इहैकस्थं जगत्कृत्स्नं...


श्लोकः सम्पादयतु

 
गीतोपदेशः
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः सम्पादयतु

इह एकस्थं जगत् कृत्स्नं पश्य अद्य सचराचरम् मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ७ ॥

अन्वयः सम्पादयतु

गुडाकेश ! अद्य एकस्थं सचराचरं कृत्स्नं जगत् अन्यत् च यत् द्रष्टुम् इच्छसि (तत्सर्वम्) इह मम देहे पश्य ।

शब्दार्थः सम्पादयतु

गुडाकेश = जितनिद्र !
अद्य = इदानीम्
एकस्थम् = एकत्र स्थितम्
सचराचरम् = स्थावरजम- सहितम्
कृत्स्नम् = सकलम्
जगत् = भुवनम्
अन्यत् च = अपरमपि
यत् = यत्
द्रष्टुम् =अवलोकितुम्
इच्छसि = अभिलषसि
तत् इह = तत्सर्वम् अत्र
मम = मे
देहे = शरीरे
पश्य = अवलोकय ।

अर्थः सम्पादयतु

गुडाकेश ! इदानीम् एकत्रैव वर्तमानं स्थावरजमात्मकं समग्रमपि भुवनं पश्य । अन्यदपि यत् यत् द्रष्टुमिच्छसि तत्सर्वं ममास्मिन् शरीरे पश्य ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु