ब्रह्मा
ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः। ब्रह्मा अर्थात् प्रजापतिः ऋग्वेदे प्रधानदेवतात्वेन महिमामण्डितः। परन्तु संहिताकालस्य मुख्यदेवता अस्मिन् युगे गौणोऽभवत् । तथा गौणदेवता मुख्योऽभवत् । क्वचित् नवीनदेवतायाः परिकल्पनाऽप्यस्ति । ऋग्वेदस्य गौणदेवतासु प्रजापतिः अग्रगण्योऽस्ति । ऐतरेयब्राह्मणस्यारम्भे एव विष्णोः परमदेवत्वस्य सूचना प्राप्यते - 'अग्निर्वे देवानामवमो विष्णुः परमः'।[१] रुद्राय महादेवशब्दस्य प्रयोगः ब्राह्मणग्रन्थेषु स्पष्टतया उल्लिखितोऽअस्ति। प्रजापतेः पदं तु देवानाम् अग्रस्थानीयमस्ति । प्रजापतिरेव जगतः स्रष्टा अस्ति । प्रजापतिः देवानामपि स्रष्टाऽस्ति । प्रजापतिरेवास्य भूतलस्य सकलपदार्थानां सृष्टिकर्ताऽस्ति। स एव देवताः उत्पन्नं कृत्वा तासु बलस्य विभाजनं करोति । अनेन एव उर्जाविभागेन उदुम्बरवृक्षस्य जन्म बभूव । अतः प्रजापतेः महिमा ब्राह्मणग्रन्थेषु सर्वतो महीयानस्ति ।
ब्रह्मा | |
---|---|
ब्रह्मा , सृष्टिकर्ता |
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
अविधा
सम्पादयतुसंस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः।
अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः।
उपाख्यानम्
सम्पादयतुसृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः।
स्वरूपम्
सम्पादयतुब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति।
साङ्केतिकलक्षणानि
सम्पादयतु- चतुर्मुखाः- चत्वारःवेदाः।(ऋक्-साम-यजु-रथर्वश्च)
- चतुर्भुजाः- चतुर्दिशं (उत्तर-दक्षिण-पूर्व-पश्चिमश्च) द्योतयन्ति। एते पुनः मन-बुद्धि-अहङ्कार-आत्मधैर्यमपि प्रदर्शयति।
- जपमाला- सृष्टेः चलमानाप्रक्रियां सूचयति।
- पुस्तकम्- 'ज्ञानम्' इति अर्थवोधकम्।
- ↑ (ऐत० १।१, ता० ब्रा० ६।।९।। ७९ )