अष्टाध्याय्याः प्रक्रियाग्रन्थाः
अष्टाध्यायाः प्रक्रियाग्रन्थाः व्याकरणं सुचारुतया बोधयितुं निर्मिताः ग्रन्थाः।
प्रयोजनम्
सम्पादयतुउभावेव महाप्रज्ञौ युधिष्ठिरमीमांसकबलदेवाचायौं तथ्यमिदमेकस्वरेण स्वीकुरुतो यत्प्रक्रियानुसारिकातन्त्रादिलघुव्याकरणानामुदय एव । पाणिनीये समग्रे व्याकरणेऽपि प्रक्रियाक्रमस्याभ्युदयाय प्रेरकोऽभूत् । वस्तुतस्तु पाणिनीया अष्टाध्यायी व्याकरणस्य. शास्त्रीयपरिचयायैव सुगुम्फिताऽऽसीद्विशेषतस्तेष शिष्टानां कृते येषां संस्कृतमेव मातृभाषाऽऽसीत् । सा हि नैव शब्दसिद्धचंभिक मुखी यतः शब्दसिद्धयस्तु तेषां सहजैव । पाणिनिना हि सङ्क्षेपीकृत्य व्याख्या नायैव ग्रन्थारम्भ कृत. आसीत् । तेनैव तस्य यथार्थज्ञानाय समेग्नमध्ययन मावश्यक भवति । कालक्रमेणैकतः संस्कृतं हि जनभाषातः शिष्टभाषावै परिणतं तु प्रथममेवाऽऽसीदेव पुनश्च शिष्टभाषातोऽपि पण्डितभाषायों परिणतं सत् शिष्टव्यहारतोऽपि दूरङ्गतम् । तेन सामान्यशब्दरूपज्ञानमपि दुष्करें सञ्जातं येन रूपसिद्धेरावश्यकतोदिता । तत्समाधानाय शर्ववर्मप्रभृतिभिः प्रक्रियानुसारिलघुव्याकरणमाविष्कृतम्, येन स्वल्पेनैवोपायेन रूपसिद्धिः । सम्भवति स्म येषाञ्च लक्ष्यं व्यावहारिकज्ञानमेव । तेषाञ्चाल्पाभ्याससाध्यत्वाद् व्यवहारानुकूल्याश्च जनास्तत्राकृष्टाः सञ्जाता येन पाणिनीयं हि समग्रं व्याकरणं - पण्डितेभ्योऽपि पलायनपरमभूत् । तेनैवाचार्यैः प्रयोगानुकूल्येन सूत्राणां विन्यास आरब्धो यस्मात्प्रक्रियापद्धतिः प्रारब्धा ।
प्रक्रियाक्रमे हि रूपसिद्धिदष्ट्या सूत्राणि समुपस्थाप्य ते एकस्मिन् क्रमे एक एव विधिनिदष्टो भवति । तादृशः क्रमश्च सामान्यतः संज्ञा-सन्धि-सुबन्त-तिङन्त-कृदन्त-कारकः समास-तद्धितेत्यष्टासु भागेषु विभक्तः । संज्ञाप्रकरणे हि संज्ञाविधिरुच्यते यानि हि संज्ञाविधायकानि सूत्राणि सन्ति तानि तत्र संगृहीतानि कामं तान्यष्टाध्यायां यत्र कुत्र पठितानि स्युः । सन्धिप्रकरणे हि क्रमेण अज्झलविसर्गस्वादि। सन्धिसम्बद्धसूत्राणि सङ्कलितानि । सुबन्तप्रकरणे हि क्रमेण अजन्तहलन्तशब्दानों त्रिष्वेव लिङ्ग षु रूपसाधकसूत्राणि संगृहीतानि । तिङन्तप्रकरणे भ्यादिदशगणी धातूनां रूपाणि साधितानि तथैव सनाद्यन्तानां नामधातूनाञ्च । तत्र हि धातून पदप्रक्रिया भावकर्मविधिलंकारविधिश्च निर्दिष्टाः । कृदन्ते हि धातुभ्यः प्रातिपदिकोत्पत्तिविधिरवतारितः । कारके कारकप्रयोगविधिनिर्दिष्टः । समासे हि * केवल-अव्ययीभाव-तत्पुरुष-बहुब्रीहि-द्वन्द्व समासानां स्वरूपं समासान्तप्रत्यया एकशेषादिसमासान्तविधिश्च निदष्टाः । तद्धिते हि प्रातिपादिकात्प्रातिप्रादिकोत्तिविधिरवतारितः । एवञ्च परिशिष्टत्वेन स्त्रीप्रत्ययाव्ययादिप्रकरणान्यपि स्वरप्रंकियो वैदिकप्रकरणञ्चापि स्वक्रमे निर्दिष्टानि । एवं हि प्रक्रियाक्रममनुसृत्य पाणिनीयसूत्राणि विस्थापितानि । तेन रूपसिद्धिक्रमस्तु लघ्वाभ्यासूसाध्यंः संज्जातः किन्तु सुत्राणां विस्थापनेन अनुवृत्यभावाद् ,वृत्तिग्रंथस्य प्राबल्यं सञ्जातं सूत्रापेक्षया ।
