः। सुप्तिङन्तश्च द्वे शीर्षे स्तः, सप्तविभक्तयश्च सप्तहस्ताः सन्ति। उरसि शिरसि च कण्ठे त्रिधाबद्धो वृषभोऽयमस्ति। एवंविधव्याकरणज्ञानाद् योऽनभिज्ञोऽस्ति, सः जानन्नपि न जानाति, पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोति। किञ्च यो हि जनो व्याकरणशास्त्रज्ञोऽस्ति, तत्सन्निधौ वाणी सुसज्जिता कामिनी इव समागत्य सर्वतोभावेन समर्पिता भवति —

'उतत्वः पश्यन् न ददर्श वाचम् उतत्वः शृण्वन् न शृणोत्येनाम्।

उतोत्वस्मै तन्वं विसले जायेव पत्ये उशती सुवासाः।।' [३]

अाचार्यवररुचिः व्याकरणशास्त्रस्य महनीयतां गायन् यदा तदध्ययनप्रयोजनानि पञ्च प्रतिपादयति, तदा महर्षिः पतञ्जलिः तदध्ययनप्रयोजनानि त्रयोदश ब्रूते। तेन हि व्याकरणशास्त्रं नितरां प्राचीनं शास्त्रमस्ति। न हि व्याकरणज्ञानशून्यः साधून् शब्दान् प्रयोक्तुमीशः। वेदस्य रक्षार्थं व्याकरणाध्ययनमत्यावश्यकम्।

'रक्षार्थवेदाध्ययनमध्येयं व्याकरणं, लोपागमवर्णविकारज्ञो हि पुरुषः सम्यग् वेदान् परिपालयिष्यति' इति पतञ्जलिः। वेदरक्षाक्षमतयैव व्याकरणस्य वेदाङ्गत्वमपि समर्थ्यते।

व्याकरणाध्यनस्य आवश्यकतासम्पाद्यताम्

ऋषिर्ब्रूते यद्वेदानां रक्षायै व्याकरणस्याध्ययनमपेक्ष्यते। यो जनो लोपागमवर्णविकारज्ञो भवति, स एव वेदान् साधु रक्षितुमर्हति। तथा हि - वेदे 'जहार' इत्येतस्य क्रियापदस्य स्थाने 'जभार' इत्येतत् क्रियापदं प्रयुज्यते। व्याकरणानभिज्ञस्य दृष्ट्या 'जभार' इत्येतत्क्रियापदं न शुद्धम्, स 'जहार' इत्येतदेव शुद्धं मत्वा 'जभार' इत्येतत्पदम् अनुच्चार्य 'जहार' इति प्रयोक्तुमुपक्रान्तो भविष्यति। कुफलञ्चैतदीयमिदं स्याद् वेदोऽनेकपरिवर्तितपदवान्। अयं हि महान्नर्थो व्याकरणज्ञानशून्यतया निपातितो भवेत्। तस्माद् व्याकरणस्य अध्ययनमतितरामपेक्ष्यते।

व्याकरणाध्ययनेन विभक्तिविपरिणामस्य च बोधो जायते तस्माद व्याकरणम् अवश्यम् अध्ययनीयमस्ति। न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः सन्ति। ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्या भवति। न अवैयाकरणस्तान् यथायर्थं विपरिणमयितुं शक्नोति। तथाहि 'अग्नये त्वा जुष्टं निर्वपामि' इत्येतदस्ति वेदवाक्यम्। इदं हि वाक्यम् अग्निदेवताकं वर्त्तते। निर्वापकाले अग्निदेवताम् उद्दिश्य मन्त्रोऽयं पठितो भवति। परं यदा सूर्यदेवता लक्ष्यीकृत्य निर्वापः कृतो भवति, तदा सूर्याय त्वा जुष्टं निर्वपामि इत्येतेन विपरिणामेन पठनीयो भवति मन्त्र एषः। इमं हि विपरिणामं वैयाकरण एव सम्यग् यथायथं कर्तुं पारयति।

‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इत्येतस्मादपि हेतोः व्याकरणस्याऽध्ययनं परमापेक्षितं भवति। वेदस्य षडङ्गत्वात् षटत्स्वङ्गेषु च व्याकरणस्य प्रधानत्वात्।

सुलभतया यथार्थज्ञानं व्याकरणं विना न भवितुमर्हति अतोऽपि व्याकरणस्य पठनमपेक्ष्यते। इदं तु विदितमेव वर्त्तते यद्, जिज्ञासुनाऽवश्यमेव शब्दस्य कार्यं ज्ञानम्। शब्दस्य ज्ञानं व्याकरणं विहाय न केनाप्यन्येन सुलभेनोपायेन शक्यम्।

संशयराहित्यनिमित्तेनाऽपि व्याकरणमध्येयमस्ति। याज्ञिकाः पठन्ति 'स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेते'ति तस्यां सन्देहोऽयमस्ति - स्थूला चासौ पृषती च स्थूलपृषतीति कथनमभिप्रेतं किं वा स्थूलानि पृषन्ति यस्याः सा स्थूलपृषतीकथनमिष्टम् ? अवैयाकरणस्तां न स्वरतोऽध्यवसति। यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः। अथान्तोदातत्त्वं ततस्तत्पुरुष इति।

एतेन विवेचनेन व्याकरणस्य उपादेयत्वं तन्महत्त्वञ्च समुपस्थापयन् आचार्यपतञ्जलिः तस्य अन्यानि च कतिपयानि आवश्यकतां प्रस्तौति। स आह यद् व्याकरणं हि यो नरो न जानाति, स शुद्धमपि वक्तुं न शक्नोति। शुद्धोच्चारणलाभाय व्याकरणस्याध्ययनं कर्तव्यम्। अशुद्धोच्चारणकर्ता शिक्षितसमाजे निन्दितो भवति। तस्माद् विज्ञेन सततमुच्चारणस्य शुद्धता समुपासनीयेति।

