श्लोकः सम्पादयतु

 
गीतोपदेशः
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः सम्पादयतु

एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः प्रभवन्ति उग्रकर्माणः क्षयाय जगतः हिताः ॥

अन्वयः सम्पादयतु

एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ।

शब्दार्थः सम्पादयतु

अवष्टभ्य = अवलम्ब्य
नष्टात्मानः = नष्टचित्ताः
अल्पबुद्धयः = स्वल्पविवेकाः
उग्रकर्माणः = क्रूरकार्याः
अहिताः = शत्रवः
जगतः = लोकस्य
क्षयाय = विनाशाय
प्रभवन्ति = कल्पन्ते ।

अर्थः सम्पादयतु

नष्टचित्ताः मन्दमतयश्च ते जनाः इमां दृष्टिम् अवलम्ब्य क्रूरे कार्ये आसक्ताः शत्रवः सन्तः जगतो नाशाय प्रवर्तन्ते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एतां_दृष्टिमवष्टभ्य...&oldid=418500" इत्यस्माद् प्रतिप्राप्तम्