पर्यायेण द्वयोस्तच्चेतुपमेयोपमा मता ।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥

द्वयोः धर्मार्थयोर्हि कस्यचित्केनचित् सादृश्ये वर्णिते तस्याप्यनेन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतियसदृशव्यवच्छेदं फलति । पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् उदाहरणान्तरम् –

खमिव जलं जलमिव खं हंस इव चन्द्रः चन्द्र इव हंसः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥

पूर्वत्र पूर्णश्रीरिति धर्मः उपात्तः । इह निर्मलत्वादिधर्मो नोपात्तः इति भेदः । उदाहरणद्वये अपि प्रकृतयोरेव उपमानोपमेयत्वकल्पनम् । राज्ञि धर्मार्धसमृद्धेः शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात्प्र कृताप्रकृतयोरप्येषा संभवति । यथा वा –

गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः ।
निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥

बाह्यसम्पर्कः

सम्पादयतु

उपमेयोपमा

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=उपमेयोपमालङ्कारः&oldid=419050" इत्यस्माद् प्रतिप्राप्तम्