एतां विभूतिं योगं च...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
- सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
सम्पादयतुएतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ ७ ॥
अन्वयः
सम्पादयतुयः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति सः अविकम्पेन योगेन युज्यते, अत्र संशयः न ।
शब्दार्थः
सम्पादयतु- यः = यः मनुजः
- एताम् = एनाम्
- मम विभूतिम् = मे ऐश्वर्यम्
- योगं च = तत्तदर्थनिर्माणसामर्थ्यं च
- तत्त्वतः = यथावत्
- वेत्ति = जानाति
- सः = सः मानवः
- अविकम्पेन = अचञ्चलेन
- योगेन = सम्यक् दर्शनेन
- युज्यते = सम्बध्यते
- अत्र = अस्मिन् विषये
- संशयः न = सन्देहः नास्ति ।
अर्थः
सम्पादयतुयः मनुष्यः मम एतत् ऐश्वर्यं तत्तत्पदार्थनिर्माणसामर्थ्यं च यथावत् जानाति सः अचञ्चलेन सम्यक् दर्शनेन सम्बध्यते । अस्मिन् विषये संशयः नास्ति ।
रामानुजभाष्यम्
सम्पादयतुविभूतिरैश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तिरूपां विभूतिं मम हेयप्रत्यनीककल्याणगुणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेनाप्रकम्पेन भक्तियोगेन युज्यते, नात्र संशयम् । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनमिति स्वयमेव द्रक्ष्यसीत्यभिप्रायम् ॥१०.७॥