वृत्ति विना सूत्राणि अदृष्टार्थानीव सञ्जातानि । अनुवृत्तिरेव पाणिनीयसूत्राणां जीवनम् । अनुवर्तकसूत्राणि हि अनुवर्तकसूत्रेभ्यः * पृथक् स्थापितानि मातृतः पृथक्स्थापिताः स्तनन्धया इव सञ्जातानिं । संज्ञाप्रकरणारम्भे स्थापितं हि हलन्त्यमदृष्टार्थकमेव । तस्य तुपजीव्यं उपदेशेऽजनु-'. नासिके इत्' इति । तद्विरहे तस्मादपि ‘उपदेशेऽन्त्यं हलित्स्यात्' इति वृत्तिरेव प्रबलतरा संजाता । एवमेव ‘यू स्त्रपाख्यौ नदी’ -इत्येतस्मात्पृथक्कृतस्य ‘शेषोध्यसखि' इत्येतस्य ‘शेषपदं किन्नामावबोधयेत् । केवलं प्रसङ्गसम्बद्धसूत्राणामैकत्रसङ्कलनमेवास्य क्रमस्य वैशिष्ट्यमवशिष्ट म् । प्रभावेणास्य अष्टाध्याय्याः पठनपाठनक़मश्च समूल विनष्टः । तदानीं नाभिमन्यु नै च जयापीड एवासीद्यो हि विच्छिन्नप्रायं महाभाष्यं पुनरुद्धरेत् । किन्तु धरित्री नैव कदापि विधवा भवति । तत्कार्यञ्च विरजानन्दप्रभृतिभिर्मनीषिभिः समारब्धम् । सम्प्रत्यपि आर्यसामाजिकविद्यालयेषु अष्टाध्यायीक़मेणैव व्याकरणमध्याप्यते । आशुबोधार्य प्रवतितोऽपि, प्रक्रियाक्रमो वृत्त्युदाहरणप्रत्युदाहरणशङ्कातत्समाधानादिभिरष्टाध्यायीक़ मादपि सुदीर्घतरः सञ्जातो येन व्याकरणं द्वादशवर्षश्राव्यं सञ्जातं, ज्ञानं तु दूरे एवं।
तदेषः प्रक्रियाक्रम आरब्धो धर्मकीतिना ११४० मितवैक्रमाब्दे । रूपावता.. रस्य प्रणयनेन । ततश्चार्य कृम इत्थं प्रवर्तितः अज्ञातकर्तृ के प्रक्रियारत्नं (१३०० वै०), विमलसरस्वतेः रूपमाला (१४०० वै० ) रामचन्द्रस्य प्रक्रियाकौमुदी (१४५० वै०), भट्ठोजिदीक्षितस्य सिद्धान्तकौमुदी (१६२०.वै०) नारायणभंट्टस्य प्रक्रियासर्वस्वम् (१७०० वै० ), सोमनाथशर्म्मणः प्रतिसंस्कृता सिद्धान्तकौमुदी ( २०१५ वै० ) च । ताँश्च ग्रन्थानधिकृत्य प्रवर्तिता अनेके व्याख्याप्रन्थाः यथा रूपावतारस्य शङ्कररामकृतानीविः, अज्ञानकर्ते का धातुप्रत्ययपञ्जिक।, रामचन्द्रस्य प्रक्रियाकौमुदीमधिकृत्य कृतः शेषकृष्णस्य • प्रकाशः, विठ्ठलाचार्यस्य ‘प्रसादः' चक्रपाणिदत्तस्य प्रक्रियाप्रदीपः' अर्फनने नार्यस्य ‘प्रक्रियादीपिका', वारणवनेशस्य' अमृतसृतिः' विश्वकर्मणः, “प्रक्रिया व्याकृतिः" नृसिंहस्य व्याख्याने, “अज्ञातकर्तृको निर्मलदर्पणः" जयन्तस्य तत्वचन्द्रः, विद्यानाथस्य प्रक्रियारञ्जनम्, वरदराजस्य विवरणस्, काशीनाथस्य प्रक्रियासारः, भट्टोजिदीक्षितस्य सिद्धान्तकौमुझेमधिकृत्य भट्टोजेरेव प्रौढमनोरमा तदुपरि च हरिदीक्षितस्य बृच्हछब्दरत्नं लघुशब्दरत्नञ्च, लघुशब्दरत्नोपर्यपि अनेकाष्टीकाः यथा भैरवमिश्रस्य शब्दरत्नप्रकाशिका, सभापतिशमपाध्यायस्या रत्नप्रभा, जगन्नाथशास्त्रिणो ज्योत्स्ना, माधवशास्त्रिणः; प्रभा, चैत्यद्याः । ज्ञानेन्द्रसरस्वतेस्तत्वबोधिनी, नीककण्ठस्य सुखबोधिनी,रामानन्दस्य तत्वदीपिको, रामकृष्णस्य रत्नाकरः, नागेशभट्टस्य लघुशब्देन्दुशेखरः बृहच्छब्देन्दुशेखरश्न, लघुशब्देन्दुशेखरोपरि उदयशंङ्करस्य ज्योत्स्ना, वैद्यनाथस्य चिदस्थिमाला, भट्टी विषयी-चन्द्रकला-नागेशोक्तिं-प्रकाशिकाश्चान्याश्चाष्टाधिकाः नित्यानन्दपर्वती यस्य शेखरदीपकश्च; रङ्गनाथस्यं पूर्णिमा, वासुदेवस्य बालमनोरमा, कृष्ण मित्रस्य रत्नार्णवः, तिरुमलस्य सुमनोरमा, तोष्पलस्य प्रकाशः, अज्ञातकेतू का लघुमनोरमा-शब्दसागरे शब्दरसार्णव-सुधाञ्जनाख्याः, लक्ष्मीनृसिंहस्य विलास, शिवरामस्य रत्नाकरः, इन्द्रदत्तस्य, व्यूढमिश्रस्य बालबोधः, बल्लभस्य मानसरञ्जनी, गोपालशास्त्रिणः सरला, च तथैव तत्खण्डनरूपेण प्रणीता ग्रन्थाः यथा शेषवीरेश्वरपुत्रस्य प्रौढमनोरमाखण्डनं, चक्रपाणिदत्तस्य परमतखण्डने, जगन्नाथस्य मनोरमाकुचमर्दनं, नारायण भट्टस्य प्रक्रियासर्वस्वमधिकृत्य कोलवर्मदेवस्य प्रकाशिका व्याख्या, सोमनाथशर्मण; अतिसंस्कृतसिद्धान्त कौमुदीसधिकृत्य तस्यैव स्वोपज्ञविशेषविवृतिश्च ।
