उत्तरत्रिपुरामण्डलम्

(उत्तरत्रिपुरामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

उत्तरत्रिपुरामण्डलं (वङ्ग: উত্তর ত্রিপুরা জেলা आङ्ग्ल: North Tripura District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धर्मनगर (Dharmanagar) इत्येतन्नगरम् ।

उत्तरत्रिपुरामण्डलम्

North Tripura district

উত্তর ত্রিপুরা জেলা
मण्डलम्
त्रिपुराराज्ये उत्तरत्रिपुरामण्डलम्
त्रिपुराराज्ये उत्तरत्रिपुरामण्डलम्
देशः  India
जिल्हा उत्तरत्रिपुरामण्डलम्
विस्तारः १,४२२ च.कि.मी.
जनसङ्ख्या(२०११) ३,७८,२३०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://northtripura.gov.in/welcome.html
त्रिपुराराज्ये उत्तरत्रिपुरामण्डलम्

भौगोलिकम् सम्पादयतु

उत्तरत्रिपुरामण्डलस्य विस्तारः १,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि मिजोरामराज्यं, पश्चिमदिशि धलाइमण्डलम्, उत्तरदिशि आसामराज्यं, दक्षिणदिशि बाङ्गलादेशः अस्ति । द्वे पर्वतावली स्त:, ते जम्पुइ, सकन् ।

जनसङ्ख्या सम्पादयतु

उत्तरत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) ६,९३,९४७ अस्ति । अस्मिन् ३,५२,८६० पुरुषा:, ३,४१,०८७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६७ अस्ति । अत्र साक्षरता ८७.५० % अस्ति । मण्डलेऽस्मिन् ८२.६७% जना: ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित् सम्पादयतु

आङ्ग्लप्रशासका: १७६१ तमे वर्षे इमं प्रदेशं प्रविष्टवन्त: । परं १८७१ तमवर्षपर्यन्तं कोऽपि तत्र प्रशासकत्वेन नासीत्, अत: १८७१ तमवर्षपर्यन्तं स्वतन्त्रमेव आसीत् । १९४९ तमवर्षे विलीनिकरणसमये भारतदेशे समाविष्ट: जात: । उत्तरत्रिपुरामण्डलस्य विभाजनं कृत्वा १९९५ तमे वर्षे धलाइमण्डलं संस्थापितमस्ति ।

विभागा: सम्पादयतु

अस्य मण्डलस्य उपमण्डलानि त्रिषु विभागेषु विभक्तानि ।

  • धर्मनगरम्
  • काञ्चनपुर
  • पानिसागर

मण्डलानां षड्विभागा: प्रशासनार्थं कृता:

  • पानिसागर
  • कदम्ताल
  • दमचेर्रा
  • दस्डा
  • जुबरजनगरम्
  • जम्पुइ हिल्स्

मण्डलेऽस्मिन् अष्ट-उपमण्डलानि सन्ति । तानि -

  • पानिसागर
  • कदम्ताल
  • दमचेर्रा
  • दस्डा
  • जुबरजनगरम्
  • जम्पुइ हिल्स्
  • कैलासहर
  • पेञ्चर्थाल्
  • कुमार्गहत्

लोकजीवनम् सम्पादयतु

मण्डलेऽस्मिन् त्रिपुरी, कोलोइ, हलम्, चक्मा इत्येता: जनजातय: निवसन्ति ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • जम्पुइ हिल्स्
  • लक्ष्मीनारायणमन्दिरम्
  • भगवतीमन्दिरम्
  • कुमारघाट

बाह्यानुबन्धाः सम्पादयतु

फलकम्:त्रिपुराराज्यस्य मण्डलानि फलकम्:आधाराः