अहं क्रतुरहं यज्ञः...

भगवद्गीतायाः श्लोकः ९.१६


श्लोकः सम्पादयतु

 
गीतोपदेशः
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः सम्पादयतु

अहं क्रतुः अहं यज्ञः स्वधा अहम् अहम् औषधम् मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहं हुतम् ॥ १६ ॥

अन्वयः सम्पादयतु

अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहम् औषधम्, अहं मन्त्रः, अहम् आज्यम्, अहम् अग्निः, अहमेव हुतम् ।

शब्दार्थः सम्पादयतु

अहं क्रतुः = अहं वेदोक्तः यज्ञः
अहं यज्ञः = अहं स्मार्तः यज्ञः
अहं स्वधा = अहं पितृभ्यः प्रदेयमन्नम्
अहम् औषधम् = अहं भेषजम्
अहं मन्त्रः = अहं वेदमन्त्रः
अहम् आज्यम् = अहं घृतम्
अहम् अग्निः = अहम् अनलः
अहमेव हुतम् = हवनकर्म अहमेव ।

अर्थः सम्पादयतु

अहं श्रौतयज्ञः, स्मार्तयज्ञः, पितृभ्यो देयं हविः, औषधम्, मन्त्रः, आज्यम्, हविश्चेति सर्वमपि अस्मि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अहं_क्रतुरहं_यज्ञः...&oldid=418447" इत्यस्माद् प्रतिप्राप्तम्