उदयपुरमण्डलं (हिन्दी: उदयपुर जिला, आङ्ग्ल: Udaipur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति उदयपुरम् इत्येतत् नगरम् ।

उदयपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये उदयपुरमण्डलम्
राजस्थानराज्ये उदयपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ११,६३० km
Population
 (२००१)
 • Total ३०,६७,५४१
 • Density ३०८/km
Website http://udaipur.nic.in

भौगोलिकम् सम्पादयतु

उदयपुरमण्डलस्य विस्तारः ११,६३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे चित्तौडगढमण्डलं, पश्चिमे गुजरातराज्यम्, अरावली पर्वतश्रेणी च, उत्तरे राजसमन्दमण्डलं, दक्षिणे डुङ्गरपुरमण्डलम् अस्ति । अस्मिन् मण्डले ६२.४५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले बानस, अहर, माही इत्येताः तिस्रः नद्यः प्रवहन्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं उदयपुरमण्डलस्य जनसङ्ख्या ३०,६७,५४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • गिरवा
  • खेरवाढा
  • मावली
  • वल्लभनगर
  • कोटडा
  • जाडोल
  • सालुम्बर

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदयपुर महल्
  • सास-बहू मन्दिरम्
  • एकलिङ्गजी

बाह्यानुबन्धाः सम्पादयतु

 
"https://sa.wikipedia.org/w/index.php?title=उदयपुरमण्डलम्&oldid=464770" इत्यस्माद् प्रतिप्राप्तम्