आसुरीं योनिमापन्ना...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
- मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
सम्पादयतुआसुरीं योनिम् आपन्नाः मूढाः जन्मनि जन्मनि माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमां गतिम् ॥
अन्वयः
सम्पादयतुकौन्तेय ! आसुरीं योनिम् आपन्नाः मूढाः माम् अप्राप्य एव ततः जन्मनि जन्मनि अधमां गतिं यान्ति ।
शब्दार्थः
सम्पादयतु- आसुरीम् = राक्षसीम्
- योनिम् = प्रकृतिम्
- आपन्नाः = प्राप्ताः
- मूढाः = अविवेकिनः
- अप्राप्य = अनासाद्य
- जन्मनि जन्मनि = प्रतिजन्म
- अधमाम् = नीचाम्
- यान्ति = गच्छन्ति ।
अर्थः
सम्पादयतुअर्जुन ! तादृशानां नरापसदानां राक्षसानां स्वभावं प्राप्तवतां न कदापि मम प्राप्तिः भवति । ते हि जन्मनि जन्मनि क्रमेण नीचामेव गतिं प्राप्नुवन्ति ।