अहमदनगरमण्डलं (मराठी: अहमदनगर जिल्हा, आङ्ग्ल: Ahmednagar District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अहमदनगर इत्येतन्नगरम् । अस्मिन् मण्डले शिर्डी नामकं प्रसिद्धं साई-बाबा समाधिस्थलम् अस्ति |

अहमदनगरमण्डलम्

Ahmednagar district

अहमदनगर जिल्हा
मण्डलम्
'महाराष्ट्रराज्ये अहमदनगरमण्डलम्
'महाराष्ट्रराज्ये अहमदनगरमण्डलम्
देशः  India
जिल्हा अहमदनगरमण्डलम्
उपमण्डलानि अकोला, जामखेड, कर्जत, कोपरगाव, अहमदनगर, नेवासे, पारनेर, पाथर्डि, राहता, राहुरी, सङ्गमनेर, शेवगाव, श्रिगोन्दा, श्रीरामपुर
विस्तारः १७,४१३ च.कि.मी.
जनसङ्ख्या(२०११) ४५,४३,१५९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://ahmednagar.nic.in
चान्द बिबि महल
चान्द बिबि महल
अहमदनगर दुर्गः
अहमदनगर दुर्गः

भौगोलिकम् सम्पादयतु

अहमदनगरमण्डलस्य विस्तारः १७,०४८ चतुरस्रकिलोमीटर्मितः अस्ति । क्षेत्रफलदृष्ट्या मण्डलमिदं महाराष्ट्रराज्ये प्रथमस्थाने विद्यते । मण्डलमिदं महाराष्ट्रराज्यस्य मध्यभागे वर्तते । अस्य मण्डलस्य पूर्वदिशि बीडमण्डलम्, उस्मानाबादमण्डलं च, पश्चिमदिशि पुणेमण्डलं, ठाणेमण्डलं च, उत्तरदिशि नाशिकमण्डलम्, औरङ्गाबादमण्डलं च, दक्षिणदिशि सोलापुरमण्डलम् अस्ति । अस्मिन् मण्डले ५०१.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् उष्ण-शुष्कवातावरम् भवति । अत्र प्रवहन्त्यः मुख्याः नद्यः गोदावरी, भीमा, सीना, मुळा, प्रवरा च सन्ति । अकोला-सङ्गमनेर-उपमण्डलयोः सह्याद्रि-पर्वतावलिः वर्तते ।

ऐतिहासिकं किञ्चित् सम्पादयतु

मण्डलेऽस्मिन् प्रचलन्ती अगस्त्य-ऋषेः यात्रा प्रसिद्धा । पाथर्डी उपमण्डले पाण्डवकालीनाः अवशेषाः सन्ति इति जनानाम् अभिप्रायः । रामायणे घटिता जटायु-कथा अपि अत्रस्थपर्वतावलिसम्बद्धा इति कथ्यते । मण्डलस्य अस्य इतिहासः इ. स. पू. २४० तमशतकात् उपलभ्यते । तदा सम्राट्-अशोकस्य आधिपत्यमत्रासीत् । अनन्तरम् आन्ध्रभृत्य-राष्ट्रकूट-चालुक्य-देवगिरी-यादवराजानाम् आधिपत्यम् अत्रासीत् । अनन्तरम् अल्लाउद्दिनखिल्जी-मुहम्मद तुघलक्-बहमनी-मलिक अहमद-अहमद निझाम-बऱ्हाण-बहादुर शाह-हुसेन निजाम शाह-अहमद इत्येतेषां मुघलराजानाम् आधिपत्यमासीत् अत्र । मुघलराजा अहमद निजाम शाह(१४४९) इत्यस्य नामानुसारम् अस्य मण्डलस्य नाम अहमदनगरम् इति अभवत् । बाजीराव-पेशवे इत्यनेन पेशवे आधिपत्यमपि अत्र स्थापितम् । अनन्तरं मराठा-अधिपतिषु युद्धान् कारयित्वा आङ्ग्लैः स्वाधिपत्ये अयं परिसरः गृहीतः । आङ्ग्लाधिपत्ये त्रिम्बकराव डेङ्गळे इत्यस्य नेतृत्वे जनसामान्यैः आङ्ग्लाधिपत्य-विरुद्धम् आन्दोलनं कृतम् । परम् आन्दोलनस्य उन्मूलनं कृत्वा १९४७ तमवर्षपर्यन्तम् आङ्ग्लाः प्रशासनं कृतवन्तः अत्र । १५ शतके अस्य परिसरस्य समृद्ध्या अस्य तुलना बगदाद, कैरो इत्येताभ्यां नगराभ्यां सह भवति स्म । तादृग्समृद्धः आसीत् अयं परिसरः । १९४२ तमे वर्षे 'चले जाओ' आन्दोलनार्थं सरदार वल्लभभाई पटेल, पण्डित नेहरू, मौलाना आजाद, पी.सी.घोष इत्येतेषां कारावासः अहमदनगरदुर्गे अभवत् । पण्डित नेहरू इत्यनेन 'डिस्कवरी ओफ इण्डिया', डा.पी.सी.घोष इत्यनेन 'हिस्ट्री ओफ एन्शिएन्ट् इण्डिया' इति पुस्तकम् अत्रैव लिखितम् ।

