इदं ज्ञानमुपाश्रित्य...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
- सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वितीय:(२) श्लोकः ।
पदच्छेदः
सम्पादयतुइदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
अन्वयः
सम्पादयतुइदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते प्रलये च न व्यथन्ति ।
शब्दार्थः
सम्पादयतु- ज्ञानम् = ब्रह्मज्ञानम्
- उपाश्रित्य = अवलम्ब्य
- साधर्म्यम् = स्वरूपम्
- आगताः = प्राप्ताः
- सर्गे = सृष्टिकाले
- उपजायन्ते = उत्पद्यन्ते
- प्रलये = सर्गप्रलये
- व्यथन्ति = बाधां प्राप्नुवन्ति ।
अर्थः
सम्पादयतुएतत् ब्रह्मज्ञानम् अवलम्ब्य मम स्वरूपं प्राप्ताः सृष्टिकाले अपि न उत्पद्यन्ते प्रलयकाले अपि बाधां न प्राप्नुवन्ति ।