फलकम्:Infobox former country/autocat

राष्ट्रकूटाः क्रि.श. अष्टमशतमनतः दशमशतकपर्यन्तं दक्षिणराज्यानि प्रशासितवन्तः । दन्तिदुर्गः इत्यनेन आरब्धा राजपरम्परायाः मूलस्थानं लट्टलूरु आसीत् । पश्चात् राजधानी मन्यखेट (अथवा मळखेडः) अभावत् ।

राष्ट्रकूटवंशः
ರಾಷ್ಟ್ರಕೂಟ ವಂಶ
साम्राट्
क्रि.श ७३५.–क्रि.श. ९८२
Location of राष्ट्रकूटवंशः
राजधानी मान्यखेटः
भाषाः संस्कृतम्, कन्नडभाषा च ।
धर्मः सनातनधर्मः
Government एकप्रभुत्वम्
President
 - क्रि.श. ७३५-७५६ दन्तिदुर्गः
 - क्रि.श. ७५६-७७४ प्रथमः कृष्णः
 - क्रि.श. ७४४-७८० इम्मडिगोविन्दः
 - क्रि.श. ८७८-९१४ इम्मडि कृष्णः
हतिहासः
 - स्तम्भित क्रि.श ७३५.
 - Earliest records
 - Disestablished क्रि.श. ९८२

दन्तिदुर्गस्यानन्तरम् सिंहासनारुढेषु प्रबलेषु महाराजेषु ध्रुवः (क्रिस्ताब्द ७७९-७१३), तृतीयः गोविन्दः (क्रिस्ताब्द ७९३-८१४), अमोघवर्ष नृपतुङ्गः (क्रिस्ताब्द ८२४-८७८१), द्वितीयः कृष्णः (क्रिस्ताब्द ८७८-९१४), तृतीयः इन्द्रः ( क्रिस्ताब्द ९१४-९२८), तृतीयः कृष्णः (क्रिस्ताब्द ९३९ -९६७) एते च प्रशासकाः अभवन् ।

तृतीयकृष्णस्य मरणामन्तरं आन्तरिककलहेन कल्याणीचाळुक्यानाम् प्राबल्येन राष्ट्रकूटसाम्राज्यस्य पतनमभवत् ।

साहित्यसंस्कृतिः

सम्पादयतु

राष्ट्रकूटानां काले कन्नडभाषायां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति नाम प्राप्तम् । तस्मिन् काले नृपतुङ्गात् पूर्वं नैके कवयः आसन् इति नृपतुङ्गः स्वस्य कविराजमार्गः इति कृतौ सूचितवान् । रामायणम्, महाभारतम् कव्ययोः सक्षिप्तं कन्नडभाषारूपं लभ्यते स्म । पञ्चमशतकस्य प्रथमकन्नडशिलाभिलेखस्य पश्चात् रचिते कविराजमार्गे कावेरीतः गोदावरीपर्यन्तं यदस्ति तत् कन्नडराज्यमिति वर्णितम् । तस्मिन् काले जैनकवयः अधिकाः आसन् । शिवकोट्याचर्यस्य अड्डाराधनम् एव कन्नडसाहित्यस्य प्रथमगद्यकृतिः इति निर्णयः ।

बादामीचालुक्यवंशीयानाम् अस्तमानानन्तरम् प्रवर्धमानां स्थितिमागताः मान्यकूटप्रदेशीयाः राष्ट्रकूटवंशीयाः प्रसिध्दाः अभवन् । चालुक्याः इव एतेऽपि दक्षिणभारते विशालं साम्राज्यं स्थापयित्वा द्विशतमानादधिकसमयं यावत् प्रशासनम् कृतवन्तः ।

विदेशेषु अपि सम्पर्कम् स्थापयित्वा वाणिज्यव्यवहारं कृतवन्तः आसन् । राज्यं च समृध्दम् अकुर्वन् । हिन्दुजैनधर्माणाम् समानम् गौरवम् दत्त्वा सामाजिकशान्तिस्थापनं कृतवन्तः । शिक्षणप्रसाराय शालान् निर्मितवन्तः, कविजनान् पण्डितान् राजाश्रयम् दत्त्वा सम्मानितवन्तः । एतेषां प्रशासनकाले कन्नडसंस्कृतोभयभाषयोः अनेककृतीनाम् सृष्टिः अभवत् ।