एवमेव भट्टॉजिदीक्षितस्य सिद्धान्तकौमुद्यां एवं संक्षेपणेन वरदराजांख्येन विपश्चिता प्रणीता मध्यसिद्धान्तकौमुदी,, तस्या अंपि सङ्क्षेपणैन कुता लघुसिद्धान्तकौमुदी, यामधिकृत्य सदाशिवजोशिनः सुधाव्याख्या नारायणदत्तस्य साररूणाटिप्पणी कनकलालठक्कुरस्य बालबोधिनी, गोपालशास्त्रिणो लघुटिप्पणी तथैव सोमनाथशम्र्मणः प्रतिसंस्कृतसिद्धान्तकौमुद्याः संक्षेपणेन लोकमणिदाहालप्रणीता प्रतिसंस्कृतमध्यसिद्धान्तकौमुदी तस्या अपि संक्षेपणेन तैनैव कृता प्रतिसंस्कृतलघुसिद्धान्तकौमुदी बालकौमुदी च ।
धर्मकीतेः रूपावतारः
सम्पादयतु‘अष्टाध्याय्याधारेण प्रणीतानां प्रक्रियानुसारिग्रन्थानां मध्ये सम्प्रत्युपलभ्यः प्राचीनतमो ग्रन्थो धर्मकीर्तेः रूपावतार एव । कर्ताऽस्य न्यायविन्दुप्रभृतिःग्रन्थानां. प्रणेतुर्धर्मकीर्तेबद्धपण्डिताद्भिन्न एव । तेन हि प्रकरणोपयोगीनि मष्टाध्यायीसूत्राणि सङ्कलय्य ग्रन्थोऽसौ प्रणीतः ।।
धर्मकीतिरपि प्राचीनपण्डिता यथा स्वस्थितिकालविषये न किञ्चिदपि सङ्कतयति । तेन हि तस्य निश्चितकालोऽज्ञातः । १२३० मितवैक्रमाब्दमभितः स्थितिमता दुर्घटवृत्तिकृता शरणदेवेन धर्मकीर्तिस्तदीयो रूपावतारश्च स्मृतः ।
तेन स वैकं मद्वादशशतकपूर्ववर्ती । हेमचन्द्रो हि लिङ्गानुशासनस्य स्वोपज्ञविव'रणे “वाः वारि-रूपावतारे तु धर्मकीर्तिनाऽस्य नपुसकत्वमुक्तम्” इति स्मरति । स हि स्वकीयपञ्चाङ्गव्याकरणं' ११९७ मितवैक्रमाब्दमभितः प्रणीतवानिति धर्मकीर्तेस्तत्पूर्ववर्तित्वम् । धातुप्रदीपे हि मैत्रेयः प्रणेतृनामनिर्देशपूर्वक रूपावतारं स्मरति ।, मैत्रेयश्च ११६५ मितवैक्रमाब्दमभितः स्थितिमानिति धर्मकीर्तेरियमेवोत्तरसीमा। तत्र सः रूपावतारे तु णिलोपे प्रत्ययोत्पत्तेः आगेव कृते सत्येकाज्त्वाद् यदाहृतंश्वोचूर्यत' इति वचनमुद्धरति । धर्मकीर्तिहिं रूपावतारे पदमञ्जरीकारं हरदत्तमुल्लिखति । हरदत्तस्य कालस्तु १११५ मितवैक्रमाब्दमभित इति तस्य पूर्वसीमा । अत एव धर्मकीर्तेः काल उभयोः कालयोरन्तरालवतनि समये पततीति ११४० मितवैक्रमाब्दमभितो रूपावतारस्य प्रणयनकाल इति विद्वद्भिरनुमितम् ।
रूपावतारो हि द्वयोर्भागयोविभक्तः । तस्य पूर्वार्द्ध हिं सुबन्तप्रकरणं तच्चाटासु भागेषु विभक्तम् । उत्तरार्द्ध तु तिङन्तकृदन्तप्रबन्धः । धर्मकीर्तिः ग्रन्थादौ सर्वज्ञ प्रणयतीति तस्य बौद्धत्वमनुमीयते. तज्ज्ञैः । किन्तु सर्वज्ञशब्दस्तु' कृशानुरेताः सर्वज्ञो धूर्जटिनललोहितः' इति शम्भुपर्यायेष्वपि पठितमस्ति । तेन मतमिदं चिन्त्यमेव। धर्मकीर्तािह कुत्रत्य इत्यपि नैव ज्ञातमस्माकम् । रूपावतारे हि चत्वारष्टीकाग्रन्थाः सन्ति इति युधिष्ठिरमहाभार्गः सूचयति । तेषु हि शङ्करदेवस्य नीविनाम्नीटीका, अज्ञातकर्तृ का धातुप्रत्ययेपञ्जिको टीका च नामतो ज्ञाताः ।
कृष्णलीलांशुकस्य प्रक्रियारत्नम्
सम्पादयतुप्रक्रियाक्रमे समुपज्ञातो। द्वितीयो ग्रन्थः प्रक्रियारत्नम् । तद्य केन कदा प्रणीतमिति तु सम्प्रत्यपि ज्ञानबाह्यमस्माकम् । ग्रन्थोऽपि सम्प्रति नैव लभ्यते दैवस्य पुरुषकारवातिके स्मृतत्वात् प्रणयनमस्य वैक्रमत्रयोदशशतकपूर्वेत्येवानुमातुं शक्यते । तत्र हि प्रपञ्चतं चैतत् प्रक्रियारत्ने' इत्युल्लेखेनानुसीयते यत्कृष्ण | लीलांशुकमुनिरेवास्य प्रणेतेति । संस्कृतसाहित्ये हि इयं परम्पराऽन्यत्रापि | दृश्यते । यथा ‘दशितं शब्दकौस्तुभे' इति ।
धनेश्वरस्य प्रक्रियारत्नमणिः
सम्पादयतु१२५०-१३०० वैक्रमाब्दानभितः स्थितिमता वोपदेवगुरुणा धनेश्वरेण च प्रक्रियारत्नमणिनामको ग्रन्थः प्रणीत इति युधिष्ठिरमीमांसकलेखतो ज्ञायते। तद्विषये तदधिकं नैव ज्ञातम्।
विमलसरस्वतेः रूपमाला