अध्ययनं तदेव लाभप्रदं भवति यदर्थाभिधारणपूर्वकं विधीयते। अर्थावधारणायाः कृते व्याकरणस्य ज्ञानमपेक्षितं जायते। यदध्ययनं विनाऽर्थावबोधं कृतं जायते, तदध्ययनं सदैवाध्येतारं दुनोति। तदध्ययनं तु तदर्थं भाररूपमेव जायते। मया यत्किमपि पठितं तन्न जाने किं पठितमिति विचार्य सखिन्नमना जायते। अतस्तस्मात् स जुगुप्सते। कथनस्य प्रयोजनमिदमेव यद् यत् किमपि पठनीयं जनेन तद्बोधपूर्वकं पठनीयम्। बोधपूर्वकं पठनं तदैव सम्भवं भवितुं मर्हति, यदा व्याकरणस्य ज्ञानं स्यात्। इत्थं हि विद्वान् पतञ्जलिव्याकरणस्य महत्त्वं विदधानोऽग्रे पुनराह - मानवेन शब्दप्रयोगे प्रवीणेन भवितव्यम्। कः शब्दः केन प्रकारेण प्रयोक्तव्यः इत्येतद् यो जानाति, सः स्वीयेनैकेनाऽपि शब्देन नैजं प्रभावं जनताया मानसे समुपस्थापयितुं शक्नोति। जनतां स तां दिशां नेतुमर्हति यां दिशं प्रति तस्या अावर्जनं तस्येष्टं भवति।

शब्दज्ञ एव समुदाचारस्य विधिं प्रयोक्तुमर्हति। अस्य कथनस्य तात्पर्यमिदमस्ति यत्, समुदाचारे किं वा सामाजिकव्यवहारे शब्दस्य पदस्य च उच्चारणं केन विधिना कार्यमित्यपि कोऽपि शब्दज्ञ एव साधु वेत्ति यतः स एव यथाऽवसरे हस्व-दीर्घप्लुतोच्चारणस्य महत्त्वं जानाति, तेन व्याकरणाध्ययनस्य प्रयोजनं सुस्पष्टमेवेति।

वैयाकरण एव यज्ञे प्रयुक्तान् मन्त्रान् सविभक्तिकान् विधाय पठितुं समर्थो भवति, तदर्थमपि व्याकरणस्याध्ययनमपेक्षितमस्ति। यज्ञकर्मणि स एव विद्वान् अधिकारी भवितुमर्हति यः पदोच्चारणं तथा करोति यथा न किमपि पदं न कोऽपि स्वरो न च किमप्यक्षरमस्फुटं स्यात्। यज्ञाधिकारस्य लाभार्थमपि व्याकरणमध्येतव्यम्। 'शब्दो ब्रह्मः' तेन हि शब्देन सह तादात्म्ये सति शब्दस्य परब्रह्मभूतेनार्येण सहापि तादात्म्यं भवितुं शक्नोतीत्येतस्मादपि व्याकरणस्य ज्ञानमपेक्षितम्। वाक्यगतस्य अर्थज्ञानस्यापि लाभाय व्याकरणं पठनीयमस्ति। नापि श्रुतेन न चापि लिखितेन वाक्येन न तावत् किमपि कार्यं भवितुमर्हति यावद् वाक्यगतार्थस्य साधुज्ञानं न जायते। वस्तुतः तदनवगतार्थ वाक्यन्तु निरर्थकमेव तदर्थमपि व्याकरणस्य ज्ञानं काङ्क्ष्यते।

प्रयोजनम्सम्पाद्यताम्

व्याकरणस्य सर्वाणि प्रयोजनानि उक्तानि महाभाष्ये — 'रक्तोहागमलध्वसन्देहाः प्रयोजनम्॥' रक्षार्थं वेदानामध्येयं व्याकरणम्। ऊहः खल्वपि, न सर्वैलिङ्गैर्न सर्वाभिः विभक्तिभिर्वेदे मन्त्राः निगदिताः, ये चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः, तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्। तस्मादध्येयं व्याकरणम्। एवम् अन्यान्यपि अपभाषण-दुष्टशब्द-अर्थज्ञान-धर्मलाभ-नामकरणादीनि प्रयोजनानि व्याख्यातानि महाभाष्ये।

व्याकरणशास्त्रं तु नितरां प्राचीनशास्त्रमस्ति। वैदिकमन्त्रेषूपलभ्यमानास्तत्तत्पदविषयिण्यो व्युत्पत्तय अपि उपर्यभिहितमभिधानं परिपुष्णन्ति -

१. 'यज्ञेन यज्ञमजयन्त देवाः'।[४] यजयाचेत्यादिनङ्।

२. 'ये सहांसि सहसा सहन्ते'।[५] सहधातोरसुन् उणादौ।

३. 'धान्यमसि धिनुहि'।[६] धिनोतेर्धान्यम्, महाभारते।

४. 'केतपूः केतं नः पुनातु'।[७] क्विप् च।

५. 'तीर्थोस्तरन्ति'।[८] पातृतुदिव*** इति स्थक्० उ०।

व्याकरणशास्त्रस्य प्रमाणभूतः अाचार्यः पतञ्जलिव्याकरणशास्त्रस्य उपरिनिर्दिष्टानि प्रयोजनानि वर्णयन् 'चत्वारि शृङ्गाः' 'चत्वारि वाक्', 'उतत्वः', 'सक्तुमिव', 'सुदेवोऽसि' -इत्येतन्मन्त्रपञ्चकमुद्धरति स्म।

पतञ्जलेरपि प्राचीनतरो यास्कोऽपि 'चत्वारि वाक् इत्येतस्य मन्त्रस्य व्याख्यां व्याकरणशास्त्रपरकमेव कुर्वाणोऽवाप्यते। व्याकरणमित्येतत्पदं यस्माद्धातोः निष्पद्यते, तस्यापि मूलार्थो यजुषि - 'दृष्ट्वा रूपे व्याकरोत् सत्त्वाऽनृते प्रजापतिः' इत्येतस्मिन् वाक्ये प्रयुक्तः प्राप्यते।

