आयुःसत्त्वबलारोग्य...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
- रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
सम्पादयतुआयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ॥
अन्वयः
सम्पादयतुआयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ।
शब्दार्थः
सम्पादयतु- आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः = आयुष्यम् उत्साहः शक्तिः आरोग्यं चित्तप्रसादः प्रीतिश्च एषां वर्धकाः
- रस्याः = आस्वादनीयाः
- स्निग्धाः = स्नेहवन्तः
- स्थिराः = चिरस्थायिनः
- हृद्याः =रमणीयाः
- सात्त्विकप्रियाः = सात्त्विकाभिमताः ।
अर्थः
सम्पादयतुतत्र आयुष्यम्, उत्साहः, शक्तिः, आरोग्यं, चित्तप्रसादः, प्रीतिश्चेति एतेषां गुणानां विवर्धकाः, आस्वाद्याः, स्नेहवन्तः, चिरस्थायिनः, रमणीयाश्च ये आहाराः सन्ति ते सात्त्विकानां प्रियाः भवन्ति ।