इदं ते नातपस्काय...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- इदं ते नातपस्काय नाभक्ताय कदाचन ।
- न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तषष्टितमः(६७) श्लोकः ।
पदच्छेदः
सम्पादयतुइदं ते न अतपस्काय न अभक्ताय कदाचन न च अशुश्रूषवे वाच्यं न च मां यः अभ्यसूयति ॥
अन्वयः
सम्पादयतुइदं ते कदाचन अतपस्काय न वाच्यम् । न अभक्ताय, न च अशुश्रूषवे, मां यः अभ्यसूयति तस्मै न ।
शब्दार्थः
सम्पादयतु- कदाचन = कदापि
- अतपस्काय = तपोविहीनाय
- वाच्यम् = कथनीयम्
- अभक्ताय = भक्तिहीनाय
- अशुश्रूषवे = असेविने
- अभ्यसूयति = न सहते ।
अर्थः
सम्पादयतुएतावन्तं कालं यदुक्तं गीतार्थतत्त्वं तत् त्वया तपोविहीनाय न वाच्यम् । भक्तिहीनाय न वाच्यम् । असेविने न वाच्यम् । मां यः न सहते तस्मै अपि न वाच्यम् ।