प्रयागराज:

(इलाहाबाद इत्यस्मात् पुनर्निर्दिष्टम्)

वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्बमेला इति उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति ।

प्रयागराज

प्रयाग
नगरम्
A well-lit structure with pink night-sky in the background
यमुनासेतुः प्रयागस्य प्रातिनिध्यं करोति।
Nickname(s): 
प्रधानमन्त्रिणां नगरम्
Country  भारतम्
State उत्तरप्रदेशः
District प्रयागराजमण्डलम्
Founded 1583 AD
Government
 • Type Mayor–Council
 • Body The Prayagraj Municipal Corporation
 • Mayor Abhilasha Gupta
 • Commissioner of Police Ram Chandra Yadav
Area
 • Total ६३.०७ km
Elevation
९८ m
Population
 (2011)
 • Total ५,९५९,७९८
 • Rank 35th
 • Density १,०८७/km
 • Agglomeration Rank
४०th
Demonym(s) Prayagraji
Time zone UTC+5:30 (IST)
PIN
211001-05
Telephone code 91-532
Vehicle registration UP-70
Sex ratio 901 /
Official language हिन्दी
Ethnicity Hindu, Marwari, Bihari, Urdu
Website allahabad.nic.in
जवाहरलालनेहरुवर्यस्य गृहम् आनन्दभवनम्
कुम्भमेलां प्रति प्रस्थिताः साधवः
"https://sa.wikipedia.org/w/index.php?title=प्रयागराज:&oldid=476724" इत्यस्माद् प्रतिप्राप्तम्