सम्पादयतुविमलसरस्वतेः रूपमाला प्रक्रियाक्रमे तृतीयं पुप्पम् । अत्र हि कानिचिदेवाष्टाध्याय्याः सूत्राण्यादाय रूपसिद्धिक्रमेणोपस्थापितानि । ग्रन्थे संज्ञा-ॆसन्धिअजन्त-हलन्त-सर्वनाम-सङ्ख्या-नियतलिङ्ग-छान्दस-अव्यय-स्त्रीप्रत्यय-कारक-तिइन्त-कृदन्त-षत्वणत्व-तद्धित-समास-द्विरुक्त-षत्वसत्वणत्वादिमालामु विभक्तः । विमलसरस्वतेदेशकालविषये वयमनभिज्ञाः । स हि वैक्रमत्रयोदशशतके पूर्ववर्तीत्यनुमीयते एव प्रत्यक्षप्रमाणाभावात् ।
रामचन्द्रस्य प्रक्रियाकौमुदी
सम्पादयतुरामचन्द्रस्य प्रक्रियाकौमुदी प्रक्रियाक्रमे चतुर्थः किन्तु पूर्णतादृष्ट्या प्रथमः प्रयासः । यद्यप्यंत्रापि नैव सम्पूर्णसूत्राणां सन्निवेशस्तथापि व्याकरणप्रविविक्षुणां कृते ग्रन्थोऽयमुपकारकः । असौ हि रूपमालातो विस्तृतः सिद्धान्तकौमुदीतः । संक्षिप्त इंति मध्यममार्गमवलंम्बते । अत्र हि संज्ञा-सन्धि-सुबन्त-कारक-समासतद्धित-तिङन्त-कृदन्त-वैदिक-अव्यय-स्त्रीप्रत्ययादिप्रकरणानि-निरूपितानि ।
कर्ताऽस्य रामचन्द्र आन्ध्रदेशीयः शेषवंश्यः । तस्य पिता कृष्णाचार्यः पुत्रश्च नृसिंहः पौत्रोः विठ्ठलः । ग्रन्थस्यास्य प्रणयनकालो विक्रमानन्तरपञ्चदशशतकवर्षायभितोऽनुमितः । प्रणेतुरस्य स्थितिः कालश्च १४५०-१५२० वैक्रमवर्षाण्यभितः सम्मतः ।
प्रक्रियाकौमुद्याः कतिपयेषु वैशिष्ट्येषु लोकव्यवहारप्रयुक्तशब्दानां साधुः । तापरीक्षणमन्यतमम् । तेन हि स 'पाणिनीयसूत्रेरसाधियानामपि शब्दानां व्याकरणान्तरसहाय्येन वा स्वयं समूह्यापि साधुतां प्रतिपादयति । ग्रन्थे हि तादृशाः शब्दाः शताधिकाः परिगणिताः । तेन हिं ग्रंथकर्तुर्लक्ष्यैकचक्षुष्कत्वं सिद्ध्यति । तया साधने हि ग्रंथकता विशेषतः कातन्त्रव्याकरणान्मुग्धबोधाच्चोयकृतं दृश्यते । स कविप्रयोगांश्च स्वसाहाय्यं प्रतिपादयति । निदर्शनार्थं कानिचित्पेदान्यत्रोपस्थाप्यन्ते ।
पदानि | पाणिनीयाष्टकानुसारेण तेषां रूपाणि | तथा समर्थने प्रमाणानि |
प्रेष प्रेष्य | प्रैष प्रैष्य प्रादूहोढोढ्येष्येषु इति वृद्धिः | एष-एष्ययोरैत्वं विभाषया' इति दुर्गसिंहः वेषैष्योः (३३) इति । मुग्धबोधे |
कान् कान् | काँस्कान् कानाभेडिते (८।३।१२) रुत्वम् | कांस्कान् नृः पि वा (५७) इति मुग्धबोधे द्विः कालः कासि स ? (१।३।११) इति हैमे । |
भास्करः | भाःकरः कस्कादिषु च (६।३।४८) इति नित्यं सकारः | से कखपफेवा (६६) इति । मुग्धबोधे |
क्रोट्टन् | क्रोष्टून् | शसि सर्वनामस्थानसंज्ञा - भावात् न तृज्वद्भावः | | ‘वाच्यघो' (१४०) इति मुग्धबोधे। |
क्रोष्ट्रणां | क्रोष्टूनाम् परत्वान्नुटि अजन्ताभावान्न तृज्वद्भावः | अमि शसि तृज्वद्भावो वेति केचित् । वाच्यंघो (१४०) मुग्धबोधेः । |
हे सुभ्रु | हे सुभ्रूः डू प्रत्ययस्यास्त्रीत्वान्नदीसंज्ञा– भावेन नैव गोस्त्रियोरुपसर्जनस्येति ह्रस्वः ह्रस्वाभावान्न च सोर्लोपः । | अस्य सम्बुद्धौ ह्रस्व वेति केचित् सुभ्रदीर्घजयार्थाना धौस्वः । १५३ मुग्धबोधे नित्यद्विद्विस्वराऽम्बार्थस्य ह्रस्वः । १।४।४३ |
विमानना सुभ्र, कुतः पितुगृहे' इति कालिदासः
हा पितः क्वासि हे सुभ्र":"भट्टिः
एवं शीर्षाणि शीर्णः, श्वेतौहः, श्वेतवाहः, सुधां सुदिवं, पूष्णि पूषणि पूर्षि, |' एकफली एकफेला, ब्रह्माणी, सूर्या सूर्याणी, तनुः तनूः पद्मगन्धिः पद्मगंन्धः, समान | पिण्डः सपिण्डः, सरूप : समान रूपः, कापथः कुपथः, कदाग्निः कवाग्नि काग्निः
यावन्तः यति, तावन्तः तति, दुर्भवणि दुर्भवानि, ममन्थतुः ममतुः, शोचिता . शोक्ता, अंसरत् असार्षीत्, पणायते पणायति, सोता सविता, ववमतुः वैमातुः,