कन्नडसाहित्ये प्रसिध्दः पम्पकवि पोन्नः इत्यादयः एतेषां राष्ट्रकूटानाम् प्रशासनकाले आसन् । देवालयाणाम् निर्माणायच राष्ट्रकूटवंशीयाः प्रोत्साहम् दत्तवन्तः । आहत्य राष्ट्रकूटराजाः कन्नडप्रदेशस्य संस्कृतेः अभिवृध्दये बहुप्रयतितवन्तः इति ख्याताः आसन् ।

राष्ट्रकूटवंशीयानाम् मूलनिवासविषये उगमविषये च ऐतिहासिकाधारः न लब्धः । अतः कदा एतेषां उदयः अभवत् इति वक्तुम् न शक्यते । किन्तु एते राष्ट्रकूटराजाः कन्नडप्रदेशीयाः इत्यत्र संशयः नास्ति । राष्ट्रकूटराजानाम् “लट्टलूरुपुरवराधीश्वर” इति नाम प्रख्यातमासीत् । "लट्लूरु" इत्यस्य अधुनातन महाराष्ट्रराज्यस्य लातूरु प्रदेशे प्रशासनम् कृतवन्तः स्युः इति विदुषाम् अभिप्रायः अस्ति ।

अनन्तरसमये एते एल्लोरा एलिचिपुरेषु स्थितवन्तः । एतेषाम् राजधानी मान्यखेतस्थलम् अधुनातन गुलबर्गामण्डलस्य माळ्खेड्नगरम् इति ज्ञातमस्ति ।

राष्ट्रकूटसाम्राज्यस्थापनम्

सम्पादयतु

चालुक्यराजः द्वितीयविक्रमादित्यः शूरः धीरः आसीत् । किन्तु अनन्तरम् चालुक्यवंशीयः द्वितीयकीर्तिवर्मा अधिकारं प्राप्तवान् । सः समर्थः प्रशासकः नासीत् । तस्य समये चालुक्यसाम्राज्यस्य अवनतेः लक्षणानि विज्ञाय दन्तिदुर्गः चालुक्यवंशीयानाम् अनेकान् अधीनराजान् पराजितवान् । बादामिनगरं आक्रम्य द्वितीयकीर्तिवर्माणम् अपि पराजित्य राष्ट्रकूटवंशस्य साम्राज्यं उद्धोषितवान् । एवम् राष्ट्रकूटवंशीयानाम् साम्राज्यस्थापनाभवत् ।

प्रमुखाः राष्ट्रकूटराजाः

सम्पादयतु

दन्तिदुर्गः

सम्पादयतु

दन्तिदुर्गः एव राष्ट्रकूटसाम्राज्यस्य स्थापकः ।

राष्ट्रकूटराजाः पूर्वं बादामी चालुक्यराजानां अधीनराजाः आसन् । अस्मिन् समये गोविन्दराजः, कर्कराजः, इन्द्रः इत्यादयः क्रमशः प्रशासनम् कृतवन्तः । इन्द्रस्य पुत्रः दन्तिदुर्गः राष्ट्रकूटवंशीयेषु प्रसिध्दः राजासीत् । यदा द्वितीयविक्रमादित्यः गुजरात् प्रदेशे स्थिताय अवनिजाश्रयाय अरब्बीजनान् नियन्त्रितुम् साहाय्यं कृतवान् तदा दन्तिदुर्गः अपि द्वितीयविक्रमादित्येन सह आगतवान् आसीत् । चालुक्य-पल्लवराजयोः युध्दसमयेऽपि दन्तिदुर्गः द्वितीयविक्रमादित्याय साहाय्यं कृतवान् इति इतिहासतज्ञानाम् अभिप्रायः अस्ति ।

