(कालः – १७. ०५. १७४९ तः १८२३)

एड्वर्ड् जेन्नर् FRS
जननम् १७ मे १७४९
बेर्किली, ग्लूसेस्टेरषैरम्
मरणम् २६ जन्युवरि १८२३, (आयुः ७३)
बेर्किली, ग्लूसेस्टेरषैरम्
वासस्थानम् बेर्किली, ग्लूसेस्टेरषैरम्
देशीयता आङ्ग्लेयः
कार्यक्षेत्राणि Microbiology
मातृसंस्थाः सेयिन्ट् जार्ज् विश्वविद्यालयः, लण्डन्
संशोधनमार्गदर्शी जान् हन्टर्, ( अस्त्रचिकित्सकः)
विषयेषु प्रसिद्धः मसूरिका वाक्सैन्


एड्वर्ड् जेन्नरस्य गृहम्

अयम् एड्वर्ड् जेन्नर् (Edward Jenner) शीतलारोगस्य चिकित्सकः । बहुभ्यः शतकेभ्यः “देवस्य शापः” इति उच्यते स्म शीतलारोगः । अस्य रोगस्य औषधम् एव नासीत् । अयं रोगः अपि अत्यन्तं वेगेन प्रसरति स्म । सः कश्चन साङ्क्रामिकः रोगः आसीत् । भारते तु अस्य शीतलारोगस्य महान् इतिहासः एव अस्ति । प्रतिवर्षं सहस्रशः जनाः अनेन रोगेण पीडिताः मृताः एव भवन्ति स्म । तादृशस्य महारोगस्य चिकित्सापद्धतिं संशोधितवान् अयम् एड्वर्ड् जेन्नर् । सः एड्वर्ड् जेन्नर् १७४९ तमे वर्षे मेमासस्य १७ दिनाङ्के इङ्ग्लेण्ड्–देशस्य ग्लासेस्टर् शैर् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता क्रिश्चियन्-मतस्य मन्दिरे धर्मगुरुः (फादर्) आसीत् । पुत्रः वैद्यविज्ञाने आसक्तः इति ज्ञात्वा तदर्थम् उत्तमां व्यवस्थाम् अकल्पयत् सः । एषः एड्वर्ड् जेन्नर् परिसरस्य अध्ययने, कवितानां रचनायां च आसक्तः आसीत् । तस्य बाल्यादारभ्य अपि शीतलारोगस्य विषये महत् कुतूहलम् आसीत् । १७७० तमे वर्षे लण्डन्-नगरं गत्वा तत्रत्ये सुप्रसिद्धे वैद्यालये “जान् हण्टन्” इत्यस्मात् वैद्यात् प्रशिक्षणम् अपि प्राप्नोत् । अनन्तरं १७७३ तमे वर्षे पुनः ग्रामं प्रत्यागत्य तत्रैव वैद्यवृत्तिम् आरब्धवान् ।

तदानीन्तने काले जनानां “शीतलारोगः जीवने एकवारम् एव आगच्छति । पुनः पुनः न आगच्छति” इति कश्चन विश्वासः आसीत् । तदर्थम् एव केचन शीतलारोगेण पीडितस्य शरीरे विद्यमानात् व्रणात् किञ्चित् व्रणद्रवं स्वीकृत्य स्वहस्ते लेपयन्ति स्म । तेन ते अपि शीतलारोगेण पीडिताः भवन्ति स्म । तथा करणेन सः रोगः सौम्यः भवति इति न आसीत् । तस्मात् तथा करणम् अपि भयावहम् एव आसीत् । धेनूनाम् अपि कश्चन शीतलारोगः भवति स्म । तथैव अश्वानाम् अपि । तेषां प्राणिनां रोगः गोपालकेषु, अश्वपालकेषु च आक्रान्तः भवति स्म । तथापि तेन कोऽपि मरणं न प्राप्नोति स्म । प्राणिनां शीतलारोगः मानवानां शीतलारोगः इव भयङ्करः न भवति स्म । सः तु सौम्यः रोगः आसीत् । प्राणिनां रोगः यदि एकवारं मनुष्येषु आक्रमति तर्हि पुनः सः मनुष्यः मानवानां शीतलारोगेण पीडितः न भवति स्म । एतम् एव विषयं मनसि निधाय अयम् एड्वर्ड् जेन्नर् प्रयोगान् आरब्धवान् ।

अयम् एड्वर्ड् जेन्नर् १७९६ तमे वर्षे शीतलारोगेण पीडितायाः धेनोः शरीरे विद्यमानात् व्रणात् किञ्चित् व्रणद्रवं स्वीकृत्य अष्टवर्षीयस्य कस्यचित् बालस्य हस्ते लेपितवान् । सः बालकः प्राणिनां शीतलारोगेण पीडितः अभवत् । कतिपय दिनानाम् अनन्तरं च सः बालकः स्वस्थः अपि अभवत् । मासद्वयस्य अनन्तरं पुनः तस्य बालकस्य हस्ते मनुष्याणां शीतलारोगस्य द्रवं लेपितवान् । किन्तु बालकः मनुष्याणां शीतलारोगेण पीडितः न अभवत् । अस्य एड्वर्ड् जेन्नरस्य प्रयोगः यशस्वी अभवत् । ततः अयम् एड्वर्ड् जेन्नर् प्राणिनां शीतलारोगं मनुष्येषु आक्राम्य मनुष्याणां शीतलारोगात् विमुक्तिं कारयितुम् आरब्धवान् । सः एव क्रमः “व्याक्सिनेषन्” इति उक्तम् । यदा अयम् एड्वर्ड् जेन्नर् स्वप्रयोगं संशोधनं च प्राकटयत् तदा सर्वत्र महान् विरोधः आरब्धः । बहवः “अहम् एव प्रथमम् एतत् संशोधितवान्” इति उक्तवन्तः । किन्तु एड्वर्ड् जेन्नर् सर्वम् अपि विरोधं समर्थतया सम्मुखीकृतवान् । ७५ पुटानां किञ्चित् पुस्तकम् अपि लिखित्वा प्रकटितवान् । अनेन एड्वर्ड् जेन्नरेण संशोधितः अयं रोगापहारस्य क्रमः यूरोप्-देशे सर्वत्र अत्यन्तं वेगेन प्रसृतः । तस्य संशोधनस्य अनुवर्तनार्थं २०,००० पौण्ड् यावत् धनस्य साहाय्यम् अपि प्राप्तम् । विश्वस्य बहुभ्यः भागेभ्यः प्रशंसा उपायनानि च आगतानि । ब्रिटिश्–संसत् अस्मै एड्वर्ड् जेन्नराय “सर्” इति पदवीम् अपि प्रायच्छत् । रष्यादेशस्य चर्कवर्ती जार् अस्मै एड्वर्ड् जेन्नराय स्वर्णस्य अङ्गुलीयकम् अपि उपायनरूपेण प्रेषितवान् । अमेरिका–संयुक्त–संस्थानतः अपि कश्चन गणः आगत्य अस्य सम्माननम् अकरोत् । एतावती कीर्तिः सम्पादिता चेदपि सः एड्वर्ड् जेन्नर् अहङ्कारं न प्राप्तवान् । सः जीवनस्य अन्तपर्यन्तम् अपि ग्रामे एव वैद्यरूपेण अतिष्ठत् । १८२३ तमे वर्षे इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=एड्वर्ड्_जेन्नर्&oldid=481463" इत्यस्माद् प्रतिप्राप्तम्