श्लोकः सम्पादयतु

 
गीतोपदेशः
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः सम्पादयतु

आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः यज्ञः तपः तथा दानं तेषां भेदम् इमं शृणु ॥

अन्वयः सम्पादयतु

आहारः तु अपि सर्वस्य त्रिविधः प्रियः भवति तथा यज्ञः तपः दानम् । तेषाम् इमं भेदं शृणु ।

शब्दार्थः सम्पादयतु

प्रियः = इष्टः
भेदम् = विभागम्
शृणु = आकर्णय ।

अर्थः सम्पादयतु

सर्वेषां यत् प्रियं भोज्यं तदपि त्रिप्रकारकं भवति, तथा यागः तपः वितरणं च त्रिविधं भवति । तेषाम् इमं विभागं शृणु ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आहारस्त्वपि_सर्वस्य...&oldid=418469" इत्यस्माद् प्रतिप्राप्तम्