व्याकरणभाष्यकाराः इत्युक्ते पाणिनेः व्याकरणशास्त्रम् आधारीकृत्य ये पण्डिताः स्वभाष्याणि अरचयन्, ते। महाभाष्यकारः तु पतञ्जलिः एव। परन्तु अन्ये अनेके वैय्याकरणाः पाणिनेः व्याकरणशास्त्रे स्वभाष्यम् अरचयन्। तेषु भर्तृहरिः, कैय्यटः, नागेशभट्टादयः प्रसिद्धाः।

पतञ्जलिः

सम्पादयतु
मुख्यलेखः : पतञ्जलिः

पटञ्जलिः पाणिनिना लिखिते व्याकरणे महाभाष्यम् अरचयत्। मूलतन्त्रे भाष्यसूत्राणि चांदायोनेके भाष्यग्रन्थाः प्रणीता आसन् येषां स्वरूप । तु सम्प्रति नैवोपर्लम्यते किन्तुं तेषामस्तित्वं महाभाष्यस्मरणाज्ज्ञायते । महाभाष्यं हि मूलतन्त्रवतर्कसूत्राण्यांधृत्य प्रणींतो महाग्रन्थों यस्य प्रवक्ता पतञ्जलिं हिं भगवान् । उक्तमेव -

वाक्यकारं वरुचि भाष्यकार पतञ्जलिम्।

पाणिनि सूत्रकारञ्च'•••••••••••। इति ।

भाष्यलक्षणञ्च यथा -

सूत्रार्थो वय॑तेः यत्र वाक्यैः सूत्रानुसारिभिः ।

स्वपदानि च वन्दन्ते भाष्यं भाष्यविदो विदुः ॥

भतृहरिः

सम्पादयतु
मुख्यलेखः : भर्तृहरिः

यद्यपि भतृ हरेः पूर्वमप्येनेकैविपश्चिदभिर्महाभाष्यस्य व्याख्याग्रन्था विरचिता इति तदुद्धरणादेव ज्ञायते किन्तु के च ते इति नैव ज्ञातमस्माकम् । भतृहरिः स्वयमेवापि तान्ः एके, अपरे, केचिदित्यादिसामान्यपदैरुद्धरति । तेन ज्ञातनामसु महाभाष्यव्याख्यातृषु भतृहरिरेव प्रथमः । भर्तृहरिणाऽपि पूर्वाचार्य।, समानमेव स्वविषये नैव किञ्चिदप्युक्तम् । केचिदमुं विक्रमादित्यस्य सहोदरं भ्रातरं मन्यन्ते। इत्सिङ्गस्त, तं सप्तमशतकीनं मन्यते । केचिदमुं-पतञ्जलि. शिष्यमपि कथयन्ति । युधिष्ठिरमहाभागेन हिं भर्तृहरेः - स्थितिकालनिर्धारणाय अष्टाभिदीर्घपृष्ठे: महान् प्रयासः कृतः । वयन्तु तेषामेव सारग्राहिणः । सो मान्यतो वयमपि एकाधिकभर्तृहयुपस्थिति मन्यामहे संस्कृतसाहित्ये।

महाभाष्यदीपिका-वाक्यपदीयं-तट्ट्टीका-भट्टिकाव्य-भागवृत्ति-शतकत्रय--मीमांसा भाष्य-वेदान्तसूत्रवृत्ति-शब्दधातुसमीक्षा-षष्ठीश्रावीवृत्तिश्च ति भर्तृहरिप्रणीतत्वेने प्रसिद्धा ग्रन्थाः । एषामेकभर्तृहरिकर्तृकत्वं वा एकाधिकभर्तृहरिकर्तृकत्वंञ्चेति । निर्णयोऽपि नैव सुकरः । सामान्यतो भागवृत्तेः भट्टिकाव्यस्य प्रणयनं तु निश्चयमेव भिन्नकर्तृ कमेव । सामान्यतो महाभाष्यदीपिका-वाक्यपदीय-तट्टीकादिग्रन्थप्रणेता एको भर्तृहरिः, अपरश्च भट्टिकाव्यकर्ता भागवृत्तिकृदन्यः शतकत्रयप्रणेताऽन्यः, शेषग्रन्थौघकृदन्य इत्यनेके भतृहरयः स्मृताः । केचित्तु तेषामैक्यमपि समर्थः यन्ति । प्रासंङ्गिको महाभाष्यदीपिकाक़द्भर्तृहरिस्तु विक्रमसमकालिको वा तत्पूर्ववर्त्यपि । शतपथव्यांख्याकारो हरिस्वामी ‘अन्ये तु शव्दब्रह्म वेदं विवर्तते अर्थ भावेन प्रक्रिया इत्यत आहुः ‘इति कथनेन वाक्यपदीयस्य विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः' इति पद्यमुल्लिखंति इति तत्कर्ता हरिस्वामिपूर्ववर्ती सिध्यति । हरिस्वामी च विक्रमार्कस्य धर्माध्यक्षः ३०४७ कलिगतवर्षेषु व्याख्यां कृतवानिति तस्यैव

श्रीमतोऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः ।

धर्माध्यक्षो हरिस्वामी व्याख्याच्छातपथीं श्रुतिम् ।

यदाब्दानां कलेर्जग्मुः सप्त त्रिशच्छतानि वै ।

चत्वारिंशत्समश्चान्यास्तदा भाष्यमिदं कृतम् ।। " इति कथनेन सिध्यति ।

अपरञ्च, हरिस्वामी ‘अथवा सूत्राणि यथा विध्युदेश इति प्राभाकराः-अपः-प्रणयतीति यथा' इति प्रभाकरं स्मरति । प्रभाकरस्य गुरुः कुमारिलः तन्त्रवातिके वाक्यपदीयगतं तत्वावबोधशब्दानां नास्ति । व्याकरणादृते' इति वचनमुद्धृत्य' तदूपरसगन्धेष्वपि वक्तव्यमासीदिति खण्डपति :: कुमारिलश्च भट्टो विक्रमपूर्ववर्तीति संम्मतमेव । तत्पूर्ववर्ती एव भतृहरिरिति । तस्य प्राचीनत्वम् । अस्य हि विदुषो महाकाव्यदीपिका प्रामाणिको अन्थः । ग्रन्थोऽयं प्रथमं बासुदेवशरणाख्येन विदुषा प्राकाश्यं नीतः । तदस्य महापुरुषस्य न केवलं स्थितिकाल एवापितु तस्य जन्मस्थानविषयोऽपि नैव ज्ञातोऽस्माकम् । एतदनुमीयते । यत्काश्मीरकैर्जयादित्यवानांदिभिः प्रथमं नाम्नां स्मृतत्वात् ।

तथैव काश्मीरकाभ्यामेव हेलाराजपुण्यराजाभ्यां वाख्यपदीयस्य व्याख्यानात् । काश्मीरकैरेव सोमानन्दोत्पलाचार्यप्रभृतिशैवमताचार्यैर्वाक्यपदीयस्योद्धरणात्ततोऽपि महाभाष्यस्य प्रायः काश्मीरेष्वेवोपलब्धेश्च भर्तृहरिरपि काश्मीर एवेति । केचित्तु वर्तमानचुनारदुर्गं भर्तृहरेदुर्गत्वेन गृह्णन्ति । यदि स विक्रमातुजस्तदा तेन अवन्तिवासिना भाव्यमेव । विवादेऽस्मिन्नैकोऽपि पक्षः प्रामाणिकरूपेणॉपस्थितः। स चेत्काश्मीरकोऽभविष्यत्तदा कह्नणस्तमवश्यमेवाऽस्मरिध्यतु । तथापि तस्य काश्मीरकत्वे एव पण्डिताः समाश्वस्ता दृश्यन्ते । सम्प्रति महाभाष्यदीपिका त्रिपाद्येवोपलब्धा। किन्तु कतिपर्वग्रन्थान्तरोद्धरणैज्ञयते यत्सा महाभाष्यव्यापिन्येवाऽऽसीदिति । भाष्यदीपिकामेवानुजीवति कैयटः ।

मुख्यलेखः : कैय्यटः

कैय्यटोऽपरो महाभाष्यव्याख्याकृद्विचक्षणः। स हि काश्मीर इति तु नाम्नैव । प्रतीयते । प्रदीपपुष्पिकातो ज्ञायते यत्तस्य पिता जैयटः । तस्यापि कालोअनिश्चित एव । तं हरदत्तः ‘यद्वा प्रतिपरसमनुभ्योऽक्ष्ण इति टच समासान्तः । इति कथनस्य'.अन्ये तु. प्रतिसरसमनुभ्योऽक्ष्ण इति शरत्प्रभृतिषु पाठात् टच्: समासात इत्याहुः।' इति कैथनेनोद्धरति । तथैव हे त्रपु हे अपो इति- हे त्रपु. इति प्राप्ते हे पो भवतीत्यर्थः । इति कैयटवाक्यं हरदत्तः 'हे त्रप्विति प्राप्ते । है त्रप इति भवतीति भाष्यं व्याचक्षाणा नित्यमेव गुणमिच्छन्ति' इति । समुद्धरति । अनेन च कैयटस्यै हरदत्तपूर्ववतत्वं सिध्यति । मैत्रेयरक्षितश्च धेर्मकीर्तेः रूपावतारं स्मरति । धर्मकीर्तिश्च पदमञ्जरीमितिः शृङ्खलयाः सर्वान् । संयोज्यं । युधिष्ठिरमीमांसक एकां प्रामाणिक समयतालिकामुपस्थापयति । यथा--

सर्वानन्दः टीकासर्वस्वम् १२१५ वै०
मैत्रेयरक्षितः धातुप्रदीपः ११६५ वै०
धर्मकीतिः रूपावतारः ११४० वै०
हरदत्तः पदमञ्जरी १११५ वै०
कैयटः महाभाष्यप्रदीपः ११९० वै०

तेन हि कैयटो न्यूनतममपि वैकमैकादशशतकात्पूर्ववत्यैव सम्भवति से ततोऽपि प्राचीनतरः । कैयटो हि भाष्यव्याख्यायां भर्तृहरिमुपजीवति । स स्वयमेव कथयति -

तथापि हरिबर्द्धन सारेण ग्रन्थसेतुना।

क्रममाणः शनैः पारं तस्य प्राप्तास्मि पङ्गुवत्' इति ।

तस्य गुरुर्महेश्वरो नाम । यथा तेनैवोक्त -

पदवाक्यप्रमाणानां पारं यातस्य धीमतः ।

गुरोर्महेश्वरस्यापि कृत्वा चरणवन्दनम् ।। इति ।

स एवाग्रे कथयति–कैयटो जयटात्मजः इति । सत्यमेव भाष्यप्रदीपो हि महाभाष्यार्णवतरणिः केवलः स एव भाष्यमर्मज्ञानाय सम्प्रति समुंपलब्धो ग्रन्थः ।

महाभाष्यप्रदीपस्यानेकैविचक्षणैः व्याख्या कृता । तेषु हि. चिन्तामणिः, मङ्गलयज्वा, रामचन्द्रसरस्वतिः, ईश्वरानन्द सरस्वतिः, अन्नम्भट्टः, नारायण रामसेवकः, नारायणशास्त्री, नागेशभट्टः, प्रवर्तकोपाध्यायः आदेन्नः सर्वेश्वर, ... हरिरामः, गुरुप्रसादशास्त्री च प्रसिद्धाः । व्याख्याग्रन्थाश्च चिन्तामणे: (१५०० । १५५० वै०) महाभाष्यकैयटप्रकाशः, मङ्गलयज्वनः (१५२५ वै०)कैरोट, टिप्पणी, रामचन्द्रस्य (१५२५-१६.०० वै०) कैयटविवरणम्, ईश्वरानन्दस्य ( १५५०-१६०० वै० ) महाभाष्यप्रदीपविवरणम्, अन्नम्भट्टस्य (१५५०= १६०० वै०) प्रदीपोद्द्योतनम्, नारायणस्य (१६५४ वै०) प्रदीपविवरणम्, रामसेवकस्य (१६५०-१७०० वै०) महाभाष्यप्रदीपव्याख्या, नारायणस्य (१७१०-१७३० वै०) महाभाष्यप्रदीपव्याख्या, प्रवर्तकोपध्यायस्य (१६५ p= १७०० वै०') महाभाष्यप्रदीपप्रकाशिका, नागेशभट्टस्य (१७३०-१८१० वै०) प्रदीपोद्द्योतः, आदेन्नस्य ‘महाभाष्यप्रदीपस्फूतिः सर्वेश्वरस्यापि महाभाष्य! प्रदीपस्फूतिः हरिरामस्य महाभाष्यप्रदीपव्याख्या, गुरुप्रसादशास्त्रिणः राजलक्ष्मीश्न प्रसिद्धाः। तेष्वपि नागेशभट्टस्ये उद्योतो गुरुप्रसादस्य राजलक्ष्मीश्य सम्प्रति सुलभैः शेषस्तु पुस्तकालयेष्वेव ।

नागेशभट्टः

सम्पादयतु
मुख्यलेखः : नागेशभट्टः

नागेशभट्टो हि नव्यवैयाकरणेषु मूर्धन्यः । तस्य हि महाभाष्यप्रदीपोद्योतो नितान्त प्रौढः प्राञ्जलश्च ग्रन्थः । | नागेशो हि महाराष्ट्रिय ब्राह्मणः । तस्य पिता शिवभट्टों माता च सतीदेवी। हरिदीक्षितस्तस्य गुरुर्वैद्यनाथश्च प्रधानशिष्यः । वैक्रमानन्तर १७३०-१८१० मितवर्षांण्यभितस्तस्य स्थितिकालः । स हि शृङ्गवेरपुराधीशाश्रितः पण्डितः । स हि स्वयमेव कथयति ।

पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः ।

शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः ।

याचकानां कल्पतरोररिकक्षहुताशनात् ।

शृङ्गवेरपुराधीशाद् रामतो लब्धजीविकः । इति ।।

एवञ्च उद्द्योतारम्भे स कथयति -

नाविस्तीर्णं न विस्तीर्ण मध्यानामपि बोधकृत् ।

भाष्यप्रदीपव्याख्यानं कुर्वेऽहं तु यथामति ।।

एतदतिरिक्तमपि नागेशस्य लघुशब्देन्दुशेखर-बृहच्छब्देन्दुशेखर-परिभाषेन्दुशेखर-लघुमजुषा-परमलधुमञ्जुषा-वैयाकरणसिद्धान्तमजुषा--स्फोटवाद-महाभाष्यप्रत्याख्यानसंग्रहप्रभृतयो ग्रन्थाः सम्प्रति समुपलब्धाः प्रसिद्धाश्च । तस्य हिं प्रदीपोद्योतोपरि वैद्यनाथस्य छायानाम्नी टीका प्रसिद्धा । तथैव गुरुप्रसादशास्त्रिणः राजलक्ष्मी नाम्नी टीका च ।

गुरुप्रसादशास्त्री

सम्पादयतु

गुरुप्रसादशास्त्री हि सिद्धवैयाकरणः । तेन हि प्रदीपोद्योतावधिकृत्य राजलक्ष्मी नाम्नी टीका प्रणीताऽस्ति । स हि स्नेहिरामशिष्य इति तस्यैव मङ्गलपद्यतो ज्ञायते । व्याख्येयं खण्डिता. दृश्यते । वाणीविलासप्रकाशनतः पुनर्मुद्रिते महाभाष्ये टीकेयं, नवमाह्निक पर्यन्तमेव मुद्रिता । तदनन्तरं तु केवलं टिप्पण्येव दृश्यते । गुरुप्रसादस्य हि अष्टाध्याय्यां सरला टीका च प्रकाशिताऽस्ति । स हि स्नेहिरामस्य पौत्रः, शिवनारायणस्य पुत्रः व्याख्यासमापन कालश्च १९९६ वैक्रमाब्दाः । एवमेव ज्येष्ठकलशाख्येन विह्लणतातेनापि महाभाष्योपरि व्याख्याग्रन्थः । प्रणीत इति श्रूयते किन्तु तद्विषये न किमपि ज्ञातंमस्माकम् । स हि १०८५११३५ वैक्रमाब्दभवः ।

मैत्रेयरक्षितेनाऽपि (११४५-११७५ वै०) महाभाष्यस्य ब्याख्या कृतेति सीरदेवकृतोद्धरणतो ज्ञायते । तद्विषषे न किमपि ज्ञातमस्माकम् । पुरुषोत्तमदेवेनापि ( १२०० वै० ) महाभाष्योपरि , प्राणपणा नाम्नी व्याख्या कृताऽस्तीति ग्रन्थान्तरतो ज्ञायते । तस्य च भाषावृत्तिः कुण्डलीव्याख्यानं, कारककारिका, दुर्घटवृत्तिः, परिभाषावृत्तिः, ज्ञापकसमुच्चयः, उगादिवृत्तिः कारकचक्रञ्चति ग्रन्थाः प्रसिद्धाः ।

महाभाष्यस्य पुरुषोत्तमकृतवृत्तेः शङ्कराख्येन विदुषा व्याख्या लिखिता तस्याश्च मणिकण्ठेन टीका कृता । : । तथैव धनेश्वरेण (१२५०-१३०० वै०) चिन्तामणिनाम्नी टीका कृताऽऽसीत् । असौ हि वोपदेवस्य गुरुः । शेषनारायणस्य (१५१०-१५५० वै०) सूक्तिरत्नाकरनाम्नी महाभाष्य • व्याख्याऽप्यस्तीति युधिष्ठिरलेखतो ज्ञायते । विष्णुर्मिश्राऽऽख्येन विदुषा (१६०० वै०) क्षीरोदनामक टिप्पणं कृतमासीदिति ‘तदिदं सर्वं क्षीरोदाख्ये त्रैलिङ्गतार्किकविष्णुमिश्रविरचिते महाभाष्य टिप्पणे 'स्पष्टम्' इति शिवरामेन्द्रकथनतो ज्ञायते । शब्दकौस्तुभे च[] स स्मृतः।

१६००-१६७५ वैक्रमाब्देषु स्थितिमता नीलकण्ठेन भाष्यतत्वविवेकाख्या महाभाष्यस्य टीका प्रणीताऽस्ति । तस्य हि पाणिनीयदीपिका, परिभाषावृत्तिः सिद्धान्तकौमुद्याः सुखबोधिनीटीका, गूढार्थदीपिका च कृतित्वेन प्रसिद्धाः । शेषविष्णुना ( १६००-१६५० वै० ) अपि महाभाष्यप्रकाशिको नाम्नी महाभाष्यव्याख्या प्रणीतेति श्रूयते । तिरुमलाख्येन (१५५० वैः ) पण्डितेनाऽपि अनुपदानाम्नी महाभाष्यव्याख्या कृताऽस्ति । गोफालकृष्णाख्येन (१६५०-१७०० वै०) महाभाष्योपरि शाब्दिकचिन्तामणिनाम्नी टीका प्रणीतेति युधिष्ठिरमहाभागलेखतो ज्ञायते ।

शिवरामेन्द्रसरस्वतिः

सम्पादयतु

हरिहरेन्द्र भगवत्पूज्यपादशिष्येण -१६७५-१७५० वैक्रमादेषु स्थितिमताश्रीमती शिवरामेन्द्रसरस्वतिना यतिना 'सिद्धान्तरत्नप्रकाशनाम्नी महाभाष्यस्य सरला सुबोधां च व्याख्या प्रणीताऽस्ति । एषा हि सम्पूर्ण महाभाष्यव्यापिका । । अस्य हि कैयटवचनानि पदे पदे खण्डितानि दृश्यन्ते तन्माध्यमेन भतृहरेरपि ।। स हि विष्णुमित्रस्य क्षीरोदव्याख्यानं, सिद्धान्तकौमुदीं शब्दकौस्तुभं, चोद्धृत्य दूषयति यत्र कुंत्र । ग्रन्थोऽयं १७०१ मितवैक्रमाब्दे सम्पूर्ण आसीत्।

प्रयागवेङ्कटांद्रिनामंकपण्डितेन महाभाष्यस्य विद्वन्मुखेभूषणः नाम्नी व्याख्या प्रणीतांऽस्ति । कुमारतातयेन वैक्रमसप्तदशशतकभवेन महाभाष्योपरि व्याख्याग्रन्थः प्रणीत आसीदिति श्रूयते । सत्यप्रिंयतीर्थस्वामिनाऽपि महाभाष्यविवरणं १७९४-१८०१ वर्षेषु वैक्रमेषु । प्रणीतमिति ज्ञायते । राजनृसिंहाख्येन विपश्चिताऽपि महाभाष्यस्य शब्दबृहती' नाम्नी टीका प्रणीताऽऽसीदिति श्रूयते ।

नारायणः

सम्पादयतु

नारायणाख्येन केनचिद्विदुषा महाभाष्यविवरणनामको महाभाष्यव्याख्याअर्थः प्रणीतोऽस्ति । तस्य च हस्तलेखो नेपालस्य राष्ट्रियाभिलेखालये विद्यत इति श्रूयते । ग्रन्थोऽयं तत्र सूचीपत्रकस्य द्वितीये भागे २११ पृष्ठेऽभिलिखितोऽस्तीत्यपि युधिष्ठिरमहाशयानुशासनतो ज्ञायते ।। . सर्वेश्वराख्येने विपश्चिताऽपि महाभाष्यस्य महाभाष्यस्फूति नाम्नी’व्याख्या प्रणीतेति श्रूयते ।

नीलकण्ठपुत्रेण कमलाकरदीक्षितशिष्येण सदाशिवाल्येन विदुषा १७२३ मित वैक्रमाब्दे महाभाष्यस्य गूढार्थदीपिनीनाम्नी टीका प्रणीतेति ज्ञायते। गजेन्द्रगढनिवासिना राघवेन्द्राचार्येण महाभाष्यव्याख्या विरचिताऽऽसीदिति श्रूयते । धर्मपुरीवास्तव्येन नरसिंहाचार्येणाऽपि शाब्दिककण्ठमणिनाम्नी महाभाष्यव्याख्या प्रणीतेत्यपि श्रूयते । एते चान्या अज्ञाताश्च कतिपये व्याख्याग्रन्था महाभाष्यमधिकृत्ये प्रणीताः सन्ति।

व्याकरणपरम्परायां पाणिनिह भगवान् सूत्रकारः, कात्यायनो हि भगवान् वाक्यकारः, पतञ्जलिह भगवान् पदकार इति स्मृताः । तदतिरिक्तमेपि. अनुपदकारः पदशेषकारश्च तत्र तत्र स्मृतौ दृश्येते । एतदनुमीयते यदनुपदे ग्रन्थौ हि महाभाष्यानन्तरप्रणीतः सम्भवति पदशब्देन भाष्यस्यैव बोधनम्त्, तथैव पैदशेषग्रन्थो हि महाभाष्यावशिष्टविषयप्रतिपादके एव। कोऽसौ अनुपदकासेवा पदशेषकार इति तु नैव ज्ञातमधुनाऽपि एतदपि नैव ज्ञातं यदुभावेव ग्रन्थौ एकस्यैव कृती वा पृथक्पृथक्प्रणेतुरिति । पदमञ्जर्यां[] 'पदशेषो , ग्रन्थविशेषः' इत्येतावदेवोक्तम् । अनुपदकारस्योल्लेखो यथा -

एवञ्च युवानमाख्यत् अचीकलदित्यादिप्रयोगोऽनुपदकारेण नेष्यत इति । लक्ष्यते' ( तन्त्रप्रदीपे )।

'प्रेण्वनमिति अनुपदकारेणानुम उदाहरणमुपन्यस्तम् । - ( दुर्घटवृत्तौ )

एवमेव पदशेषकारश्च काशिकावृत्तौ स्मृतः । यथा--

‘पदशेषकारस्य पुनरिदं दर्शनम्---गम्युपलक्षणार्थं परस्मैपदग्रहण परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्येडू भवति ।[]

'अत एव भाष्यवातिकविरोधात् ‘गमेरिट्' इत्यत्र परस्मैपदग्रहणं गम्युपलक्षणार्थम् । परस्मैपदेषु यो गमिनदष्टः इति पदशेषकारदर्शनमुपेक्ष्यम् ।'

(माधवीयधातुवृत्तौ) ।

‘‘पदशेषकारस्तु शब्दाध्याहारं शेषमिति वदति ।' (भाष्यव्याख्याप्रपञ्च )

भाष्यव्याख्याप्रपञ्चो हि पुरुषोत्तमदेवस्य महाभाष्यलघुवृत्तेव्र्याख्याग्रन्थः । तत्रापि पदशेषकारस्योल्लेखात् पदशेषग्रन्यो वैक्र मत्रयोदशशतकपर्यन्तमप्युपलभ्य आसीदिति ज्ञायते ।

तयोश्च निम्नक कत्वमेव न्याय्यं दृश्यते ।

एतदतिरिक्तमपि हेलाराज़-राघवसूरि-राजरुद्रादिभिरपि वातकव्याख्यानाय प्रयासः कृतः । तत्र हेलाराजेंन वातकोन्मेषनामको वातकव्याख्यापरको ग्रन्थः प्राणायि । तथैव राघवेन्द्रसूरेः अर्थ प्रकाशिकाऽऽख्यो ग्रन्थः, राज रुद्रस्य च अलोकंवातकव्याख्या कीर्तिता । ते हि सम्प्रत्यपि पुस्तकालयेष्वेव हस्तलेखरूपेण सन्ति यत्र कुत्र।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भः

सम्पादयतु
  1. १॥१॥८
  2. ७/२/६८
  3. ७/२।५८
"https://sa.wikipedia.org/w/index.php?title=व्याकरणभाष्यकाराः&oldid=446959" इत्यस्माद् प्रतिप्राप्तम्