आवरणम् (पुस्तकम्)
आरवरणम् (ಆವರಣ) इति २००७ तमे वर्षे प्रकाशितः कश्चन कन्नड-कथाग्रन्थः वर्तते। एस् एल् भैरप्प अस्य ग्रन्थस्य च लेखकः। आवरणमिति पदम् आवृ धातुनिष्पन्नं, यस्य चार्थः अपह्नुतम् आवृत्तं वा। मुघलसम्म्राट् औरङ्गजेब अस्मिन् ग्रन्थे प्रामुख्येन उपख्यातः। आवरणग्रन्थस्य प्रथमसंस्करणस्य सर्वाः प्रतयः प्रकाशनात्(फेब्रुवरी २००७) प्रागेव विक्रीताः आसन्[१] पञ्चमासाभ्यन्तरे १० मुद्रण-संस्करणानि जातानि आसन्, अतः भारतीयसाहित्येतिहासे अयं ग्रन्थः निदर्शनरूपेन स्थितः। [२]
ಆವರಣ आरवरणम् | |
---|---|
लेखकः | एस् एल् भैरप्प |
देशः | भारतम् |
भाषा | कन्नड |
प्रकारः | काल्पनिकः |
प्रकाशकः | साहित्य भाण्डार, बालेपेट्, बेङ्गळूरु |
प्रकाशनतिथिः | 2007 |
माध्यमप्रकारः | मुद्रितम् (कर्गद-कोरकयुक्तम्) |
आई॰ऍस॰बी॰ऍन॰ | 9781536682830 |
ओ॰सी॰एल॰सी॰ क्र॰ | 969827460 |
पूर्ववर्ती | मन्द्र |
उत्तरवर्ती | कवलु |
एस् एल् भैरप्प-महोदयस्य अन्यपुस्तकमिव आवरणमपि प्रसिद्धिं गता। परन्तु बहुवाद-विवाद-चर्चानां केन्द्रमपि जातमिदं पुस्तकं, यथा चान्यानि पुस्तकानि। केचन प्रसिद्धानां बुद्धिजीविनां मतानुसारं आवरणम् जातिवादं तथा च साम्प्रदायिकतत्त्वं प्रोत्साहयति। अनेन समाजस्य विभाजनम् अपि जायेत इति केचन उक्तवन्तः। अपरपक्षे लेखकस्य कथनं यत् सत्यं[३] सर्वदा यथावत् वक्तव्यं, येन पठितारः आत्मानं योजयितुम् शक्नुयुः। अत्र उल्लेखनीयं यत् लेखकेन समालोचनाः समादृताः।
अन्यासु भाषासु आवरणम्
सम्पादयतुआवरणपुस्तकमिदं कन्नड-तमिळ्-गुजरातीप्रभृतिभिः भाषाभिः श्रेष्ठविक्रीतपुस्तकरूपेन सम्मानितम्। २०१४ वर्षस्य फेब्रुवरीमासे सन्दीप-बालकृष्णेन अनुदितं आङ्ग्लसंस्करणं प्रकाशितम्[४]।
भाषा | शीर्षकं | ISBN | अनुवादकः | प्रकाशकः |
---|---|---|---|---|
संस्कृतम् | Aavaranam | - | डा. एच्. आर्. विश्वासः | संस्कृतभारती |
हिन्दी | आवरण | 9380146775 | प्रधान गुरुदत्त | किताबघर प्रकाशन |
मराठी | Avaran | 8184980558 | उमा कुलकर्णी | Mehta Publishing House |
तमिळ् | तिरै | - | श्रीजय वेङ्कटरामण् | - |
आङ्ग्लभाषा | Aavarana: The Veil | 8129124882 | सन्दीपः बालकृष्णः | Rupa Publications India |
गुजराती | आवरण | - | सिद्ध दीक्षित् | - |
कथापात्राणि
सम्पादयतु- लक्ष्मी (अलियास् राजिया)
- आमीर्(लक्ष्म्याः पतिः)
- नजीर्(लक्ष्म्याः पुत्र)
- नरसे गौड्रु/ नरसिंह गौड्रु (लक्ष्म्याः पिता)
- प्रो. एल् एन् शास्त्री
- एलिजाबेथ् (एल् एन् शास्त्रिणः पत्नी)
- दिगन्तः (एल् एन् शास्त्रिणः पुत्रः)
- अरुणः (एल् एन् शास्त्रिणः पुत्री)
टिप्पणी
सम्पादयतु- ↑ "आवरण by S.L. Bhyrappa". Goodreads.
- ↑ "ಬೇಗ ಓದಿ : ಭೈರಪ್ಪನವರ ಹೊಸ ಕಾದಂಬರಿ ‘ಆವರಣ’". Oneindia Kannada (in Kannada). Archived from the original on 6 April 2012.
- ↑ "Distorting Indian History – S.L. Bhyrappa". Bharata Bharati. 22 May 2012.
- ↑ "Aavarana–The Veil: A Personal Journey". 24 February 2014. Archived from the original on 24 February 2014. आह्रियत 27 May 2018.