अत्युध्दतार्थसन्दर्भयुक्ता वृत्तिरारभटी । अत्युध्दतयोः रौद्रबीभत्सयोः रसयोर्विषये वृत्तिरेषा प्रयोज्या भवति । एषा ताण्डवाङ्गभूता भवति । यथा –

खड्गाघातनिकृत्तशात्रवशिरो निष्टयूतरक्तच्छटा
जालैरुद्भटशस्त्रघट्टनभवत्स्फारस्फुलिङ्गोत्करैः ।
स्त्याना सृक्पिशितास्थि खण्डविकटस्थूलोज्ज्वलाङ्गारकैः
उच्चण्डश्चलमर्तिगण्डनृपतेः क्रोधाग्निरायोधने ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आरभटीवृत्तिः&oldid=419011" इत्यस्माद् प्रतिप्राप्तम्