व्याकरणशास्त्रस्य उत्पत्तिमधिकृत्य तु न निश्चप्रचतया किमपि कथनं सम्भवम्। इदं तु वक्तुं शक्यं यदुपलब्धवैदिकपदपाठेभ्यः प्राग् व्याकरणं शास्त्रं पूर्णतां गतं बभूव। प्रकृतिप्रत्ययधातूपसर्गसमासवत्पदविभागश्च कृत्स्नतया निर्धारितो जातो यदा तस्यानेहसो गतस्यानेकसहस्राब्दाः व्यतीताः। वाल्मीकिरामायणस्य रचनाकाले व्याकरणशास्त्रस्य अध्ययनमध्यापनञ्च सुव्यवस्थिततया प्रचलितमासीदित्येतद्धि —

'नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।

बहु व्याहरताऽनेन न किञ्चिदपभाषितम्।।'[९]

महाभारतयुद्धकालवर्तिनि यास्क-निरुक्ते बहूनां व्याकरणाचार्याणामुल्लेखो दृश्यते। आचार्यः शाकटायनस्तु नैजं व्याकरणं यास्कादपि प्राक् लिलेख। तैत्तिरीयसंहितायामस्य विषयस्य सर्वप्रथमस्तथा प्राचीनतमरुल्लेखो लभते।

व्याकरणस्याविर्भावःसम्पाद्यताम्

तदित्यं सकलशास्त्रशिरोभूतं वेदपुरुषस्य मुखत्वेन स्मृतं व्याकरणं कदा प्रभृति प्रवर्ततमभूदिति न शक्यते तत्वतो निरूपयितुम् । तथापि पण्डिताः । कथयन्ति : यद्वयाकरणस्य बीजवैदिकसंहितासु दृश्यते । महामुनिर्यास्को महाभाष्यकारश्च पतञ्जलिरेतादशानु मन्त्रानु स्मरति येषु व्याकरण स्वरूपं सूचितमस्ति। यथा चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यं आ विवेश। [१०]

अस्येत्थमाशयो व्याखातः। चत्वारि शृङ्गा इति नाम-आख्यात-उपसर्ग-निपाताः, त्रयः पादा इति त्रीणि वचनानि त्रयः पुरुषाश्च, द्वे शीर्षे इति सुबन्ततिङ्गन्तरूपे, सप्तसहस्तास इति सप्त विभक्तयः त्रिधा बद्ध इति कृदन्त-तद्धितान्त-समासान्तत्वेन नियमितः रोरवीति सर्वानतिशेते, महान् देवः इति दैवी वाक्, मर्त्यान् आ विवेशेति।

एवमेवोक्त यजुर्वेदेऽप्युक्तं - दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः'।[११] संहितानन्तरं ब्राह्मणसाहित्येऽपि व्याकरणास्तित्वविषये बहुत्र बहुधोक्तमस्ति । अनेनैतत्सिध्यति यत्संहिताकाले, एव व्याकरणं सुव्यवस्थितमासीत् । तथ्यमिदं पतञ्जलिः स्मरति- ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राहमणी व्याकरणं स्माधीयते इति[१२] यद्यपि पुरांकल्पस्य कियत्प्राचीनत्वमिति. नैव सुस्पष्टं तथापि न्यूनतममपि एषः संहिताकालं तु सूचयत्येव । “पुराकल्पे .. कुमारीणां मौजीबन्धनमिष्यते' ‘अनावृताः किल पुरा स्त्रिय असन् वरानने इत्यादावपि । पुराकल्पपुराशब्दौ सुपूरातीतकालावबोधकावेव । गोपथब्राह्मणे . व्याकरणस्य स्पष्टमेवं व्याख्यातं यथा -

ओङ्कारं पृच्छामः, को धातुः, कि प्रातिपदिकं, किं नामाऽऽख्यातं, किं. लिंङ्ग, किं वचनं, का विभक्तिः, कः प्रत्ययः, कः स्वरः, उपसर्गों निपातः, कि ? वै व्याकरणं, को विकारः को विकारी, कतिमात्रः, कतिवर्णः, कत्यक्षरः, केति'पदः, कः संयोगः, किं स्थाननादानुप्रदानानुकरणम् इति।[१३]

तथैव मैत्रायणसंहितायामुक्त-‘तस्मात् षड् विभक्तयः।[१४] ऐतरेयब्राह्मणेऽपि सप्तधा वै वागभवत् इति।[१५] सप्तधा इति सप्त विभक्तय इति भट्टभास्करः । स्वयमृग्वेदेऽपि यस्य ते सप्त सिन्धवः इति।[१६] अत्र सप्त सिन्धव इति सप्त विभक्तयं इति । तेन व्याकरणस्य समस्तद्वैपायनपरम्परार्षवैदिकवाङ्मयादपि प्राचीनतत्वमिति युधिष्ठिरभीमांसकमतमत्यन्तमेव समीचीनं प्रतिभाति । तथ्येमिदं ने केनाऽप्यलपितं शक्यते यत्संस्कृतभाषा आदौ यौगिकपदबाहुल्याऽऽसीत्। ह्रमशः सा रूढिमाश्रिता इति । यौगिकताऽस्य स्वभावसिंद्धा । सा च प्रकृतिप्रत्यय विभागेनैव ज्ञायते । प्रतिपदपाठादेव भाषाज्ञानस्यासम्भवात्तत्पदानां प्रकृतिप्रत्यय विमागेन सामान्यीकरणं यदैवानुभूतं तदैव व्याकरणं प्रवर्ततम् । एतत्प्रवर्तनञ्च । यदि मूलसंहिताप्राक्काले न सम्मवति चेदपि तत्सहैव तु निश्चयमेव । व्याकरणस्य तेन मूलसंहिताकालादारभ्य पतञ्जलिपर्यन्तमेव प्रवर्तनकालः सञ्चरति । तदनन्तरं व्याख्याकाल उदेति। सम्प्रति अपि स एवं सञ्चरति प्रक्रियामुखैन ।

तर्हि केन प्रथमं तादृशं सर्वशास्त्रशिरोरत्नभूतं व्याकरणं प्रवततमित्यपेंक्षायामितरशास्त्रप्रवर्तनमिवास्यापि प्रवर्तनं ब्रह्मण एवं सञ्जातं मन्यन्ते परिनिष्ठवैयाकरणाः पतञ्जलिप्रभृतयः । व्याकरणप्रवर्तनक्रमं निर्दशन् स कथयति- महाभाष्ये। ब्रह्मा वृहस्पतये प्रोवाच, वृहस्पतिरिन्द्राय, इन्द्रो । भरद्वाजाय, भरद्वाजऋषिभ्य ऋषयो ब्राह्मणेभ्यः इति।[१७]

विषयेऽस्मिन्नपरमपि मतं प्रचलितमस्ति यन्महेश्वरो वेदात्षडङ्गान्युद्धत्य प्रोवाचेति।[१८] अत्र हि षडङ्गानि एकतः शिक्षाकल्पादीनि षट्, • अपरतस्तु षड्विभक्तिमयं, नामाख्यातोपसर्गनिपातकर्मप्रवचनीयसर्वनामादिषडङ्गात्मकं, षड्लिङ्गात्मर्क षट्सन्धिमयं लट् लिङ्-लिट्-लुङ-लुट्-लडादिषड्लकारप्राधान्यं, त्रिगुणितषडाख्यातमयं, कतृ-कर्म-भाव-कर्मक कृत्यकृदन्तमयस्वरूपं, षट्कारकमण्डितं, षट्समासमय, अपत्यादिमख्यषट्प्रत्ययविग्रहं व्याकरणमपि बुध्यते ।

तत्र व्रह्मणा प्रोक्त व्याकरणं वृहस्पतिरधीतवान् । स चेन्द्राय प्रोवाच । यावत्पर्यन्तं व्याकरणं प्रतिपदपाठमात्रसम्बद्धमासीत् । वृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच । वर्षसहस्रमित्यर्थवाद एबाशयस्तु : सुदीर्घकाल इति । तथाविधस्यः प्रतिपदपाठस्य किं स्वरूपमासीदिति तु न शक्यते इदमित्थन्तया वक्त म्। सम्मवति समानरूपाणां नामाख्यातादीनां सङ्ग्रह एव प्रतिपदपाठमिति युधिष्ठिरसम्मतिः किन्तु प्रतिपदं रूपसिद्धिरेव प्रतिपदपाठ इत्यपरे । शब्दपारायणमिति रूढिय कस्यचिद्ग्रन्यस्येति भर्तृहरिर्महाभाष्यव्याख्याने । सम्भवति बाईप व्याकरणशास्त्र' हि शब्दपारायणशब्देन संज्ञितं स्यात् । स्याद्यद्वा तद्वा म लप्रयत्नसांध्यत्वाद व्याकरणं मरणान्तव्याधि मन्यन्ते स्मोशनसाः। बृहस्पतिः-प्रतिपदमशक्यत्वाल्लक्षणस्याप्यव्यवस्थितत्वात्तत्रापि नादनवस्थाप्रसङ्गाच्च मरणान्तो व्याधियकरणमिति औशनसा इति।

भारतीये हि शास्त्रे प्रायः सर्वाण्यपि शास्त्राणि ब्रह्मप्रवन न्यन्ते । युधिष्ठिरमीमांसको भगवदत्तमुद्धृत्य ब्रह्मप्रोक्तानां द्वाविंशतिशास्त्राणां सूचि, प्रस्तौति । तानि च वेद-ब्रह्मज्ञान-योगविद्या-आयुर्वेद-हस्त्यायुर्वेदरसतन्त्र-धनुर्वेदपदार्थविज्ञान-धर्मशास्त्र-अर्थशास्त्र-कामशास्त्र-व्याकरण-लिपिज्ञान-ज्योतिषशास्त्रगणित-शिल्पशास्त्र-अश्वशास्त्र-नाट्यवेद-इतिहास-पुराण-मीमांसाशास्त्र-स्तवशास्त्राणीति । युधिष्ठिरो हि ब्रह्माणं वर्तमानश्वेतवाराहकल्पादिभवमैतिहासिक पुरुषं मन्यते । स्यादपि तत् । ब्रह्मा हि, कामं रजोमूतधरः परमात्मा वा ऐतिहासिको वा, शास्तप्रवचनमकरोत् । तेन हि पृथक्पृथक् शास्त्राणि तु नैव प्रणीतानि किन्तु तत्सर्वाङ्गीणप्रवचने प्रसङ्गामुसारेण सर्वेषामेव शास्त्राणां बीजं निहितं सम्भवति । प्रवाचकश्रेण्यां ब्रह्मणोऽनन्तरं वृहस्पतेः स्थानम् । स हि देवानां पुरोहितो . महर्षेरङ्गिरसः पुत्रः (ऐ० ब्रा'८।२६) । सामगानं (छा० उ०२।२२।१), अर्थशास्त्र (महा० १२१५९।८४) इतिहासपुराणे (वायु० १०३।५९), वेदाङ्गानि (महा० १२।२१०।२०), व्याकरण (महामाष्यं १।१।१) ज्यौतिष (प्रबन्धचिन्तामणौ) वास्तुशास्त्रं (मत्स्य० २ ५१॥३-४), अगदतन्त्रञ्च वृहस्पतिप्रोक्तत्वेन प्रख्यातम् । एतदतिरिक्तमपि बहुविधं स्फुटपद्यस्तवर्क बृहस्पतिप्रोक्तसम्मतत्वने प्रसिद्धम् ।

बृहस्पतिकालपर्यन्तमपि वागव्याकृतैवासीत् । तेनैव वृहस्पतिः प्रतिपदपाठमेवाध्यापयामासेन्द्रम् । इन्द्रो ह देवानामग्रणीः । स हि स्वाधीतं देवेभ्यः प्रोवाच । देवा वै तदवधातुमसमर्थाः सन्तो तद्वाकरणायेन्द्रं प्रोचुः । इन्द्रो ह तां वाचं मध्यतोऽवक्रम्य व्याकरोत् । स च प्रकृतिप्रत्ययभागेन शब्दसिद्धिं व्याख्यातवान् । यथाऽऽह सायणाचार्यः - ‘तामखण्डां वाचं मध्ये विच्छिद्य प्रकृतिप्रत्ययविभागं सर्वत्राकरोत् ।' इति । तेनेन्द्रो हि प्रथमो वैयाकरणः । कातन्त्रादीनि हि व्याकरणानि तस्य शाखाप्रशाखारूपाणि ।।

