श्लोकः सम्पादयतु

 
गीतोपदेशः

सञ्जय उवाच -

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतु्ःसप्ततितमः(७४) श्लोकः ।

पदच्छेदः सम्पादयतु

इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

अन्वयः सम्पादयतु

महात्मनः वासुदेवस्य पार्थस्य च रोमहर्षणम् अद्भुतम् इमं संवादम् इति अहम् अश्रौषम् ।

शब्दार्थः सम्पादयतु

महात्मनः = महानुभावस्य
वासुदेवस्य = नारायणस्य
पार्थस्य = अर्जुनस्य
रोमहर्षणम् = रोमाञ्चकरम्
संवादम् = सम्भाषणम्
अश्रौषम् = अशृणवम् ।

अर्थः सम्पादयतु

महानुभावस्य नारायणस्य अर्जुनस्य च रोमाञ्चकरम् आश्चर्यम् एनं संवादम् अहम् अशृणवम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=इत्यहं_वासुदेवस्य...&oldid=418477" इत्यस्माद् प्रतिप्राप्तम्