माष्टं भ्रष्टा, रेधतुः धितुः,' दरिद्राञ्चकार ददरिद्र, देभतुः ददम्भतुः, 'दद्गम्भिथ देभिथ, चोरयति चोरति, अचकर्थात् अचीकथर, अचूचुरतु अचुचीरत्, धूनयलि धावयति, अबक्रीडति अवक़ीडते, अस्नोष्ट अस्माविष्ट, भाग्यं भेन्यं, जाप्यं जप्यं याज्यं यज्यं, जपितः जप्त, विश्वसितः विश्वस्तः, एषणा ईषणा, अक्षीय प्रक्षित्य, रविता: रोता, इत्यादिषु द्वितीयः पाठो व्याकरणदृष्ट्याऽपि साधितः । सामान्यतस्तु प्रथमपाठ एव सिद्धयति तेषाम् ।
सन्ति प्रक्रियाकौमुद्या अनेके व्याख्याग्रन्थाः। तेषु हि शेषकृष्णस्य (१४७५ वै०) प्रकाशव्याख्या, विठ्ठलाचार्यस्य (१५२० वै०) प्रसादटीका, चक्रपाणिदत्तस्य (१५५०-१६२५वै०) प्रक्रियाप्रदीपः, अफननैनार्यस्य प्रक्रियादीपिका, वारणवनेशस्य अमृतसृतिः विश्वकर्मणः प्रक्रियाव्याकृतिः, नृसिंहस्य व्याख्यानम्, अज्ञानकर्तुं को निर्मलदर्पणः, जयन्तस्य तत्वचन्द्रः, विद्यानाथस्य प्रक्रियारञ्जनम् वैरदराजस्य विवरणम्, काशीनाथस्य प्रक्रियासारश्च प्रसिद्धाः । तत्रापि प्रकाशप्रसीदव्याख्ये सर्वसम्मते ।।
प्रक्रियाकौमुदीमधिकृत्य आद्याप्रसादमिश्रस्य अनुसन्धानात्मको लेखः प्रक्रियाकौमुदीविमर्शो नितान्तमेव मननयोग्यः । कौमुदीयं प्रकाशव्याख्यायुतैव मुरलीधरमश्रेण संपाद्य प्रकाशिताऽस्ति ।
भट्टोजिदीक्षितस्य सिद्धान्तकौमुदी
सम्पादयतुप्रक्रियाक्रमे भट्टोजिदीक्षितस्य सिद्धान्तकौमुदी पताकायते । सम्प्रति तु निखिलेऽपि भारतवर्षे तस्या एव विजयदुन्दुभिरुच्चैः श्रूयते । तत्सचं सर्वे प्रक्रियाग्रन्थाः स्वंयमेव पाणिनीयाष्टकञ्च समायपि हतवर्चसो दृश्यन्ते । अस्या हि विंशत्यधिको व्याख्याकारातत्येव तेषां व्याख्याकाराश्च ति वैयाकरणानां ततिरेव तत्र संलग्न दृश्यन्ते ।
भट्टोजिदीक्षितो हि तैलङ्गो ब्राह्मण आन्ध्राभिजनः काशीवास्तव्यः । तस्य पिता लक्ष्मीधरभट्टः गुरुश्च प्रक्रियाकौमुदीकारस्य रामचन्द्राचार्यस्य भ्रातुष्पुत्रः शेषकृष्णः पुत्रो भानुजिदीक्षितः (संन्यासग्रहणानन्तरं रामाश्रमः) पौत्रश्न हरिंदीक्षितः (बृहच्छब्दरत्नकारः) (नागेशगुरुः), भ्रातुष्पुत्रो हि कौण्डभट्टः । । भट्टोजिरपि स्वस्थितिकालविषये नैव किञ्चिदपि सङ्कतयति । तेन तस्य स्थितिकालो बाह्यसाक्ष्यादेवोह्यः । स हि रामाश्रयस्य (भानुजिदीक्षितस्य) शिष्यो। वत्सराजों १६९८ मिते वैक्रमाब्दे स्वप्रणीते वाराणसीदर्शनप्रकाशिकाग्रन्थे तमपि प्रणमतिः । १६९०. मितेवैक्रमाब्देहि पुनलखितस्य शब्दकौस्तुभस्यः क्लस्तलेखो. विद्यत इति भट्टोजिदीक्षितस्य तत्पूर्वमेव स्थितिकाल इत्यनुमीयते, शेषकृष्णस्या, शिष्यत्वात्तेन तत्परर्वातना भाव्यमेव । अतस्तस्य स्थितिकालः सनमान्यतः १५५०-१६२० वैक्रमवण्यभित इति विचिन्त्यते । किन्तु, नैतदप्रत्याख्येयमुः। कथ्यतेऽसौ पण्डितराजजगन्नाथसमकालिकः इति ।
पण्डितराज्स्तु-दिल्लीश्वस्य शाहजहानस्य समकालिक इति । 'दिल्लीबल्लभपाणिपल्लवतले नीतं नवी वयः' इति कथनाज्ज्ञायते । स हि. १६८४ मितवैक्रमाब्दे सिंहासनमारोह्त्यैतिहांसिका वदन्ति । तथा सति भट्टोजिजगन्नाथयोः समकालिकत्वं नैव सिद्धयति । अपरञ्च भट्टोजिना अध्ययदीक्षितान्मीमांसाऽधीतेति श्रूयते । अप्ययदीक्षितस्तु १५७५-१६५० वैक्रमवषाण्यभितंः स्थितिमांन् । अनेन तु भंट्टोजेरप्ययदीक्षित दपि ज्येष्ठत्वं सिध्यति । तच्च श्रुताथैः सह नैव सङ्गच्छते । पुनश्च -
यष्टुं विश्वजिताः यता परिधरं सर्वे बुधाः निजता
भट्टोजिप्रमुखाः स पण्डितजगन्नाथोऽपि निस्तारितः ।
पूर्वेऽधे चरमे द्विसप्ततितमस्याब्दस्य सः विश्वज़िद्
याजीयश्च चिदम्बरे स्वमभजत् ज्योतिः सतां पश्यताम्।।
इति कथनेन अध्यय-भट्ठोजि-जगन्नथिनां सँयुक्तसमानकलिकत्वं सिध्यति । अपि च -
दृप्यद्राविडदुर्ग्रहप्रतिवशाम्लिष्टं गुरुद्रोहिणा
यम्लेच्छेति वचोऽविचिन्त्य सदसि प्रौढेऽपि भट्टोजिना ।
