लक्षणाश्लोकः सम्पादयतु

त्रिविधं दीपकावृत्तै भवेदावृत्तिदीपकम्
वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ।
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।
माद्यन्ति चातकास्तृप्ताः माद्यन्ति च शिखावलाः ॥

अर्थः सम्पादयतु

दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्य अर्थस्य उभयोर्वा आवृत्तौ त्रिविधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि ।

उदाहरणान्तरम् सम्पादयतु

उत्कण्ठयति मेघानां मालावर्गं कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥
शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम् ।
क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम् ॥

एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावे अपि दीपकच्छायापत्तिमात्रेण दीपकस्य व्यपदेशः ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आवृत्तिदीपकालङ्कारः&oldid=419013" इत्यस्माद् प्रतिप्राप्तम्