इति गुह्यतमं शास्त्रम्...

भगवद्गीतायाः श्लोकः १५.२०


श्लोकः सम्पादयतु

 
गीतोपदेशः
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः सम्पादयतु

इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ २० ॥

अन्वयः सम्पादयतु

अनघ ! मया इदं गुह्यतमं शास्त्रम् इति उक्तम् । भारत ! एतत् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात् ।

शब्दार्थः सम्पादयतु

अनघ = अपाप !
गुह्यतमम् = अतिरहस्यम्
शास्त्रम् = अबाधितार्थप्रतिपादकं वाक्यम्
बुद्ध्वा = ज्ञात्वा
बुद्धिमान् = विवेकवान्
कृतकृत्यः = कृतार्थः ।

अर्थः सम्पादयतु

हे अपाप (अर्जुन) ! एतत् अतिरहस्यं शास्त्रम् इति मया प्रतिपादितम् । भारत ! इदं शास्त्रं ज्ञात्वा भवान् विवेकवान् कृतार्थः च भवेत् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु