इति क्षेत्रं तथा ज्ञानं...


श्लोकः सम्पादयतु

 
गीतोपदेशः
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तंसमासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः सम्पादयतु

इति क्षेत्रं तथा ज्ञानं ज्ञेयं च उक्तं समासतः मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ॥ १८ ॥

अन्वयः सम्पादयतु

इति क्षेत्रं तथा ज्ञानं ज्ञेयं च समासतः उक्तम् । मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ।

शब्दार्थः सम्पादयतु

ज्ञेयम् = ज्ञातव्यम्
समासतः = सङ्ग्रहेण
मद्भक्तः = मम भक्तः
विज्ञाय = ज्ञात्वा
मद्भावाय = मत्स्वरूपाय
उपपद्यते = कल्पते ।

अर्थः सम्पादयतु

एवं क्षेत्रं ज्ञानं ज्ञेयं चेति त्रयमपि सङ्ग्रहेण प्रतिपादितम् । परमात्मभक्तः इदं ज्ञात्वा मद्रूपत्वं प्राप्नोति । व्याकरणम् - मम भावः मद्भावः, तस्मै - षष्ठीतत्पुरुषः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु