ऋषभगजविलसितम्
ऋषभगजविलसितम्।
प्रतिचरणम् अक्षरसङ्ख्या 16
भ्रत्रिनगै: स्वरात्खम् ऋषभगज-विलसितम्।- केदारभट्टकृत- वृत्तरत्नाकर:३.८७.
ऽ।। ऽ।ऽ ।।। ।।। ।।। ऽ
भ र न न न ग।
यति: सप्तभि: ।
उदाहरणम् -
धर्मविनष्ट्यधर्मविकसनमवनितले, वीक्ष्य दधे ऽवतारमपि जनिमृतिरहित:। सज्जनरक्षणाय च खलजननिहतये, सुस्थिरधर्ममार्गमपि रचयितुमनघ॥