जनसङ्ख्या सम्पादयतु

अहमदनगरमण्डलस्य जनसङ्ख्या(२०११) ४५,४३,१५९ अस्ति । अस्मिन् २३,४२,८२५ पुरुषाः, २२,००,३३४ महिलाः च निवसन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २६६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३९ अस्ति । अत्र साक्षरता ७९.०५% अस्ति ।

कृषिः उद्यमाश्च सम्पादयतु

आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । इक्षुः अस्य मण्डलस्य प्रमुखसस्योत्पादनम् । इक्षोः उत्पादने मण्डलमिदं अग्रगण्यम् अस्ति । यवनालः(ज्वारी), कार्पासः, तण्डुलः, 'बाजरी', 'तूर', माषः, कलायः, तमाखुः, कदलीफलम्, भूमिजम्बुकफलम्(sweet lime), द्राक्षाफलानि, जम्बीरम् इत्यादीनि अस्य मण्डलस्य अन्यानि सस्योत्पादनानि सन्ति । पर्वतीयवनेषु शाकोटकवृक्षाः सन्ति ।
मण्डलेऽस्मिन् शर्करा-उद्यमः, वस्त्रोद्यमः, खाद्यतैलनिर्माणोद्यमः, गुडनिर्माणोद्यमः, आयुर्वेदीय-ओषधनिर्माणोद्यमः, केचन अभियान्त्रिकी-उद्यमः च अत्र प्रचलति । श्रीरामपुर, कोपरगाव च शर्करा-उत्पादनस्य केन्द्रम् अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि-

१ अकोला
२ जामखेड
३ कर्जत
४ कोपरगाव
अहमदनगर
६ नेवासे
७ पारनेर
८ पाथर्डि
९ राहता
१० राहुरी
११ सङ्गमनेर
१२ शेवगाव
१३ श्रिगोन्दा
१४ श्रीरामपुर

लोकजीवनम् सम्पादयतु

मण्डलेऽस्मिन् अहमदनगर, कोपरगाव, श्रीरामपुर, सङ्गमनेर, वारी इत्येतेषु नगरेषु उद्यमानां केन्द्रीकरणम् अस्ति । तत्र औद्योगिकरणस्य परिणामाः दृश्यन्ते । अत्र जनानाम् आधुनिकजीवनपद्धतिः दृश्यते । मण्डलस्य पर्वतप्रदेशे 'महादेव कोळी', 'भिल्ल', 'ठाकूर', 'पारधी' इत्येताः जनजातयः निवसन्ति । तेषां विशिष्टा संस्कृतिः अस्ति । इदानीं मण्डलेऽस्मिन् शैक्षणिकसुविधाः वर्धमानाः सन्ति तथा प्रगतिः अपि । राहुरी उपमण्डलं शैक्षणिकसुविधायै महत्त्वपूर्णम् अस्ति ।

वीक्षणीयस्थलानि सम्पादयतु

अहमदनगरमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • चान्द बीबी महल्
  • फरीय बाग
  • सलाबत् खान डोम्
  • ग्रौन्ड् किला
  • देवराई इत्यत्र वेङ्कटेश बालाजी देवस्थानम्
  • हरिश्चन्द्रगड
  • अहमदनगरम् इत्यत्र भूमिकोटः
  • शनि-शिङ्गणापुर
  • शिर्डी इत्यत्र साईबाबा मन्दिरम्
  • 'रणगाडा' सङ्ग्रहालयः
  • मढी इत्यत्र कानिफनाथ-समाधिस्थानम्
  • सिद्धटेक इत्यत्र गणपतिमन्दिरम्

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अहमदनगरमण्डलम्&oldid=479940" इत्यस्माद् प्रतिप्राप्तम्