श्लोकः सम्पादयतु

 
गीतोपदेशः

सञ्जय उवाच -

इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चाशत्तमः(५०) श्लोकः ।

पदच्छेदः सम्पादयतु

इति अर्जुनं वासुदेवः तथा उक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतम् एनं भूत्वा पुनः सौम्यवपुः महात्मा ॥ ५० ॥

अन्वयः सम्पादयतु

वासुदेवः इति अर्जुनं तथा उक्त्वा स्वकं रूपं भूयः दर्शयामास । महात्मा सौम्यवपुः पुनः भूत्वा भीतम् एनम् आश्वासयामास च ।

शब्दार्थः सम्पादयतु

वासुदेवः = श्रीकृष्णः
इति = एवम्
अर्जुनम् = पार्थम्
तथा उक्त्वा = तेन प्रकारेण कथयित्वा
स्वकं रूपम् = स्वीयं रूपम्
भूयः दर्शयामास = पुनः दर्शितवान्
महात्मा पुनः = भगवान् तु
सौम्यवपुः भूत्वा = सौम्यशरीरः भूत्वा
भीतम् = भयग्रस्तम्
एनम् = अमुम्
आश्वासयामास च = सान्त्वयामास च ।

अर्थः सम्पादयतु

श्रीकृष्णः एवम् अर्जुनं पूर्वोक्तप्रकारेण कथयित्वा स्वीयम् रूपं पुनः दर्शयामास । ततश्च महानुभावः सः सौम्यशरीरः सन् भयग्रस्तम् एनम् अर्जुनं सान्त्वयामास ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=इत्यर्जुनं_वासुदेवः...&oldid=418476" इत्यस्माद् प्रतिप्राप्तम्