एवमेव वेदात्षडङ्गान्युद्धत्य महेश्वरः सदाशिवोऽक्षरसमाम्नायनिर्देशपूर्वक व्याकरणमुपदिष्टवान् । पाणिन्यादयो हि तस्य व्याख्यातारः । व्याकरणप्रवर्तने । इन्द्रमहेश्वरयोः कतरः प्रथम इत्यपेक्षायां सारस्वतभाष्ये उक्त यत्--

‘समुद्रवद् व्याकरणं महेश्वरे तदद्ध कुम्मोद्धरणं बृहस्पतौ।

तद्भागधेयाञ्च शतं पुरन्दरे कुशाग्रविन्दुत्पतितं हि पाणिनौ । इति ।

अनेन तु ऐन्द्रापेक्षया बार्हस्पत्यस्य तदपेक्षयाऽपि माहेश्वरस्य व्याकरणस्य । प्राचीनत्वं विशालता च सिध्यति । पतञ्जलिः किन्निमित्तं तदुपेक्षते इति विचारणीयो विषयः ।

व्याकरणस्य भेदाःसम्पाद्यताम्

सामान्यतो व्याकरणस्य त्रीणि रूपाणि-छान्दसं लौकिकं छान्दसलौकिकञ्च। तत्र छान्दसं प्रातिशाख्यादि, लौकिकं कातन्त्रादि, छन्दसलौकिकं पाणिनीयादि । माहेश्वरं हि व्याकरणं छान्दसलौकिकमेन्द्रं हि लौकिकमित्यनुमीयते तथैव परम्पराभावात् । प्रातिशाख्यं छान्दसमात्र : व्याकरणं समुदितम् ।'प्रतिशाख्यं हि वेदानां प्रातिशाखसम्बद्धम् । तेन यावन्तो । वेदस्य भेदास्तावन्त्येवं प्रातिशाख्यानि स्युः किन्तु दुर्भाग्यादेव सम्प्रति षडेवोपलभ्यन्ते शेषाणि चत्वारि नामत एव श्रूयन्ते । तेषु शौनकसङ्गृहीतमृप्रातिशाख्यं, कात्यायनसङ्कलितं बाज़सनेयीयप्रातिशाख्यं, वररुचिसङ्कलितं सामप्रातिशाख्यं, अथर्वप्रातिशीख्यं तैत्तिरीयप्रातिशाख्यं 'मैत्रायणीयप्रतिशाख्यञ्चाज्ञातसँगृहीतञ्चेति षट् सम्प्रति समुपलब्धानि आश्वलायनवाष्कल-शांङख्यायनचारायणप्रातिशाख्यानि तु नामत एव श्रुतानि । मन्त्राणां संहितापाठे सम्मवविकारेषु विचार एव मूलतः प्रातिशाख्यस्योद्देश्यं येन पदपाठस्थमूलपादानां ज्ञानं सुकरं स्यात् । तेन हि तत्र पदपाठक्रमपाठसम्बद्धनियमा एव विशेष निरूपिताः सन्ति । पदप्रकृतीनि सर्वचरणानां ' पार्षदानि इति यास्कः।[१९]

तत्र प्रकृतिप्रत्ययविभागेनः पदसाधुत्वानुशासनस्यावश्यकतैव नासीत् । तेन । • प्रातिशाख्यं पाठानुशासनग्रन्थो न तु शब्दांनुशासनपरः । प्रातिशाख्यं हि । शब्देनापि परिचायते।[२०] एवमेब महाभाष्यकारः पारिषद शब्दमपि प्रयुनक्ति तन्निमित्तम् ।[२१] यथा -

‘पदप्रकृतीनि सर्वचरणानां पार्षदानि ।' ‘सर्ववेद पारिषद हीदं शास्त्रम् ।

शाखा शाखां प्रति प्रतिशाखम् । प्रतिशाखे भवं प्रोतिशाख्यम यास्काचार्यः - पदप्रकृतिः संहिता, पदप्रकृतीनि सर्वचरणानां पार्षदानि ।[२२] कुमारिलस्तु यथा| धर्मशास्त्राणां गृह्यग्रन्थानां च प्रातिशाख्यलक्षणवत् प्रतिचरणं पाठव्यव-.. स्थोपलम्यते ।[२३] तथैवानन्तदेवः -

‘प्रतिपञ्चदशशाखायां भिन्नानि प्रातिशाख्यानि नोपदिष्टानि, किन्तु |

श्रोतस्मार्तसूत्रवत् प्रातिशाख्यसूत्रमपि पञ्चदशशाखासाधारणं समाम्नातम् ।[२४]

अत्र चरणशब्दः शाखासंमूहबोधको यथा वाजसनेयचरणः, शाखाशब्दश्च आचार्यानुयायिभेदबोधको यथा, वाजसनेयचरणस्य माध्यन्दिनकण्वगालवादयः । शाखां प्रतिगता शाखा प्रतिशाखा, अनुशाखा अवान्तरशाखा इति ।। प्रातिशाख्यं संहितायाः सम्भवविपर्ययाणामध्ययनं करोति । तत्र हि वर्णोच्चारणादीनां सूक्ष्मं विवेचनमपि कृतमस्ति । वर्णोच्चारणे सस्भविदोषाणां सूक्ष्मविवेचनमपि प्रातिशाख्यस्य विषयेष्वन्यतमम् । तत्र पदपाठस्य नियमोऽपि स्पष्टतया निदशितः । एवमेव क्रमपाठस्य नियमोऽपि सामान्यतः सम्प्रर्दशितः । यत्र कुत्र जटापाठस्य नियमोऽपि प्रदशितः । अथैषां प्रातिशाख्यानां सङ्क्षेपेण परिचय उच्यते ।

