आब्रह्मभुवनाल्लोकाः...
श्लोकः
सम्पादयतु- आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
- मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षोडशः (१६) श्लोकः ।
पदच्छेदः
सम्पादयतुआब्रह्मभुवनात् लोकाः पुनरावर्तिनः अर्जुन माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
अन्वयः
सम्पादयतुअर्जुन ! आब्रह्मभुवनात् लोकाः पुनरावर्तिनः । कौन्तेय ! माम् उपेत्य तु पुनर्जन्म न विद्यते ।
शब्दार्थः
सम्पादयतु- अर्जुन = हे अर्जुन !
- आब्रह्मभुवनात् = ब्रह्मलोकपर्यन्तम्
- लोकाः = भुवनानि
- पुनः आवर्तिनः = आवर्तनशीलानि
- कौन्तेय = अर्जुन !
- माम् उपेत्य = मां प्राप्य (स्थितस्य)
- पुनर्जन्म = पुनर्जन्म
- न विद्यते = नास्ति ।
अर्थः
सम्पादयतुअर्जुन ! आब्रह्मलोकात् सर्वेऽपि लोकाः आवर्तनशीलाः इति हेतोः ते न शाश्वताः । कौन्तेय ! परन्तु मां प्राप्तवतः तु सर्वथा पुनर्जन्म नास्ति ।