उपपदसप्तमी
बालेषु अधीयानेषु गतः । गोषु दुह्यमानासु गतः । यस्य च भावेन भावलक्षणम् (पा.सू.- २.३.३७) यस्य क्रियाया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । ज्ञापकक्रियाश्रयात् सप्तमीति फलितार्थः । अत्र द्वे क्रिये भवतः । तयो एकस्याः क्रियायाः कालः निर्ज्ञातः भवति । तयोः निर्ज्ञातकालक्रिया ज्ञापिका भवति । अनिर्ज्ञातम्कलक्रिया ज्ञाप्या भवति । तत्र निज्ञातकालक्रियाश्रयात् सप्तमी भवति । निर्जातकालक्रियाश्रयः कर्ता अपि भवति कर्म अपि ।
उदाहरणानि
सम्पादयतु‘बालेषु अधीयानेषु गतः’ इति प्रश्ने अधीयानेषु बालेषु । इत्युत्तरम् अत्र अध्ययनमपि ज्ञातम् । किन्तु तस्य कालः न ज्ञातः अतः अध्ययन क्रियायाः कालः अनिज्ञातः । अतः अनिर्ज्ञातकालगमनक्रिया ज्ञाप्या । निज्ञातकालाध्ययनक्रिया ज्ञापिका । बालेषु अधीयानेषु गतः । इत्यत्र बालाः निर्ज्ञातकालज्ञापक क्रियाश्रयः । अतः बालशब्दात् सप्तमी । अस्मिन् वाक्ये कर्तृगता ज्ञापकक्रिया । अध्ययनक्रियाया आश्रयः बालाः कर्तारः खलु ।
‘गोषु दुह्यमानासु गतः’ इत्यत्रापि दोहनं गमनञ्चेति द्वे क्रिये । कदा गतः इति प्रश्ने दुह्यमानासु गोषु इत्युत्तरम् । अत्र दोहनं ज्ञातम् । तस्य कालोऽपि ज्ञातः । गमनं ज्ञातम् । तस्य कालः न ज्ञातः । अतः दोहन् क्रियायाः कालः निर्ज्ञातः । गमन क्रियायाः कालः अनिज्ञातः । अतः अनिज्ञातकालगमन क्रियाज्ञाप्या निर्ज्ञात् दोहन् क्रिया ज्ञापिका । गोषु डुह्यमानासु गतः इत्यत्र गातः निज्ञातकालज्ञापक क्रियाश्रयः । अतः गोशब्दात् सप्तमी । दुह्यगमानासु इत्यत्र तु गोषु इत्यस्य विशेषणत्वात् सप्तमी । अस्मिन् वाक्ये ज्ञापकक्रिया कर्मगता । दोहनक्रियायाः कर्मभूताः गावः खलु ।
‘अधीती व्याकरणे ’ इत्युदाहरणे ‘क्तस्येन्विषयस्य कर्मणुपसख्यानम्’ इति वार्तीकेन इनप्रत्ययान्तो यः क्तप्रत्ययान्तः तस्य कर्मणि सप्तमी स्यात् इत्यर्थः । अधीति व्याकरणे । अधीतम् अनेन – इति विग्रहे तद्धितः इन् प्रत्ययः (अधीत्+ इन्) भवति । अतः अधीती इति हन्प्रत्ययान्तः क्तप्रत्ययान्तः । अधीती= अधीतवान् इत्यर्थः । किम् अधीतवान् इति जिज्ञासायां व्याकरणं कर्मत्वेन अन्वेति । अतः द्वितीयायाः प्राप्तौ सप्तमी विधीयते । व्याकरणकर्मकाध्ययनकर्ता इत्यर्थः ।