उत्तमः पुरुषस्त्वन्यः...
भगवद्गीतायाः श्लोकः १५.१७
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
- यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः
सम्पादयतुउत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥
अन्वयः
सम्पादयतुउत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः अव्ययः यः लोकत्रयम् आविश्य बिभर्ति ।
शब्दार्थः
सम्पादयतु- परमात्मा = परब्रह्म
- उदाहृतः = कथितः
- ईश्वरः = प्रभुः
- लोकत्रयम् = भुवनत्रयम्
- आविश्य = प्रविश्य
- बिभर्ति = धारयति ।
अर्थः
सम्पादयतुआभ्याम् उभाभ्यामपि भिन्नः अन्यः कश्चित् पुरुषो वर्तते । सः उत्तमः पुरुषः । स एव परमात्मा यः त्रीन् अपि लोकान् व्याप्य तान् बिभर्ति । एवं कार्यभूतः पदार्थः महदादिः क्षरः, कारणीभूता प्रकृतिः अक्षरः । ताभ्यां व्यतिरिक्तः उत्तमः पदार्थः परमात्मेति भागत्रयम् ।