अस्य सस्यशास्त्रीयं नाम बलनिटिस् रोक्सबुर्गि(Balanistes roxburghii) इति । विविधाभाषासु अस्य नामानि एवं भवन्ति ।

इङ्गुदवृक्षः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Zygophyllales
कुलम् Zygophyllaceae
वंशः Balanites
जातिः B. roxburghii
द्विपदनाम
Balanites roxburghii
Planch.

आङ्ग्लम् - डेसर्ट् डेट्स् , । Desert Date
कन्नडम् - इङ्गळीक, तापसरु, इङ्गळ । ಇಂಗಳೀಕ, ತಾಪಸರು, ಇಂಗಳ ।
हिन्दी - हिंगन ।
तमिळु - नञ्जुण्डन् । னம்ஜும்டன் ।
तेलुगु - गरा । గరా।
मराठि - हिंग ।
मलयाळम् - नञ्जुण्टा । നംജുംടാ।
अस्य कुटुम्बः सैमारुबेसि इति ।

सस्यगुणलक्षणानि सम्पादयतु

इङ्गुदवृक्षः उष्णप्रदेशेषु निर्जलेषु अपि प्रदेशेषु अधिकं प्ररोहति । अस्य औन्नत्यं १०मी.परिमितं भवति । कण्डः भस्मवर्णेन पत्राणि अण्डाकारेण हस्तमितविसृतानि भवन्ति । पत्राणां कक्षेषु पुष्पगुच्छानि भवन्ति । तानि सगन्धानि पीतमिश्रश्वेतवर्णीयानि लघूनि सन्ति । मार्चमासान्ते इङ्गुदवृक्षाः कुसुमिताः दृष्यन्ते । रूक्षाणि अण्डाकाराणि २.५तः६सें.मी.दीर्घाणि ५सन्धियुक्तानि हरिद्वर्णीयानि फलानि अयं वृक्षः उत्पादयति । अस्य वंशाभिवृद्धिः बीजैः सम्भवति ।

उपयोगाः सम्पादयतु

इङ्गुदवृक्षस्य बीजैः तैलोत्पादनं भवति । अस्मिन् तैले सूक्ष्माणुजिविनां शिलीन्ध्राणां च नासस्य शक्तिः भवति । दाहक्षते, चर्मरोगेषु च अस्य तैलस्य लेपः शमनकारी भवति । फेनकानां निर्माणे अपि अस्य तैलस्य प्रयोजनम् अस्ति । बीजचूर्णानाम् उपयोगः पश्वाहारोत्पादने अस्ति । पक्वफपानि मानवानां श्वनखासस्य चर्मव्यधेः निवारणार्थं च उ पयोजयन्ति । बीजानि कफविसर्जकानि अतः शिषुप्रसवः सुकरः भवतु इति गर्भवतीमहिलाः बीजस्य चूर्णानि खादन्ति । पशवः अस्य पत्राणि सुखेन खादन्ति । वस्त्राणां कलङ्कनिवारणार्थम् अस्य फलरसः बहूपकारकः । अस्य काष्टानि वृद्धविकलाङ्गानां सञ्चरदण्डनिर्माणार्थम् इन्धनार्थं च उपयोजयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=इङ्गुदवृक्षः&oldid=461997" इत्यस्माद् प्रतिप्राप्तम्