तत् सत्यापितमेव धैर्यनिधिनायेत्स व्यमृद्नात् कुचं
निर्वध्यास्य मनोरमामगंणय॑स्तनिष्फ्याद्यान स्थिताना |' इति कथनेनापि तथैव प्रतिभाति ।
पण्डितराजश्च चित्तमीमांसायाः रेस गङ्गाधरे खण्डनं कराँतीति जैगन्नाथस्य अध्ययदक्षिर्तेन सह सहकालिकत्वं वा तस्य तदुत्तरवर्तित्व सिध्यति । एतेने त्रयाण सिद्धेऽपि सर्मकालिकत्वे कालसमायोजनं नैव सुकरम्। भट्टोजिदीक्षितस्य स्थितिकालः १६९० सङ्ख्याकबैक्रमाब्दान्न कदापि परवर्ती सम्भवति सत्यपि तस्मिम् सुदीर्घायुषि । युधिष्ठिरमहाभागोऽपि पक्षममुर्मनिर्णेयं मन्यते जगन्नाथकालनिरूपणावसरे। तदनुसारेण । अप्पयस्य १५७५-१६५० वैक्रमवत्सरानभितः, भट्टोजेः १५७०-१६५० वैक्रमवर्षांण्यभितः जगन्नाथस्य १५७५-१६९० वैक्रमवत्सरानभितः स्थितिकालं निदिशति । वयन्तु एतन्मन्यामहे तत्र अप्पयस्थितिकालः १६०८-१६८० मैक्रमाब्दाः भट्ठोजिस्थितिकालस्तु १६१०-१६९० वैक्रमाब्दाः जगन्नाथस्य तु १६३०-१७२५ वैक्रमाब्दाः ।
पूर्वंप्रक्रियायामतिगहनविस्तृतत्वादिदोषेण बालव्युत्पादनायोगात् कुमुदानाभियं कौमुदीति व्युत्पत्या तरणिकिरणसहिष्णूनां कुमुदानां चन्द्रिका यथा विकाशमाधत्ते तापं चापयास्यति तद्वदियमलसप्रायाणां व्युत्पत्तिमाधत्ते” इति यथा प्रक्रियाकौमुद्याः प्रयोजनमुक्तं शेषकृष्णेन तथैव लौकिकशब्दसम्बद्धानां : सर्वेषामेव पाणिनीयसूत्राणां प्रक्रियाक्रमेण समावेशनं वैदिकप्रक्रियायां पृथगेव निरूपणञ्च सिद्धान्तकौमुद्याः प्रयोजनं प्रतिमाति । वस्तुतस्तु रूपसिद्धिदृष्टया परमावश्यकानिसुत्राण्येव प्रक्रियाकौमुद्यां सङ्गृहीतान्यासन् ।
नारायणभट्टस्य प्रक्रियार्सर्वस्वम्
सम्पादयतुनारायणभट्टेन केरलदेशनिवासिनी सिद्धान्तकौमुदीप्रत्याख्यानरूपेण प्रक्रिया संर्वस्वं नाम ग्रन्थः प्रणीतोऽस्ति । ग्रंथोऽयं संज्ञाप्ररिंभाषादिक्शतिखण्डेषु विभक्तः । ग्रन्थेऽस्मिन् सवण्येव पाणिनीयसूत्राणि यथाप्रकरणं यथास्थाने सन्निवेशितानि । प्रकरणानां विभागः क्रमश्च सिद्धान्तकौमुद्यापेक्षया भिन्न एव । ग्रन्थोऽयं सरस्वतीकण्ठाभरणमुपजीवति ।
नारायणस्य पितः मातृदत्तः । अस्य हि स्थितिकोलः १६५७१७३३ मितवैक्रमाब्दानभिंतोऽनुमितः । अनेनं हि क्रियाक्रमः, चमत्कारंचिन्तामणिः, धातुकाव्यम्, अपाणिनीयप्रमाणता चेत्याद्यष्टत्रिशद्ग्रन्थाः प्रणीत इति श्रूयते । धातुकाव्यं हि काव्यमालायां प्रकाशितमस्ति ।
प्रक्रियासर्वस्वस्य त्रयो व्याख्याग्रंथास्वत्सम्पादकेन साम्बशात्रिणा निदष्टाः ॥ तत्रैका टीका केरलवर्मदेवप्रणीताऽस्ति । स हि १९०१-१९७१ मितवैक्र - माब्दानभितः स्थितिमान् । प्रक्रियासर्वस्वस्य मुद्रितं संस्करणं प्रकाशिकाभिधया व्याख्यया संयुतं दृश्यते ।
सोमनाथशर्मणः प्रतिसंस्कृता सिद्धान्तकौमुदी
सम्पादयतुनेपालदेशीयेनं पण्डितृराजेन सिग्द्यालोपावेन सोमनाथशर्मंणा महाप्राज्ञ न . सिद्धान्तकौमुदीमावश्यकस्थले प्रतिसंस्कृत्य विशेषविवृत्या च समलङ्कृत्य प्रतिसंस्कृतसिद्धान्तकौमुदीग्रन्थः प्रणितोऽस्ति । पण्डितराजस्यास्य पिता जगन्नाथः-- माता च लक्ष्यभिधा । स्वकीयं वृत्तान्तं स्मरन् पण्डितराज़ो लिखति--
स्वयता मिरिजात्मजः प्रथमतः शान्तिः सुता निर्धेवा।।
दोलाख्या ललिताऽप्यपत्यरहिताशींतेरुपान्ते वयः।
अन्तेंवासिपरम्परास्वभिरुचि सस्नेहमातन्वती ।
विद्यासन्ततितन्तुदीपकविभां पुष्णात्वसौ कौमुदी' इति ।
अनेन हि पण्डितराजेनानेन अशीतेरुपान्ते वयसि ग्रंथोऽयं । प्रणीत इति ज्ञायते । अस्य हि स्थितिकालः १९४०-२०२९ वैक्रमाब्दाः । ग्रंथश्च २०१५ वैक्रमाब्दे पूरितः । ग्रन्थोऽयं पूर्वोत्तराद्ध भागयोविभक्तः । पूर्वार्द्ध हि उपक्रम-वर्णसमाम्नायप्रत्याहार-स्वरभेद-व्यञ्जनभेद-स्थानप्रयत्नसांवय॑संज्ञाविशेष-परिभाषाविधिसन्धि चितुस्क-पदप्रकरण-सुबन्तप्रकरण-सर्वनामप्रकरण - विशेषणप्रकरण-अव्यय-प्रकरण । लिङ्गप्रकरण-स्त्रीप्रत्यय-वचनप्रकरण-विभक्तिप्रकरण-समासप्रकरण-तद्धितप्रकरणेषु । विभक्तः, उत्तरार्द्धश्च तिङन्तकृदन्तप्रकरणयोः । ग्रंथास्यास्योपादेयतामादाय गिरिधरशमचतुर्वेदः स्वकीयविशिष्टसम्मतौ कथयति -
"नेपालभिजनैविद्वत्प्रकाण्डैः श्रीसोमनाथसिग्द्यालमहाशयँ । प्रतिसंस्कृतविशेषविवृतिसहिता वैयाकरणसिद्धान्तकौमुदी बहुषु प्रकरणेषु मयालोचिताअत्र महाविदुषी ग्रन्थकृता मूलस्यापि प्रतिसंस्कारो विहितः, तदुपरि विवृतिरपि च लिखिता। छात्राणां जिज्ञासिता विषय मूल एव संनिवेशिताः, यथा कथं भाषायां उद्गम इति आगममार्गेणारम्भ एव दर्शितं किं नाम संस्कृतभाषायां लिङ्गतत्त्वमिति स्त्रीप्रत्ययारम्भे विभक्तीनां कथं क्रियाभिः सम्बन्ध इति शाब्दबोधप्रकारचे कारकप्रकरणे इत्यादि । अन्यदपि यत्र यत्रापेक्षितम्, तत्रोदाहरणबाहुल्यं मूल एव संनिवेशितम् । प्रक्रियासु च मूलपरिष्कारेः उदाहरणबाहुल्यञ्च विशेषेण, श्रम; कृतः । गणेषु श्रीमता. भट्टोजिदीक्षितेन’ - सर्वोऽपि धातुपाठः संगृहीतः, अत्र तु येषां विरलः प्रयोगः, नैव वा येऽद्यत्वे प्रयुज्यन्ते, ते घातवो निष्कासिताः।
अन्यच्च यद्यत्कृतं तत्सर्वं ग्रंथकृतैव भूमिकायां प्रदशित मिति विज्ञायेतैव पाठकैः । विवृत्तौ च महाभाष्यं मुख्यतयाधारीकृतमु, शास्त्रान्तरीयविषयाश्चापि यथोपयोगं तत्र तत्र विवृताः । मनोरमा-शेखरयोस्त विषयाः क्वचिदेव संग्रहीताः काठिन्यमहातुम् । यद्यपि लोकरुचेविभिन्नता दुष्परिहरा, विचारभेदश्चापि दुनिवार् इति क्वेचन मदीयो विचारभेदः सम्भवत्येव, मदृष्टावुपयोगिनोऽपि च केचन विचारा नात्र संग्रहीता इतिं शक्यते वक्तुम्, तथापि सोऽयं प्रतिसंस्कारः समयोपयोगी, बहुपरिवंमसाध्यश्चेति निव्र्याजं हृदयेन ब्रवीमि । इति । अयं हि प्रक्रियाक्रमे नवीनः प्रयोगः । यद्यप्यस्य प्रचारः सीमित एव तथाप्यस्योपयोगित्वं तु नैव प्रत्याख्यातुं शक्यते। उपयोगिता हि वस्तुन आत्मगुणः प्रयोगस्तुं प्रयोक्त्रधीन एव । मणलूरवीरराघवाचार्याख्येन विदुषा सिद्धान्तकौमुदीमाधारीकृत्य । पाणिनीयसूत्राणां सोदाहरणश्लोका व्याख्या प्रणीताऽस्ति। प्रयोगपरिज्ञानाय ग्रंथोऽयं नितान्तमेवोपयोगीति युधिष्ठिरमहाभागमतम् ।।
विश्वेश्वरभट्टः
सम्पादयतुलक्ष्मीधरसूनुना विश्वेश्वरेण वैयाकरणसिद्धान्तसुधानिधिनामको व्याकरणदर्शनसम्पुटितोऽष्टाध्यायीविवरणात्मको ग्रंथः प्रणीतोऽस्ति । स च सम्प्रति चतुर्थाध्यायस्य प्रथमपादसमाप्तिपर्यन्तमेवोपलभ्यते मुद्रितम् । अन्ते च से कथयति -
सविद्वत्पदवाक्यमाननिगमाकुपारपारङ्गतः ।
श्रीलक्ष्मीधरलब्धबोधजनुषा विश्वेश्वरेणोदिते ।
श्रीसिद्धान्तसुधानिधौ सुधिगणैरध्यायमध्यायजं।
ध्यायं ध्यायमिहाभिधेयमधुना शोधाय धीयताम् ।।
अत्र हि पदार्थचर्चाऽनुसूता दृश्यते ।
विप्रराजेन्द्रस्य शब्दाङ्करः
सम्पादयतुविप्रराजेन्द्रांऽऽख्येन विदुषाः सङ्गृहीतोऽर्भकाञ्जमव्याख्यासहितः शब्दाकुप्ति प्रकरणेऽस्मिन् स्मर्तव्यः । लघुग्रन्थोऽयं छात्राणामुपकारकः ।
इन्द्रदत्तोपाध्यायस्य फक्किकाप्रकाशः
सम्पादयतुगर्गवंशावतंसेन उपाध्यायोपनांमकेन इन्द्रदत्तेन फक्किकांप्रकाशनामको ग्रंथः प्रणतोऽस्ति । अत्र हिं सिंद्धान्तकौमुदीगढफक्किकार्थः प्रकाशितोऽस्ति । ग्रन्थोऽयं कोरकप्रकरणान्त एव मुद्रितो दृश्यते ।
वरदराजः मध्यसिद्धान्तकौमुदी