ऋक्प्रातिशाख्यम्-प्रातिशाख्यमिदं शौनकप्रोक्तम् । शौनक हि यास्कः स्मरति शौनकोऽपि यास्कं स्मरति । यास्कस्य निरुक्तकारत्वं महाभारते हि समुल्लिखितम्।[२५] तेन ऋचस्य कालो महाभारतात्पूर्ववर्तीति त्ववश्यमेव । तत्रापि लिट् प्रयोगेण कियत्कालपूर्ववर्तीति तु वैव निश्चितम् । युधिष्ठिरमहाशयस्तु तं विक्रमपूर्वतृतीयसहस्राब्दीभवं मन्यते। अत्रे हि अष्टादश पटलाः यत्र त्रयोदशचतुर्दशयोः. शिक्षाविषयः, षोडश सप्तदशः - अष्टादशपटलेषु छन्दांसि वणितानि । अस्योपरि विष्णुमित्रस्य वृत्तिः ऋज्वर्था, उव्वर्टस्य भाष्यञ्च प्रसिद्धम् । एतदतिरिक्तमन्येऽपि बृत्तयो भाष्याणि च 'सन्तीति श्रूयतेऽस्योपरि ।

ऋग्वेदस्याश्वलायनशाखासम्बद्धमाश्वलायनेनैव प्रणीतं प्रातिशाख्यमासीदिति अनन्तस्य वाजसंनेयीयप्रातिशाख्यटीकातो ज्ञायत इति युधिष्ठिरमीमांसकः . . समुल्लिखति । ‘नाप्याश्वलायनाचार्यादिकृतप्रातिशाख्यसिद्धत्वम् इति तत्र १. वचनम् । एवमेव वाष्कलशाखासम्बद्धमपि प्रातिशाख्यमासीदिति शाङ्ख्यायन| श्रोतसूत्रस्यानिर्तीयभाष्यस्य ‘उपद् तो नाम सन्धिर्वाष्कलादीनां प्रसिद्धः । तस्योदाहरणम्' इति वचनाज्ज्ञायते इति युधिष्ठरो निदशति । किन्तु वाष्कलानामप्रगृह्य तदयं वचनम्' इत्यपि तस्य भावे प्रमाणम् ।

वाजसनेयीयप्रातिशाख्यम्- प्रातिशाख्यमिदं महर्षिकात्यायनप्रणीतम् । स हि याज्ञवल्क्यस्य पुत्र इति युधिष्ठिरमतम् । प्रातिशाख्यातिरिक्त तस्य हि संहिताब्राह्मणं, कात्यायनपरिशिष्ट, प्रतिज्ञासूत्र, गृह्यसूत्रञ्च प्रसिद्धा ग्रन्थाः । कात्यायनस्य स्थितिकालस्त्वनिर्णीत एव । तथापि तेन विक्रमपूवंसहस्राब्दीतो ऽपि, पूर्ववतनैव भाव्यमिति प्रबलस्तर्कः । युधिष्ठिरस्तु तं विक्रमपूर्व २९०० मितवर्षमभितः समुत्पन्नं मन्यते । अस्योपरि उदटाचार्यस्य भाष्यं अनन्तस्य व्याख्या चे प्रसिद्धा । तदतिरिक्तमपि अन्याष्टीकाटिप्पण्यश्चास्योपरि सन्तीति निर्दिष्टमस्ति ।

तैत्तिरीयप्रातिशाख्यम् - ज्ञातकर्तृ कमिदं प्रातिशाख्यं तैत्तिरीयशाखासम्बद्धम् । अस्य च प्रणयनं पाणिनिपूर्ववर्तनि काले एव सञ्जातमित्यनुमीयते । अस्योपरि सोमयार्यस्य त्रिरत्न भाष्यं प्रसिद्धम् । एतदतिरिक्त माहिषेयभाष्यं, गोपालयज्वनो वैदिकाभरणं च प्रसिद्धे । ।

सामप्रातिशाख्यम्- सामवेदस्य प्रातिशाख्यमिदं पुष्पसूत्रनाम्ना . प्रसिद्धम् । तच्च वररुचिप्रोक्तम् । स हि कात्यायनस्यः पौत्र इति युधिष्ठिरनिर्देशः । अस्योपरि अजातशत्रोः पुष्पसूत्रभाष्यं प्रसिद्धम् ।

अथर्वप्रातिशाख्यम्- अज्ञातकर्तृ कमिदं प्रातिशाख्यमथर्ववेदसम्बद्धम् । इदञ्च प्राक्पाणिनीयमित्यनुमीयते । एतदतिरिक्तमेव सन्त्यन्यान्यपि प्रातिशाख्यानि येषां विषये ज्ञानं नास्ति। प्रातिशाख्यातिरिक्तं तत्सदृशानि अन्यान्यपि शाकटायनप्रणीतत्वेनानुमीतं ऋक्तन्त्रं, शौनकप्रणीतत्वेन सम्मतो. अथर्वचतुरध्यायी, कात्यायनकृतं प्रतिज्ञासूत्रं, तस्यैव भाषिकसूत्रं, गाय॑स्य सामतन्त्रं, आपिशलेरक्षरतन्त्रञ्च प्रसिद्धानि । तत्राथर्वचतुरध्यायी कौत्सव्याकरणाभिधानेनाऽपि प्रसिद्धम् । यास्कस्य निरुक्तमपि प्रकरणेऽस्मिन्नितान्तमेव स्मर्तव्यमस्ति ।

प्रातिशाख्यादिग्रन्थेषु स्मृतानां एकोनषष्टिसङ्ख्याकानामाचार्याणां संप्रमाणा सूचियुधिष्ठिरमहोदयेन प्रस्तुताऽस्ति येषु कतिपये पाणिनिना स्मृता विस्मृता उपेक्षिताचाचार्याः सन्ति । पाणिनिनाऽनुल्लिखिताः किन्तुं तत्पूर्ववर्तन आचार्याः । महेश्वर-बृहस्पति-इन्द्र-वायु-भरद्वाज-भागुरि - पौष्करसादि - चारायण-काशकृत्स्नवैयाघ्रपद्यमाध्यन्दिनि-रौढि-शौनकि-गौतम-व्याडि‘प्रभृतयः प्राणिनेरष्टाध्याथ्यां स्मृता आचार्या आपिशलि-काश्यप-गाग्र्यगालव-चाक्रवर्मण-भारद्वाज-शाकटायनशाकल्य-सेनक-स्फोटायनाः पाणिन्यनन्तरर्वातनः आचार्यास्तु कातन्त्रव्याकरणकारः । सम्भवतः शर्ववर्मा एव चान्द्रव्याकरणकारश्चन्द्रगोभी, क्षेपणकः, जैनेन्द्रव्याकरणकारो देवनन्दी, वामनः पाल्यकीतिः, भोजदेवः, शिवस्वामी, बुद्धिसागरः, भद्रश्वरसूरिः, वर्धमानः, हेमन्द्रः, मलयगिरिः, कुमदीश्वरः अनु- . अतिस्वरूपः, बोपदेवः, पद्मनाभंश्च । एषां विषये आगामिप्रकरणे . सक्षेपेण चर्चा क्रियते । लौकिकव्याकरणं प्रथमतस्तु द्विधा विभक्तं सच्छान्दस लौकिकमात्रञ्च । तत्र सच्छान्दसं पाणिनीयं लौकिकमात्र कातन्त्रादि इति तु पूर्वमेवोक्तम् । लौकिकव्याकरणस्य वहवो भेदा आचार्यैः स्मर्यन्ते । सम्प्रत्यपि अष्टादशाधिका व्याकरणपरम्परा प्रवर्तिता दृश्यते। तेष्वपि प्राधान्येन अष्टौ वा नवैव गृहीताः । सन्ति शेषास्तु तत्सम्बद्धा एव । तत्राष्टौ व्याकरणानि यथा -

ब्राह्ममैशानमैन्द्रञ्च प्राजापत्यं वृहस्पतिम् ।।

त्वाष्ट्रमापिशलञ्चति पाणिनौय मथाष्टमम् ॥ तथैव मतान्तरे -

यस्मिन् व्याकरणान्यष्टौ निरुप्यन्ते महान्ति च ।

तत्राद्यं ब्राह्ममुदितं द्वितीयं चान्द्रमुच्यते ।

प्राचीनव्याकरणानिसम्पाद्यताम्

स्वशास्त्रे कृताः, तत्राऽपि प्राक्तनव्याकरणदृष्टसंज्ञाभिरेवाऽत्र व्यवहार इति व्याचक्षते व्याख्यातारः। अन्यच्च - 'त्रितुत्राथसिसुसरकसेषु च' इति दशसु कृत्प्रत्ययेषु पठ्यन्ते, तस्माद् व्याकरणान्तरस्थाऽप्यत्रानूदिता इत्येव वक्तव्यं स्यात्। किञ्च स्तम्भु-स्तुम्भुप्रभृतिधातवो न पाणिनीये धातुपाठे दृश्यन्ते। ते धातवश्च पूर्वव्याकरणसंस्कारेणैव पाणिनिना स्वसूत्रेषु निबद्धाः, इत्येव स्वीकर्त्तुमापतति। एवं 'चर्करीतस्व' इत्यदादिगणे पाणिनिना, यङ्लुगन्तं तेन गृह्यते इति व्याख्यातार आहुः। न हि पाणिनीये व्याकरणे यङ्लुगन्तं चर्करीतमिति परिभाष्यते, प्राक्तनेष्वेव व्याकरणेषु कारितमिति णिजन्तं, चिकीर्षितमिति सन्नन्तं, चेक्रीतमिति यङन्तं, चर्करीतमिति यङ्लुगन्तं व्यवहृतमासीत्। तस्मात्प्राचीनव्याकरणसंस्कारमात्रेण एव पाणिनिना 'चर्करीतञ्च' इत्यादौ सन्निवेशितम्। इदं दिङ्मात्रप्रदशितमपि स्पष्टमेव द्रढीयस्कतया ज्ञापयति यत्, पाणिनेः प्रागपि व्याकरणस्य सत्ता आसीत् इति।

पाणिनिरष्टाध्याय्यां स्वकीयायां दश प्राचीनान् व्याकरणाचार्यान् स्मरति सादरमेतेषु सूत्रेषु -

  1. वा सुप्यापिशलेः ६॥१॥९२,
  2. तृषिमृषिकृषेः काश्यपस्य १॥२॥२५,
  3. औतो गार्ग्यस्य ८॥३॥२०,
  4. तृतीयादिषु भाषितपुंस्कां पुंवद् गालवस्य ७॥१॥७४,
  5. ई ३ चाक्रवर्मणस्य ६॥१॥१३०,
  6. ऋतो भारद्वाजस्य ७॥२॥६३,
  7. लङः शाकटायनस्यैव ३॥४।। १११,
  8. लोपः शाकल्यस्य, ८।।३।१९,
  9. अवङ् स्फोटायनस्य ६॥१।१२३,
  10. गिरेश्च सेनकस्य ५॥४।। ११२

मीमांसकयुधिष्ठिरः 'संस्कृत व्याकरणशास्त्र का इतिहास' इत्येतन्नामके स्वकीये ग्रन्थे पाणिनेः प्राग्वर्तिनः त्रयोदश आचार्यानन्यानपि निर्दिशति। बहूनि प्रमाणानि समुद्रुत्य आचार्यमीमांसको मन्यते यत्, सञ्जातस्य पाणिनेः साम्प्रतिकात् कालात् ४८२१ वर्षाणि व्यतीतानि। परमाधुनिकानां प्रतीच्यानां विपश्चितां तु मान्यतेयं यत्पाणिनेः जातस्य प्रायेण प्रायः २७०० वषणि व्यतीतानि इति।

