आत्मनः कोशेभ्यः अतिरिक्तत्वनिरूपणम्

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने।
सविलासमहामोहग्राहग्रासैककर्मणे॥

ब्रह्म
Skyline of ब्रह्म

आत्मा पञ्चकोशैः तादात्म्यात् तत्तत् कोशमयः भवतीति अतीतानन्तरश्लोके निरूपितम्। एतादृशस्य आत्मनः कथं ब्रह्मत्वं सम्पाद्यते इत्याशङ्कया इमं श्लोकमवतारयति भगवान् विद्यारण्यमुनिः,

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः।
आत्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते॥

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकेन प्रत्यगभिन्नं ब्रह्म इति साध्यते, इत्येषः अस्य श्लोकार्थः।

आत्मा पञ्चकोशेभ्यः व्यतिरिक्तः इति ज्ञाते, तस्य सच्चिदानन्दरूप-अनतिरिक्तत्वं सम्भवति। यथा, चन्दनागर्वादेः उदकादिसम्बन्धार्द्रीभावादिना जातं क्लेदजं औपाधिकं यत् दौर्गन्ध्यं स्वरूपनिघर्षणेन स्वाभाविकेन स्वेन गन्धेन आच्छाद्यते तथा, अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः औपाधिकं तत्तत्कोशतादात्म्यं निरस्य आत्मनि सच्चिदानन्दरूपत्वं सम्पाद्यते।

कथमात्मा पञ्चकोशेभ्यः भिन्नः इति आकाङ्क्षायाम् एषः अनुमानप्रकारः समुपपद्यते। “यद् व्यावर्तमानेष्वनुवर्तते तत् तेभ्यो भिन्नम्” इति एषः शास्त्रप्रसिद्धः नियमः। तथा हि, “आत्मा पञ्चकोशव्यतिरिक्तः , व्यावर्तमानपञ्चकोशेष्वनुवर्तमानत्वात्, यथा मणिगणेभ्यः सूत्रम्”। एषः हेतुः अन्वयव्यतिरेकाभ्यां साध्यते।

तत्पूर्वम् अन्वयव्यतिरेकयोः लक्षणमुच्यते- तदभावे तत्सत्वम् अन्वयः, तत्सत्वे तदभावः व्यतिरेकः। प्रथमं अन्वयव्यतिरेकाभ्याम् अन्नमयकोशात् स्थूलदेहाद्वा आत्मा भिन्नः इति प्रतिपाद्यते।

स्वप्नावस्थायां स्थूलदेहस्य अभानेऽपि ’अहं घटं पश्यामि’, ’अहं कार्यं करोमि’ इत्यनेन प्रकारेण अहम्प्रत्ययविषयीभूतस्य आत्मनः ज्ञानम् अनुवर्तते। अतः स्थूलदेहात् भिन्नः आत्मा इति ज्ञायते। एषः आत्मनः अन्वयः। तस्यामेव स्वप्नावस्थायाम् अहम्प्रत्ययविषयीभूतस्य आत्मज्ञानस्य अनुवर्तमानत्वेऽपि अन्नमयकोशः स्थूलदेहः वा नानुवर्तते इत्येषः तस्य व्यतिरेकः।

सुषुप्तिकाले लिङ्गशरीरस्य अभानं वर्तते, तथापि अज्ञानस्य ज्ञानं वर्तते। यतः सुप्तोत्थितः सः ’अहं सुखमस्वाप्सं, न किञ्चिदवेदिषम्’ इति वदतीत्यतः सुषुप्तिकालेऽपि अहम्प्रत्ययविषयीभूतस्य आत्मनः अनुवर्तनमासीत् इति गम्यते। यतः या या स्मृतिः सा सा अनुभवपूर्विका। अतः एषः आत्मनः अन्वयः। सुषुप्तिकाले आत्मनः भानेऽपि लिङ्गशरीरस्य अभानात् तत् तस्य व्यतिरेकः।

ननु पञ्चकोशविवेचनमारभ्य लिङ्गशरीरविवेचनं कुर्वन्तः सन्ति। अनेन प्रकरणविरोधः न आगच्छति वा इति चेत् न, “तद्विवेकाद्विविक्ताः स्युः कोशाः प्राणमनोधियः”। लिङ्गशरीरविवेचनेनैव प्राणमय-मनोमय-विज्ञानमयकोशेभ्यः अपि आत्मनः पार्थक्यदर्शनात्।

ननु कोशत्रयमपि लिङ्गशरीरेणैव उच्यते चेत् तत्र प्राणादिकोशत्रयेषु अपि अभिन्नत्वं सिद्ध्यति इति चेत् न,। प्राणादिकोशत्रयं लिङ्गशरीरे विद्यमानसत्वरजसः अवस्थाविशेषतः भिद्यते।

समाध्यवस्थायां सुषुप्ति-उपलक्षितस्य कारणशरीरस्य आनन्दमयकोशस्य अभानेऽपि अहमित्याकारकज्ञानस्य अनुवर्तनम् अनुभवात् गम्यते। एषः आत्मनः अन्वयः। समाध्यवस्थायाम् अहमित्याकारकज्ञाने सत्यपि आनन्दमयस्य अभानम् अनुभूयते। एषः तस्य व्यतिरेकः।

एवं यथा व्यावर्तमानेषु मणिगणेषु अनुवर्तमानं सूत्रं व्यावर्तमानेभ्यः मणिगणेभ्यः भिद्यते तथा व्यावर्तमानेषु पञ्चकोशेषु अनुवर्तमानः आत्मा व्यावर्तमानपञ्चकोशेभ्यः भिद्यते इति अनेन सिद्धम्।

एवं निष्कल्मषस्य आत्मनः ब्रह्मत्वं निरूपितम्॥

- वासुदेवः आहितानलः