इन्द्रवज्राछन्दः
छन्दस्
छन्दस्

लक्षणम् सम्पादयतु

स्यादिन्द्रवज्रा यदि तौ जगौ गः।

यस्मिन् छन्दसि क्रमेण यदि तगणद्वयम्, एकः जगणः,तथा च गुरुद्वयं भवति तर्हि इन्द्रवज्रा भवति। अस्मिन् छन्दसि एकादशाक्षराणि भवन्ति।

उदाहरणम् १ सम्पादयतु

पुत्रीति जाता महतीह चिन्ता, कस्मै प्रदेयेति महान् वितर्कः।
दत्ता सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम्।।

उदाहरणम् २ == ग्लानो हि धर्मोभ्युदितो ह्यधर्म आत्मानमस्मिन्हि सृजामि पार्थ। सद्रक्षणायासुरनाशनाय धर्मं पुन: स्थापयितुं युगेषु॥

अर्थः सम्पादयतु

पुत्र्याः जन्मनानन्तरमेव पितुः चिन्ता आरभ्यते। यदा सा युवतिः भवति तदा कस्मै प्रदेयेति महान् वितर्कः भवति।
विवाहात्परम् अपि सुखं प्राप्स्यति न वा इति चिन्ता भवति। अतः कन्यापितृत्वमेव कष्टाय वर्तते।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=इन्द्रवज्राछन्दः&oldid=409024" इत्यस्माद् प्रतिप्राप्तम्