पाणिनीयव्याकरणम्सम्पाद्यताम्

सम्प्रति व्याकरणरूपी वेदाङ्गस्य प्रतिनिधिव्याकरणमेकमेव मन्यते 'पाणिनीयं व्याकरणम्'। महर्षिपाणिनिना प्रायः ४००० अल्पाक्षरैः सूत्रैः संस्कृतभाषायां नितान्तं वैज्ञानिकं व्याकरणं प्रस्तुत्य विदुष आश्चर्यचकितं कृतम्। वैज्ञानिकदृष्ट्या देवभाषायां यावत् सुष्टु शास्त्रीयविवेचनं पाणिनिना कृतं, तादृशं विवेचनमन्यत्र दुर्लभमस्ति। पाणिनिरिव भाषामर्मज्ञो वैयाकरणः संसारेऽन्यत्र समुपलब्धो नाऽस्ति। पाणिनेर्ग्रन्थः अष्टासु अध्यायेषु विभक्तोऽस्ति, तेनैव कारणेनास्य ग्रन्थः ‘अष्टाध्यायी' इति नाम्ना ख्यातोऽस्ति। समयस्त्वस्य ईसापूर्व-षष्ठशतकमस्ति।

वार्तिकं, महाभाष्यञ्चसम्पाद्यताम्

पाणिनीयस्य व्याकरणस्य परममहत्त्वपूर्णमङ्गं कात्यायनस्य वार्तिकपाठोऽस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णमेव प्रतिभाति। पाणिनिनाऽऽख्यातान् संस्कृतसाहित्ये प्रयुक्तान् शब्दान् व्याख्यातुमेव ईसापूर्वचतुर्थशतके कात्यायनेन वार्तिकानां रचना कृतेति। कात्यायनस्य वार्तिकपाठमिदं पाणिनीयस्य व्याकरणस्य महत्त्वपूर्णमङ्गमस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णम् एव प्रतिभाति। पतञ्जलिः कात्यायनस्य वार्त्तिकपाठमवलम्ब्यैव तत्र नैजं महाभाष्यमरचयत्। पतञ्जलिभगवत एषा हि महाभाष्याख्या रचना पाणिनीयं व्याकरणं सरलया सरसया च रीत्या व्याचष्टे। सकलेऽपि संस्कृतवाङ्मये महाभाष्यं वस्तुतोऽद्वितीयो ग्रन्थः। सर्वेऽपि विद्वांसो मुक्तकण्ठतया प्रशंसन्ति ग्रन्थमिमम्। ईसापूर्वद्वितीयशतकेऽस्य ग्रन्थस्य निर्माणमभवत्। व्याकरणस्य दार्शनिकसिद्धान्तानां मीमांसा प्रथमत अत्रैवोपलब्धा भवति। व्याकरणस्य पाणिनिः, कात्यायनः, पतञ्जलिरेव मुनित्रयमस्ति।

पाणिनिव्याकरणसम्बद्धाः ग्रन्थाःसम्पाद्यताम्

महाभाष्यानन्तरं व्याकरण-दर्शनस्य सर्वाधिकप्रधानो ग्रन्थो वाक्यपदीयोऽस्ति। अस्य ग्रन्थस्य रचयिता षष्ठशतकोद्भवो भर्तहरिरासीत्। वाक्यपदीये व्याकरणशास्त्रस्य दार्शनिकस्वरूपं स्फुटरूपेण अभिव्यक्तं भवति। व्याकरणन्तु शैवागमान्तर्गतमेवास्ति। अस्य स्वीया विशिष्टा साधनप्रक्रियाऽस्ति। भक्तृहरिः शब्दाद्वैतस्य संस्थापकः आसीत्। तस्य विचारे 'स्फोट' एवैकमात्र परमतत्त्वमस्ति। जगदिदं तस्यैव विवर्त्तरूपमस्ति।

काशमीरनिवासिना कैयटेन विरचितं 'भाष्यप्रदीपम्' महाभाष्यीयसिद्धान्तस्य प्रदीपमिव प्रकाशयितः एकमात्रो ग्रन्थरत्नः अस्ति। प्रदीपस्य उद्योताख्या व्याख्या नागेशभट्टेन लिखिताऽस्ति। व्याकरणशास्त्रस्येतिहासे भट्टोजिदीक्षितेन एकस्य अभिनवयुगस्य स्थापना कृता। अस्य त्रयः सुप्रसिद्धा ग्रन्थाः सन्ति- (१) सिद्धान्तकौमुदी, (२) शब्दकौस्तुभः, (३) मनोरमा चेति।

दीक्षितपरम्परायामेव नागेशभट्टः उद्भटवैयाकरणोऽभवत्। अस्य विदुषः प्रतिभा बहुमुखी आसीत्। अस्य परिभाषेन्दुशेखरः पाणिनिव्याकरणस्य सर्वमान्यग्रन्थोऽस्ति। अस्य शब्देन्दुशेखरः इति मनोरमायाः विस्तृता व्याख्याऽस्ति। अस्य ‘लघुमञ्जूषा' शब्दार्थयोः सिद्धान्तस्य मीमांसकः सर्वश्रेष्ठग्रन्थोऽस्ति। नागेशभट्टः काशीनिवासी आसीत्। अष्टादशशतकस्य पूर्वार्द्धेऽयं विद्यमान आसीत्।

व्याकरणयस्य प्रमुखविषयाःसम्पाद्यताम्

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुसम्पाद्यताम्

उद्धरणम्सम्पाद्यताम्

  1. शृङ्गारप्रकाशः/षष्ठः प्रकाशः
  2. ( ऋ० ४॥५८।।६ )
  3. ( ऋग्वे० १०।।७१।१ )
  4. (ऋग्ंं० १॥१६४॥५०)
  5. ( ऋग्० ६॥६६॥९ )
  6. ( यजु० १॥२० )
  7. ( यजु० ११॥७ )
  8. ( अथर्वे० १८॥४॥७ )
  9. वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्, 30
  10. ऋ. ४/५८/३
  11. १९/७७
  12. १/१/१
  13. १/२४
  14. १॥७॥३
  15. ७१।७
  16. ८।६९।१२
  17. १।४
  18. महा०१२।२८४१९२
  19. निरु०. १।१७
  20. निरु० १।१७
  21. ६।३।१४
  22. निरु०.१।१७
  23. तन्त्रवातकम्-१।३।१५
  24. प्रतिज्ञापरिशिष्टे:२।१
  25. १२।३४२।७३
"https://sa.wikipedia.org/w/index.php?title=व्याकरणम्&oldid=443618" इत्यस्माद् पुनः प्राप्तिः