श्लोकः सम्पादयतु

 
गीतोपदेशः
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकषष्टितमः(६१) श्लोकः ।

पदच्छेदः सम्पादयतु

ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

अन्वयः सम्पादयतु

अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति ।

शब्दार्थः सम्पादयतु

ईश्वरः = नारायणः
सर्वभूतानि = सकलप्राणिनः
यन्त्रारूढानि = यन्त्राधितिानि इव
मायया = प्रकृत्या
भ्रामयन् = चालयन्
सर्वभूतानाम् = सकलप्राणिनाम्
हृद्देशे = हृदयप्रदेशे ।

अर्थः सम्पादयतु

अर्जुन ! सर्वेषामपि प्राणिनां हृदये ईश्वरो वर्तते । सः तानि सर्वाणि भूतानि यन्त्रारूढानि इव सम्यक् भ्रामयति । अतः त्वं न स्वतन्त्रः । युद्धं न करोमि इति कृतनिर्णयोऽपि अन्ते युद्धं करिष्यस्येव । तस्मात् इदानीमेव मम वचनं पालय ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ईश्वरः_सर्वभूतानां...&oldid=418485" इत्यस्माद् प्रतिप्राप्तम्