सा.श. अष्टमे शतके उत्तरार्धे उत्तरभारते परमाधिकारार्थम् गुर्जरपालवंशीये सङ्घर्षः अभवत् । एतयोः सङ्धर्षस्य मध्ये राष्ट्रकूटराजः ध्रुवः उभयोः सर्वाधिकारम् स्वयम् स्वीकृतवान् । उभौ अपि पराजितवान् । कनौजप्रदेशे अधिकारं प्राप्य उत्तरभारतेऽपि राष्ट्रकूटवंशीयानाम् अधिकारं स्थापितवान् दक्षिणभारते च गङ्गवाडिं वशीकृत्य पल्लवराजान् पराजितवान् ।

तमिळनाडुप्रदेशे च अधिकारम् प्राप्तवान् । ध्रुवस्य प्रशासनकाले उत्तरदिशि उज्जयिनीपर्यन्तं दक्षिणदिशि काञ्चीपर्यन्तम् राष्ट्रकूटवंशीयानाम् साम्राज्यस्य सीमासीत् । विन्ध्यप्रदेशे सैनिककेन्द्रं स्थापयित्वा भूपालः झान्सीकनौज प्रदेशम् आक्रमितुं योजनां कृतवान् । इयं सेनायात्रा सामान्यशक ७९६ तः ८०० वर्षपर्यन्तम् अभवत् इति विमर्शकाणाम् अभिप्रायः अस्ति । उत्तरभारते हिमालयपर्यन्तम् ध्रुवः दण्डयात्राम् कृतवान् । एतत्तु अतीवमहत्वपूर्णं साधनम् अभवत् ।

तृतीयगोविन्दः

सम्पादयतु

ध्रुवमहाराजस्य मरणानन्तरम् तस्य चतुर्षुपुत्रेषु सिंहासनाधिकांक्षिषु अन्तर्युध्दमभवत् । अन्तिमतया तृतीयः गोविन्दः जयशाली अभवत् । सिंहासनारुढः च अभवत् । एतेषां ध्रुवराजपुत्राणां सङ्घर्षसमये केचन अधीनराजाः स्वातन्त्यार्थं प्रयत्नं कृतवन्तः । तृतीयः गोविन्दः वत्सराज-धर्मपाल-इत्यादि अधीनराजान् जित्वा स्वाधिकारं स्थिरं कृतवान् ।

ध्रुवस्य उत्तरभारतदण्डयात्रायाः समये दक्षिण भारते पल्लवराजाः, पाण्ड्यराजाः केरळराजाः गङ्गराजाः च स्वतन्त्राः भवितुं प्रयत्नम् कृतवन्तः । वेङ्गिराजाः च स्वातन्त्र्यम् इष्टवन्तः । एते सर्वे एकीभूय तृतीयंगोविन्दं पराजयितुं प्रयत्नं कृतवन्तः । किन्तु तृतीयः गोविन्दः सर्वान् जित्वा अधिकारं स्थापितवान् ।

राष्ट्रकूटाराजाः

सम्पादयतु
राष्ट्रकूटराजाः (753-982)
दन्तिदुर्गः (क्रि.श. ७३५-७५६)
प्रथमः कृष्णः (क्रि.श. ७५६-७७४)
इम्मडिगोविन्दः (क्रि.श. ७४४-७८०)
ध्रुवधारावर्षः (क्रि.श. ७८०- ७९३)
मुम्मडिगोविन्दः (क्रि.श. ७९३-८१४)
प्रथमः अमोघवर्षः (क्रि.शा. ८१४-८७८)
इम्मडि कृष्णः (क्रि.श. ८७८-९१४)
मुम्मडि इन्द्रः (क्रि.श. ९१४-९२९)
इम्मडि अमोघवर्षः (क्रि.श. ९२९-९३०)
नाल्वडि गोविन्दः (क्रि.श. ९३०-९३६)
मुम्मडि अमोघवर्षः (क्रि.श. ९३६-९३.९)
मुम्मडिकृष्णः (क्रि.श. ९३९-९६७)
कोट्टिग अमोघवर्षः (क्रि.श. ९६७-९७२)
इम्मडि कर्कः (९७२-९७३)
नाल्वडि इन्द्रः (९७३-९८२)
इम्मडितैलपः
पश्चिमस्य चालुक्याः
(973-997)


"https://sa.wikipedia.org/w/index.php?title=राष्ट्रकूटवंशः&oldid=296659" इत्यस्माद् प्रतिप्राप्तम्