सम्पादयतुभट्टोजिदीक्षितशिष्येण वरदराजाख्येन विदुषा सिद्धान्तकौमुद्या एव सारसङ्क्षेपंरूपेण मध्यसिद्धान्तकौमुदी नाम प्रक्रियाग्रंथः प्रणीतोऽस्ति । लघुकलेवराऽप्येषा समासतः सिद्धान्तकौमुदीसम्भवं समस्तं ज्ञानं समुद्भावयति । नाऽत्र. हि वरदराजस्य सम्पादनमात्रत्वं चिन्त्यं तथामते सेति तु भट्टोजिदीक्षितस्याप्ति न ग्रंथकर्तुं कत्वं तेनाऽपि महाभाष्यतः सिद्धान्तान् सङ्कलय्य सम्पादितत्वात् । यथैव भट्टी जिदीक्षितेन स्वपूर्ववर्तग्रन्थेभ्यः स्वरूपं सारश्चादाय विस्तृतरूपेण . सिद्धान्तकौमुदी सम्पादिता तथैव वरदराजेन नितान्तावश्यकशब्दसाधनमात्रावश्यकसिद्धान्तास्तेभ्य एवादाय मध्यकौमुदी प्रणीतेति वरदराजस्पापि ग्रन्थऋतृकत्वं सिद्धयति । तेन ह्यस्य वैलक्षण्यं । सिद्धान्तकौमुदीतोऽस्त्येव । मध्य
सिद्धान्तकौमुद्यां हि सिंद्धान्तकौमुदीतंः प्रकरणविपर्यासों दृश्यते सोऽपि सहेतुक... स्तर्कसम्मतश्च । सिद्धान्तकौमुद्यां हिः अव्ययप्रकरणानन्तरं स्त्रीप्रत्यय-कारक-समास-तद्धितानां तदनु तिङन्तस्य संयोजना दृश्यते । तद्विपरीतं मध्यकौमुद्यां | तु अव्ययानन्तरं तिङन्तकृदन्तसंयोजनं तदनन्तरमेव कारकसमासतद्धितस्त्री. प्रत्ययप्रकरर्णानां सन्निवेशः । तथा संयोजनेऽयमेव हेतुतिंङन्तस्य ज्ञानं विना | अंकथितञ्च कतृ करणयीस्तृतीया' प्रभृतिसूत्राणां बोधो दुष्करः। कारकस्य क्रियान्वयित्वात्प्रथमं क्रियाविवेक एवावश्यकः। न केवलं कारकाणामपितु समासस्यापि तिङन्तानुर्वातत्वं सिध्यति यतस्तिङन्तज्ञानं विनो उपपदमतिङ् कुगतिप्रादयः” ककरणे कृता बहुलम्' इत्यादिसूत्रविषयस्य कुतो ज्ञानम् । एवमेव 'कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः' 'तिङश्च' 'प्रभृतिसूत्राण्येव तद्धितस्य तिङन्तकृदन्तोत्तरस्थितिं ज्ञापयन्ति । तथैव ‘द्विगोः' टिड्ढाणम्' प्रभृतिसूत्राणि बालबोधिनी व्याख्या, नारायणदत्तस्य टिप्पणी, पदमप्रसादस्य सुबोधिनी टीका च समुपलभ्यन्ते ।
वरदराजस्य सारकौमुदी, गीर्वाणपदमञ्जरी चापि व्याकरण विषयकग्रन्थौ । अस्य हि स्थितिकालः १६५०-१६२० मितवैक्रमाव्दानभितोऽनुमितः।तथैव भट्टोजिदीक्षितस्य शिष्येष्वन्यतमेन नीलकण्ठेन प्रणीता ‘शब्दविद्या अपि स्मर्तव्यो । व्याकरणसम्बद्धोऽयं ग्रन्थः प्रक्रियादर्शनस्य व्याख्याता । । एकञ्च शशिदेवविरचिता व्याख्यानप्रक्रिया व्याकरणस्य दार्शनिकमपि पक्ष स्पृशति । हरिकृष्णस्य 'निपातोपसर्गद्योतकवाचकत्वविचारः' प्रसङ्ग ऽस्मिन् विचारणीयो ग्रन्थः । तारानाथतर्कवाचस्पतिभट्टाचार्यस्य 'शब्दार्थ रत्नम् च प्रकरणेऽस्मिन् समुल्लेखनीयो ग्रन्थः ।
भट्टोजिदीक्षितस्य वैयाकरणकारिकाव्याख्यानरूपं तंदीयभ्रातुष्पुत्रेण श्रीमती कौण्डभन प्रणीतं वैयाकरणभूषणं तस्यैव साररूपो वैयाकरणभूषणसारश्चं प्रकरणेऽस्मिन् सर्वातिशायित्वेन स्मर्येते। सारे हि हरि बल्लभस्य भूषणसारदर्पणः, कृष्णमित्रस्य सारव्याख्या, हरिरामस्य काशिका, वनमालिनो वैयाकरणमंतोन्मज्जिनी, गोपालशास्त्रिणः सरला, श्रीरामप्रसादत्रिपाठिनः सुबोधिनी, वालकृष्णपञ्चोलिनः प्रभा, अज्ञातकर्तृका शाङ्करी, अनिर्णीतकर्तृ का कान्तिश्च कतिपयाः प्रसिद्धष्टीकाः सन्ति । वैयाकरणभूषणे हि मनुदेवभट्टाचार्यस्य' टिप्पणी परिशिष्टात्मिका 'रूपाली' च प्रसिद्धा।
एवं हि भवानन्दस्य कारकचक्र माधवप्रणीतमाधवीटीकोपेतं, चारुदेवशास्त्रिणः ‘शब्दापशब्दविवेक' 'रामाज्ञापाण्डेयस्य व्याकरणदर्शनभूमिका भागीरथप्रसादत्रिपाठिनो ‘धात्वर्थविज्ञानं' गोकुलनाथोपाध्यायस्य 'पदवाक्यरत्नाकरः' यदुनाथमिश्रप्रणीतगूढार्थदीपिकासंवलितश्चेतिप्रभृतयो ज्ञाता अज्ञाताश्चान्ये बहवो ग्रन्थाः परम्परामिमां पुष्णन्ति ।