एकशेषः सामान्यतया यदा वयं जनान् पृच्छामः यत् "पितरौ" इत्यत्र कः समासः इति, तदा जनाः एकस्वरेण एकशेषसमासः इत्येव वदन्ति। परन्तु अत्र एकशेषः समासः न अपितु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु अन्यतमा वृत्तिः एकशेषवृत्तिः वर्तते इति अस्माभिः अवगन्तव्यम् । इयम् एकशेषवृत्तिः द्वन्द्वसमासस्य अपवादभूता वर्तते।

एकशेषस्य कानिचन उदाहरणानि-

१. माता च पिता च = पितरौ
२. भ्राता च स्वसा च = भ्रातरौ
३. पुत्रश्च दुहिता च = पुत्रौ
४. हंसश्च हंसी च = हंसौ
५. स च रामश्च = तौ
६. स च यश्च = यौ
७. भवन्तश्च भवत्यश्च = भवन्तः
८. यूयं च वयं च = वयम्
९. रामश्च रामश्च = रामौ


एकशेषः समासो न । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु एकशेषः अन्यतमः । अतः समासः यथा वृत्तिः, तथा एकशेषोऽपि पृथक् वृत्तिरेव । अयम् एकशेषः द्वन्द्वसमासस्य अपवादः ।

उदाहरणानि –

१. माता च पिता च – पितरौ ।
२. भ्राता च स्वसा च – भ्रातरौ ।
३. पुत्रश्च दुहिता च – पुत्रौ ।
४. हंसश्च हंसी च – हंसौ ।
५. स च रामश्च – तौ ।
६. स च यश्च – तौ ।
७. भवन्तश्च भवत्यश्च – भवन्तः ।
८. यूयं च वयं च – वयम् ।
९. रामश्च रामश्च – रामौ ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एकशेषः&oldid=419068" इत्यस्माद् प्रतिप्राप्तम्