भारतीयसङ्गीतस्येतिहासे अहोबल इत्येतदेकमविसमरणीयं नाम। दक्षिणभारतेऽयं जातः। प्रायशः सप्तदशशतकस्य पूर्वार्धेऽयं जात इति तर्क्यते। अस्य पिता कृष्णपण्डितः संस्कृतज्ञः। स पुत्रं संस्कृतमपाठयत् । ततोऽहोबलः सङ्गीतविद्यामधीतवान्। दाक्षिणात्ये सङ्गीते स नैपुण्यमध्यगच्छत्। ततस्तेनोत्तरभारतीयसङ्गीतस्याध्ययनमारब्धम्। १९५०तमे ख्रिस्ताब्दे सङ्गीतपारिजातनामा ग्रन्थस्तेन विरचितः। अस्मिन्ग्रन्थ उत्तरभारतीय-दक्षिणभारतीयसङ्गीतयोर्विवेचनमस्तीत्युभयत्रायं प्रमाणभूतो जातः। वीणातन्तौ १२ स्वराणां स्थाननिर्धारणं तेन कृतम्।स्वारानुगुणं तन्तुदैर्घ्यं तेन निश्चितम्। ततः पूर्वं स्वराणामुच्चनीचताया निर्धारणं श्रुतुद्वारा भवति स्म। स्वराणां द्वादशेति सङख्यापि तेनैव निश्चिता। तसय निर्वाणं १७तमे शतके उत्तरार्धे अभवत्।

"https://sa.wikipedia.org/w/index.php?title=अहोबलः&oldid=388521" इत्यस्माद् प्रतिप्राप्तम्